________________
५५२ सिद्धिविनिश्चयटीकायाम्
[८ सर्वज्ञसिद्धिः तत्त्वप्रतिपत्तौ प्रामाण्यप्रतिपत्तावङ्गीक्रियमाणायाम् अतिप्रसङ्गात सकलज्ञानप्रमाणताप्रसङ्गात् , स्व वेतद्वास्यमपि (स्ववेदनवत् बाह्यमपि) निरारेक (क)भवेत् ।।
प्रकृतमुपसंहरन्नाह-तन्न इत्यादि । यत एवं तत् तस्मात् न साकल्येन बाधकप्रमाणव्यावृत्तेः सकाशात् अन्यत् साधकं प्रमाणं नाम किन्तु सैव साधिका इति, यतोऽन्यस्य साध५ कस्य (स्या) भावात् तस्य सर्वज्ञत्वस्य [साधकबाधकप्रमाणाभावात सर्वज्ञत्वं संशीतिमवतरेत् । एतदपि कुतः ? इत्याह-साधक इत्यादि । साधकबाधकयोः अन्योऽन्यं परस्परं यो विधिप्रतिषेधौ तावेव लक्षणं ययोः तयोर्भावात् तत्त्वात् । तथाहि-बाधकप्रतिषेध एव साधकविधिः, 'तत्प्रतिषेध एव स (च)बाधकविधिः, तथा बाध[क] विधिरेव साधकप्रतिषेधः तद्विधिरेव बाधक
प्रतिषेध इति । अन्यथा जीवच्छरीरे नैरात्म्यनिषेधः सात्मको न स्यात् , कृतकत्वादेर्वा हेतोः १० असति विपक्षे अभावाभावो भावात्मको न भवेत् ध में की तैः इति । तन्न 'बाधकनिवृत्तिश्च स्यात् न च सर्वज्ञसद्भावः प्रतिबन्धाभावात्' इति ; सन्दिग्धविपक्षव्यावृत्तेः शेषवत् साधनम् । एतदेव दर्शयन्नाह-कथम् इत्यादि ।
[कथं बाधकनिवृत्तिः सा सती सर्वविदोऽत्यये ।
जगत्सकलज्ञवैकल्ये तद्भावे हेतुरेव वा ॥१८॥ सती बाधकनिवृत्तिः सर्ववित्सत्तां साधयेत् नात्र संशयः । न वै कस्यचिदप्यभावे बाधकप्रमाणमेव न स्यात् किन्तु तदभावे साधकप्रमाणं च न । तदियमेव निश्चिता सर्वज्ञसद्भावं कुतो न साधयति, साधकव्यावृत्तेरसंभवात् । प्रमेयान्तरस्यापि सत्त्वमबाधितविज्ञानज्ञेयत्वादेव । तदस्ति सर्वज्ञऽपि । साधकबाधकप्रमाणाभावे संशयोऽपि मा भूत नैरात्म्यवत् । सुप्तम् । इत्यलं प्रसङ्गेन ।] २० जगतः सकलज्ञवैकल्ये साध्यविपर्ययरूपे सति(सती) तहाधकनिवृत्तिः संभवन्ती तत्सद्भावे(तद्भावे) हेतु [:] सर्वज्ञसद्भावहेतुः, कथमिति ? तत्रोत्तरम्-[बाधक] निवृत्तिः इत्यादि । व्यतिरे[च]को[४३१ ख]नियतो(निपातः) 'सती' तस्य (इत्यस्य) अनन्तरं द्रष्टव्यः । बाधकस्य या निवृत्तिः सा सत्येव । कस्मिन् सति ? इत्याह-सर्वविदोऽत्यये सर्वज्ञाभावे, तन्निवृत्तः तत्सद्भावेन व्याप्तत्वात् । २५ ननु कथं तत्सद्भावाऽसिद्धौ तेन तद्व्याप्तिः १ तन्निवृत्तेः तत्सिद्धिरिति चेत् ; अन्योऽ
न्यसंश्रयः। तथाहि-तन्निवृत्तेः तद्व्याप्तिसिद्धौ ततः "तत्सद्भावः सिध्यति, पुनः तेन तद्व्याप्तिः इति ; तन्न ; शब्दानित्यत्वेन कृतकत्वादेाप्तिसाधनेऽप्यस्य समानत्वात् । अथात्र न धर्मिणि व्याप्तिसिद्धिः इष्यते, अपि तु सपक्षे घटादौ ; तर्हि त सर्वज्ञो धर्मिणि तन्निध्यत्वसद्भातेन व्याधिः
(१) साधकप्रतिषेध एव । (२) साधकविधिरेव । (३) व्यावर्तक इत्यर्थः। (४) एवकारः । (५) बाधकनिवृत्तः । (६) सर्वज्ञसद्भावेन। (७) सर्वज्ञसद्भावासिद्धौ । (८) बाधकनिवृत्तेः व्याप्तिः । (९) बाधकनिवृत्तेः । (१०) सर्वज्ञसद्भावः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org