________________
८।२०]
एकान्तवादिनां न तत्त्वज्ञानम् त्मविवर्त प्रत्यन्यानपेक्षणात् । पूर्वस्य वैकल्यम् उत्तरस्य वैकल्यम् । सतो द्रव्यस्य दृश्यं मध्यरूपं कथञ्चित्सदेव, अन्यथा 'सर्वथा । स्वसन्तानपतितमुत्तरपरिणाममप्राप्नुवतः परोपकारासंभवात् । सकल' । परस्परप्रवर्तननिवर्तनाभ्यामन्वयव्यतिरेकलक्षणत्वादन्योऽन्यं द्रव्याणाम् । तदन्ते क्षयदर्शनात् पूर्वमपि क्षयमिच्छन् मध्ये स्थितिदर्शनात् पूर्वापरकोट्योरपि स्वभावस्थिति निश्चेतुमर्हति अविशेषात् । दृश्यादृश्याद्यात्मकमेकम् प्रत्यक्ष-५ परोक्षवत् उद्भूतरूपस्पर्शादिपुद्गलवत् । प्रत्यक्षस्वभावस्यैव कथञ्चिदनुमेयतोपपत्तेश्च । नहि तद्विरुद्धम् ; संवित्तेरपि अभावप्रसङ्गात् । तन्मिथ्यैकान्ताभिनिवेशवन्तः' 'किंच उत्तरत्र निषेत्स्यमानत्वात् । ]
नतु (ननु) अनेकान्तात्मकत्ववत् एकस्य प्रतिक्षणं स्थित्युत्पत्तिव्ययात्मकत्वम् , न च मन्या (मण्या) दीना (नां) तथोत्पत्तिव्ययौ, चरमध्य (मान्त्य)क्षणानां च स्थितिः प्रतीयते इति चेत् ; १० अत्राह-सर्वस्यैव इत्यादि । सर्वस्यैव न नियतस्य चेतनेतरवर्गस्य सतो विद्यमानस्य, हेतुपदमेतत् । किंभूतस्य ? इत्याह-स्थित्वि(त्यि)त्यादि । तस्य किम् ? इत्याह-सिद्धा निश्चिता । का ? इत्याह-वृत्तिः । किंभूता? उद्भता । किं सर्वत्र सर्वथा ? न इत्याह, कचित् कथञ्चिद् इति स्थित्युत्पत्तिव्ययानां मध्ये अन्यतमात्मनः अन्यतमस्वभावस्य मन्य दौ (मण्यादौ) स्थित्यात्मनः संसारिजीवादौ त्रयात्मनः ।
कारिकां व्याख्यातुं पूर्वपक्षयन्नाह-उत्पत्तिः इत्यादि । उत्पत्तिः प्रादुर्भावः । का ? इत्याह-आत्मलाभः आत्मनः स्वरूपस्य[लाभः], प्रागसतो न कारणसमवायः सत्तासमवायो वा इति भावः । तथाहि-पूर्व स्वतः सतश्चेत् समवायः उत्पत्तिः ; आत्मादिविभुत्वादीनां च स्यात् । असतश्चेत् ; शशविषाणादीनां भवेत् । पूर्ववत् पश्चादपि तेषामसत्त्वात् नेति चेत् ; किमिदं तदसत्त्वम् ? तत्सम्बन्धाभावश्चेत् ; सोऽपि कुतः ? अभावाच्चेत् ; अन्योऽन्यसंश्रयः- २० तथाहि-सिद्धे तदभावे तत्सम्बन्धत्वाभावः, तस्माच्च तदभाव इति । कारणाभावात् तदभावे इदमे [व] वक्तव्यम् । तद्यथा कुतः तत्कारणाभावः ? अत्यन्ताभावरूपत्वात् । तदीप कुतः ? कारणाभावात् ; अन्योऽन्यसंश्रयः । कथं[४३३ख व (च) प्रध्वंसाभावो विद्यमानः ? यतो मुद्गरादिसाफल्यम् । नहि तस्य[स]मवायि-असमवायिकारणमिष्यते । 'निमित्तकारणमस्ति' इति चेत् ; इतरत्र(ईतरन् नेति) कुतः ? अदर्शनादिति चेत् ; तँत एव बुद्धिशब्दादीनाम् अत्यन्तभिन्नम् २५ आत्माकाशादि समवायिकारणं न स्यात् । नहि तदुपलभ्यते यथोपवर्ण्यते परेण । निराधारती स्यात् चेत् ; अस्तु, को दोषः ? नि(नी) रूपता इति चेत् ; न ; प्रध्वंसेन व्यभिचारात् । गुणत्वाभावश्चेत् ; किमिदं गुणत्वं नाम ? स्वरूपमेव इति नोत्तरम् ; प्रध्वंसेतिपि (सेऽपि) प्रसङ्गात् । एतेना (न)गुणत्व (त्वं) चिन्तितम् । द्रव्याश्रितत्वम् इति चेत् ; तदपि कुतः ? गुणत्वादिति तु भा(दुर्भा)षितम् , अन्योऽन्यसंश्रयात्-गुणत्वे तदाश्रितत्वं ततो गुणत्वमिति । ३०
(१) प्रतिक्षणम् । (२) शशविषाणादीनाम् । (३) शशविषाणादीनामभावे । (४) इति चेत् ।। (५) कारणाभावे अत्यन्ताभावरूपता सिद्धयति, तस्याश्च कारणाभाव इति । (६) समवायिकारणम् असमवायिकारणं च कुतो न ? (७) अदर्शनादेव । (८) शब्दादीनाम् । (९) द्रव्याश्रितत्वम् । '
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org