________________
८ १७ ]
म सर्वशे संशयोऽपि
ज्ञानत्वं स्वसंवदेनेन, निवर्तते च 'तत्सत्त्वनिवृत्तौ तदभाव इति ।
स्यान्मतम् -"तत्सत्त्वाभावेऽपि स्वप्नादिदृष्टघटादौ तदभावा [त् ] न तेन तद्व्याप्तिरिति ; तत्तत् (तन्न) स्वसंवेदन ग्राह्याकारयोर विशेषप्रसङ्गात् तदाकारनिवेदनात् । कारस्य असत्त्वमिच्छता त [द्] बाधकसद्भावोऽभ्युपगन्तव्यः ।
ततः स्वप्नादिग्राद्या
५
अपरे मन्यन्ते - प्रागभावादौ तत्रासंबंध ( सत्तासम्बन्ध ) रहिते तत्सत्त्वाभावेऽपि बाधक - प्रमाणाभावः इति नानयोः व्याप्यव्यापकभाव इति; तन्न; भावाद् भिन्ने [s]भावे बाधकस्य (संभवस्य) दर्शितत्वात्, सत्तासम्बन्ध वा (न्धे च ) । ततो य [त ] एव बाधकासंभवाद् भावनिश्चयः तत एव तत्र [ ४३० ख] शब्देहम्ववदत्तः (सन्देहं वदन्तः) मूढमतय इति ।
न त के तत्स्वरूपात् केवलात् क्वचित् संशीतिरिष्यते, अपि तु साधकाभावसहितात् । साधकप्रमाणात्मको हि बाधकाभावो भावं गमयति । न च सर्वज्ञे सोऽस्तीति चेत्; १० अत्राह–'सावकस्यैवं (साधकस्यैव ) संभवात्' इति व्यतिरेचको" नियतोऽयं (निपातोऽयं ") ‘सिद्धम्' इत्यस्याऽनन्तरं द्रष्टव्यः । साधकस्य संभवात् क्वचित् सर्वज्ञत्वं सिद्ध े सच (सिद्धमेत्र) तत्संभवो दर्शितो नेह पुनरुपदश्येते । यदि च (वा) आत्मनः सकलपदार्थसाक्षात्कारी कस्यचिद् (कश्चिद्) अवस्थाविशेषः समस्तीति श्रौती बाधकरहिता प्रतीतिः तत्साधकं प्रमाणमिति ।
यत्पुनरुक्तं धर्म कीर्ति ना - * " साधकबाधकप्रमाणाभावात्तर्हि सन्देहोऽस्तु" १५ " इति ; तत्राह - केन प्रमाणेन तद्वयस्य साधकबाधकप्रमाणद्वयस्य अभावनिर्णयः न केनचिद् इति निवेदितमेतत् । एवं मन्यते - सर्वज्ञे हेतोः सन्देहसाधनम्, हेतुना [च] सिद्धेन भवितव्यम्, अन्यथा "ततः " तत्साधनायोगात् सन्दिग्धासिद्धा (द्ध) वचनप्रसङ्गादिति ।
१४
ननु मा भूत् "तद्वयाभावनिर्णयः, सन्देहो भवद्वि (वि) ति चे [तू ; ] ततं एव तत्र सन्देहः स्यात् न तद्द्द्वयाभावात् इ [ति । अस्तु ] तत एव सन्देहे इचिंति (इति) चेत्; अत्राह - २० बाधक इत्यादिना । [त]त्र शब्दः क्रमवाची, तन्न तत्सन्देहात् [त]त्र सन्देह इति भावः । तथापि तत एव तंत्र सन्देहं (हः) चेत्; अत्राह - तत एव इत्यादि । बाधकाभावनिर्णयादेव । कुतः ? इत्याह- प्रत्यक्षस्यापि न केवलम् आगमस्य [ ४३१क] तत एव प्रामाण्यं य [तः ] इति । स्यान्मतम्–प्रतिभासात् तत्प्रमाण्यं न "त[तः ] इति ; तत्राह-यथादर्शनम् इत्यादि ।
"
Jain Education International
(१) परमार्थ सत्वनिवृत्तौ । (२) बाधकाभावः । (३) परमार्थ सत्वाभावेऽपि । ( ४ ) बाधकाभावात् । (५) परमार्थसश्वेन । (६) बाधकाभावव्याप्तिः । ( ७ ) परमार्थ सत्वाभावेऽपि । (८) बाधकाभावपरमार्थसवयोः । (९) बाधकाभावात् । (१०) केवलेन । ( ११ ) व्यावर्तकः । ( १२ ) एवकारः । (१३) तुलना“साधकबाधकप्रमाणाभावमात्रं चात्र सन्देहेन लक्ष्यते ।" - प्र० वार्तिकाल० ४।२१ । “ सेयं साधकबाधकप्रमाणानुपपत्तौ सत्यां समानधर्मोपलब्धिः विनश्यदवस्था विशेषस्मृत्या सहाविनश्यदवस्थया एकस्मिन् क्षणे सती संशयज्ञानस्य हेतुरिति सिद्धम् ।" - न्यायवा० ता० टी० पृ० २४७ । न्यायकुसु० स्त० २ पृ० ८ " साधकबाधकप्रमाणयोर्निर्णयात् भावाभावयोरविप्रतिपत्तिः अनिर्णयादारेका स्यात् । " - अष्टश० अष्टस०, पृ० ४९ । लघी० स्ववृ० पृ० २ । प्रमाणनय० १११ | प्रमेयरत्नमा० ३।२९। प्र० मी० पृ० ५ | (१४) हेतो: । (१५) सर्वज्ञसन्देह साधनायोगात् । (१६) साधकबाधकाभावद्वय । ( १७ ) साधकबाधकाभावसन्देहात् । (१८) सर्वज्ञे । (१९) बाधकभावनिर्णयात् ।
५५१
For Personal & Private Use Only
www.jainelibrary.org