________________
सिद्धिविनिश्चयटीकायाम्
[ ८ सर्वज्ञसिद्धिः
यत्पुनरेतत् -“बुद्ध्यादिः गुणः निषिध्यमानद्रव्यकर्मभावत्वे सति सत्तासम्बन्धित्वाद् रूपादिवत्" इति'; तदपि न सुन्दरम् ; प्रध्वंसेन व्यभिचारात् । न व्यभिचारः ; तस्य [सत्ता ] सम्बन्धित्वाभावादिति चेत्; न; तस्य सत्तासम्बन्धोऽपि [भवतु ] दोषाभावात् । कथमन्यथा 'प्रध्वंसः सन्' इति प्रत्ययः ? औपचारिक इति चेत्; कुत एतत् ? तत्सम्बन्धाभावास्या (भा५ वाच्चेत् ; तद) पि कुतः ? तत्प्रत्ययस्य औपचारिक [त्वाच्चे ] त्; अन्योऽन्यसंश्रयेः । अथ प्रध्वंसे सत्प्रत्यय उपचरितो 'द्रव्यादिविषय उपचरितो' द्रव्यादिविषयत्वे सति तत्प्रत्ययत्वा [ त्] सामान्यादिवदिति ; तद्विषयत्वं कुतः ? तत्प्रत्ययोपचारात् ; पुनः अन्योऽन्यसंश्रयः । अथ न प्रध्वंसो [द्रव्यादीनामन्यते मोन्याश्रियत्वेताप्रतीतेच (न्यतमः, अन्याश्रितत्वेनाप्रतीतेः । अ) त
एव बुद्ध्यादिरपि [४३४ क]न स्यादिति तदेव आवर्तते इति चक्रकप्रसङ्गः ।
१०
;
स्यान्मतम्-प्रध्वंसाता (ध्वंसे सत्ता ) सम्बन्धे अभावत्वं हीयते इति तस्योत्पादे अर्थक्रियाकारित्वे वा कुतो न हीयते ? ततो यथा तदविशेषेऽपि तन्न हीयते तथा तत्सम्बन्धाविशेषेऽपिइति सर्वं सुस्थम् ।
किञ्चित् (किश्च) तत्सम्बन्धाभेदेऽपि यदि द्रव्यादीनां भावाभावभेदः ; [अभावोऽपि ] भिन्न [:] स्यात्, अवान्तरसामान्यस्य अभावेष्वपि निषेधुमशक्यत्वात् । अन्यथतत्र (अन्यथा तत्र १५ अ)भावप्रत्ययाभिधानानुगमो दुर्लभो भवेत् । तन्न बुद्ध्यादीनां गुणत्वं प्रध्वंसवदिति न समवायिकारणसिद्धि: ।
५५६
अथ बुद्ध्यादेः का [दा] चित्कत्वं समवायिकारणं गमयति ; तदपि प्रध्वंसेन व्यभिचारि । 'भावत्वे सति' इत्यपि न सुन्दरतरम् ; प्रध्वंसवत् भावस्यापि कस्यचित् ' तथोत्पन्य (त्य) विरोधातू, चित्रत्वाद् भावस्वभावानाम् । अथ बुद्ध्यादेः समवायिकारणाभावे कुत उत्पत्तिः ? २० प्रध्वंसवत् निमित्तकारणात् किन्न स्यात् ? इतरथा प्रध्वंसस्यापि न स्यात् । निर्हेतु प्रध्वंसभावे न कारणाभावप्रयुक्त [: कार्याभाव] इति चेत्; सौविक्रते (सोऽपि कुतः ?) अभावत्वादित (ति) चेत् ; उक्तमत्र । अपि च, 'घटादीनां कारणं सत्तासम्बन्धो वा 'अस्ति' इति कुतः ? स्वरूपेण सत्त्वे तदपि वेतिते चेत् स्वत्व (तथेति स्वरूपसत्त्व) मायातम् । उभयमपि नेति चेत्; पदार्थान्तरं तथाविधं किन्न स्यादृतः(त् ? यतः) पदार्थ संख्यानियमो व्यवतिष्ठेत । अदर्शनादिति चेत् ; अन्यत्र समानम् । २५ तस्माद् 'आत्मलाभ उत्पत्तिः' इति ।
स्थितिमाह स्थि[ति ] रित्यादिना । पुनः इत्यादिना सं (नाशं) स्वभावशब्देन [ ४३४ ख] भावा[द्]भिन्नं स्वात्सं (नाशं ) प्रतिषेधति प्रच्यवनम् इत्यनेन सतः तिरोभावम्, निरूपितं चैतत् । एतत् उत्पत्त्यादित्रयं परस्परस्य अन्योऽन्यस्य एकार्थ आत्मा स्वभावो यस्य तत्तथोक्तम् ।
(१) तुलना - " गुणः शब्दो द्रव्यकर्मान्यत्वे सति सत्तासम्बन्धित्वात् रूपादिवत् ।” प्रश० व्यो० पृ० ६४९ । (२) सन्निति प्रत्ययस्योपचारिकत्वे तत्सम्बन्धाभावः तस्मिंश्च तत्प्रत्ययस्यौपचारिकत्वभिति । (३) 'द्रव्यादिविषय उपचरितो' इति पुनर्लिखितं व्यर्थम् । ( ४ ) सत्प्रत्ययस्य द्रव्यादिविषयत्वम् । (५) चेत्; । (६) चेत् ; । (७) 'भावत्वे सति कादाचित्कत्वात्' इति । (८) समवायिकारणाभावेऽपि । ( ९ ) प्रतिषेधति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org