________________
५५४ सिद्धिविनिश्चयटीकायाम्
[ ८ सर्वशसिद्धिः स्यान्मतम्-अबाधितविज्ञानज्ञेयत्वम् अशेषविदि असिद्धम् ; इत्यत्राह-तबाधितज्ञानज्ञेयत्वम् अस्ति सर्वज्ञऽपि, गतार्थमेतत् । तन्न सूक्त (क्तम्-) *"साधकबाध[क]प्रमाणाभावात्तत्र संशयः" इति ।
दूषणान्तरमात्र (मत्र)व दर्शयन्नाह-साधन (धक) इत्यादि । साधकप्रमाणं सर्वज्ञविषयं ५ ज्ञानम् बाधकं प्रमाणं तदभावविषयं 'तत् तदभावे तद्विषयज्ञानरहितत्वे अङ्गीक्रियमाणे संशयोऽपि मा भूत्। नहि धर्मिमात्रस्याप्यग्रहणे से युक्तः । निदर्शनमाह-नैरात्म्यवत् पञ्चत्वे इव तद्वत् । ___ ननु सर्वज्ञानम् आत्माधीनं पञ्चत्वे तदभावात् कथं तदिति चेत् ? अत्राह-सुप्त इत्यादि । पूर्व सौगतं परं मीमांसकं प्रति । एतेन धर्म्यसिद्धिनिरस्ता । परमप्यत्र वक्तव्यमस्ति
इति दर्शयन्नाह-इत्यलं प्रसङ्गेन इति । १०. ननु सत्यपि सर्वज्ञे कथम् अर्हन्नेव सर्वज्ञो नेतरः ? तदुक्तं सुक्तम् ।
*"सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा। तावुभौ यदि सर्वज्ञौ मतभेदः कथं तयोः ॥"
तत्त्वसं० श्लो० ३१४९ पूर्वपक्षे] इति । एतदेव दर्शयन्नाह-सत्यपि इत्यादि।
[सत्यपि स्वानुभूतस्य तत्त्वमेकान्तवादिनः ।
अलक्षयन्तः कल्प्येरन् सर्वज्ञाः किं परीक्षकैः ॥१९॥] तत्रोत्तरमाह-एकान्तवादिन इत्यादि । सुगतादयः तत्त्वं स्वरूपमलक्षयन्तोऽनिश्चितवन्तः । कस्य ? स्तात्र(स्वानुभूतस्य) वस्तुनः सुखादिनीलादेः अनेकान्तात्मनोऽनुभूतस्य
एकान्तरूपतया लक्षणात् कल्पेरन्(कल्प्येरन्)सर्वज्ञः(ज्ञाः) किं परीक्षकैः ? नैव । २० स्यान्मतम्-परचेतोवृत्तीनां दुरन्वयत्वात् कथमवगम्यते 'तदलक्षयन्तः' इति ? अन्यथाभिधाना[४३३क] दूरनलिंवांद्विप्रन्तति (द् विप्रलभन्ति) प्रायाः। तत्रापि
[सर्वस्यैव सतः सिद्धा स्थित्युत्पत्तिव्ययात्मनः।
कचित् कथञ्चिदुद्भूता वृत्तिरन्यतमात्मनः ॥२०॥ २५ उत्पत्तिरात्मलाभः, स्थितिः [सत्त्वम्], नाशः पुनः स्वभावप्रच्यवनम् च, एतत् परस्परैकार्थात्मकं कथम् ? अपरिणामिनोऽपि तावत् क्षणिकस्य कलान्तरस्थायिनो वाऽर्थस्य यो यदात्मा यथाभूतः स तं सदैव लभते । न च त्र्यात्मव्यतिरेकेण उत्पत्तिः स्थितिर्विपत्तिा युज्येत, द्रव्यान्तरव्यावृत्तिलक्षणत्वात् स्वस्वभावस्थितेः। परिणामिनश्चार्थस्य सतः पूर्वस्वभावप्रच्युतिरेव पुनः स्वभावान्तरप्राप्तिः । परिणामिकारणस्य स्वकार्या
(१) ज्ञानम् । (२) संशयः । (३) शून्यत्ववत् इत्यर्थः कदाचित् स्यात् मृतवत् इत्यर्थः। (४) शून्यस्वे । (५) प्रति । (६) द्वितीयम् । (७) 'सुक्तम्' इति निरर्थकं पुनर्लिखितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org