________________
८।१८]
नसर्वज्ञ संशयोऽपि
५५३ (तर्हि न सर्वज्ञे धर्मिणि 'तन्निवृत्तेस्तत्सद्भावेन व्याप्तिः) साध्यते किन्तु सपक्षे सुखादौ । तत्र[न] तत्सत्त्वमिति चेत् ; यदोपित (घटादावपि न)शब्दाऽनित्यत्वम् । अत्र अनित्यत्वसामान्येन ; अन्यत्र सत्त्वसामान्येन व्याप्तिरिति समानम् । एवमर्थ चोक्तम्-'प्रत्यक्षस्यापि'इत्यादि ।
नन्वेवं बहिर्व्याप्तिरुपसिता (रुपदर्शिता) स्यात्। तव (न च) एतावता हेतोगम (हेतोर्गमक)त्वम् ; तत्पुत्रत्वादेरपि गमकत्वप्रसङ्गात् , अन्तर्व्याप्त तस्य गमकत्वोपगमात् , “सा च धर्मिणि ५ गृह्यते । न चैतन्न निवृत्ते र स्ता (न चैतत् तन्निवृत्तेरस्ति इ)ति चेत् ; अत्राह-सती इत्यादि । सर्वदे दि (सर्वविदि) धर्मिणि बाधकस्य निवृत्तिः सर्वविदः सत्तां साधयेत् नात्र साध्ये संशयः 'कार्यः' इत्यध्याहारः। अन्यथा चक्षुरादिविषयेऽपि सत्तासन्देहः स्यात् । बाधकनिवृत्तेः अन्यस्य "तल्लक्षणस्याभावात् , अ]दर्शनमात्रस्य व्यभिचारात् ।
ननु इदमनुमानम् "तदन्तरबाधितविषय (य) कथं साध्यसाधकमिति ? तथाहि-नास्ति १० सर्वज्ञा (सर्वज्ञः) [४३२क] सुनिश्चितासंभवत्साधकप्रमाण त्वांतरा (णत्वात् । तदाह-)न वै इत्यादि । कस्यविदर्य ह(कस्यचिदपि अर्ह) तोऽन्यस्य वा सर्वज्ञस्य अभावे अङ्गीक्रियमाणे बाधकप्रमाणमेव न स्यात् उक्तविधिना सर्वज्ञस्य इति किन्तु अपि तु तस्याभावे साध्ये साधकप्रमाणं च न स्यात् साधकप्रमाणाभावः स्यादिति । न वै नैव सर्वज्ञाभावे साधकप्रमाणाभावस्य निश्चेतुमशक्तः, तस्य तदन्तरस्य वा तत्साधकप्रमाणस्य भावात् । तदभावान्नेति १५ चेत् ; कुतः "तदभावः ? अन्यत इति चेत् ; अस्य वैफल्यम् । अत इति चेत् ; अन्योऽन्यसंश्रयः-सिद्धे तदभावे साकल्येतदसा (ल्येन तत्सा)धक प्रमाणं न स्यादिति स्यात्भवे (साधकप्रमाणाभावे) च तदभावसिद्धिरिति यत्किञ्चिदेतत् ।
उपसंहरन्नाह-तत् तस्माद् इयं बाधकप्रमाणव्यावृत्तिरेव नान्यत् । किं कृता ? इत्याहनिश्चिता सती । किं करोति ? इत्याह-सर्वज्ञ इत्यादि । साधकव्यावृत्तिः तदभावं कुतो न २० साधयति ? इत्याह-साधकव्यावृत्तेरसंभवात् सर्वज्ञाभावे तन्निर्णया[संभवा]द् इति भावः । विपक्षे बाधकं दर्शयन्नाह-प्रमेयान्तरस्यापि सुखादिरूपस्य न केवलम् अशेषवित्प्रमेयस्य भत्त्वं परपार्श्वतत्त्वम् (सत्त्व परमार्थत्वम् )अबाधितविज्ञानज्ञयत्वादेव, "दर्शितमात्रस्य व्यभिचारित्वात् । अर्थक्रियाकारणादिति चेत् ; न ; तदप्रतिभासने ततः तदिति स्वपा (निश्चयाऽ) योगात् । प्रतिभासनेऽपि उक्तम् । अबाधितप्रतिभासात् तद्व्यवस्था ; अन्यत्र समाना। ऐतेन अर्थक्रियातः २५ तदिति निरस्तम् , अनवस्था च तत्रापि तदन्तरापेक्षणात् । सत्तासम्बन्धात्" इत्येके ; मरीचिकातोये शक्रतो (तत्कुतो) न ? बाधनादिति चेत् ; पतितोऽसि[४३२ख]मदुपदिष्टो धर्मन्य च मथ(ष्टे धर्मे इत्येवमर्थ)चैवकारकरणम् ।
(१) बाधकनिवृत्तेः। (२) सर्वज्ञसद्भावेन । (३) सुखादौ । (४) सर्वज्ञसत्त्वम् । (५) शब्दानित्यत्वे साध्ये । (६) व्याप्तिरिति चेत् ; । (७) सपक्षे बहिाप्तिमात्रेण । (6) गर्भस्थो मैत्रतनयः श्यामो .. भविष्यति मैत्रतनयत्वात् इत्यादेः । (९) हेतोः । (१०) अन्तर्व्याप्तिः । (११) सत्तालक्षणस्य । (१२) अनुमानान्तर । (१३) सर्वज्ञाभावः। (१४) दर्शितं दर्शनविषयीभूतम् एतावन्मात्रेण प्रमाणत्वं नेति भावः । (१५) सत्त्वम् ।
७०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org