________________
५५०
सिद्धिविनिश्चयटीकायाम् [८ सर्वशसिद्धिः नर[:]पुरुषः शरीरी वक्तावा सकलज्ञासकलज्ञ किंविज्ञत्वाजगद्विदतु(वा असकलज्ञम् , किञ्चिज्ज्ञ जगद्विदन्) सर्वज्ञः स्यात् ततो नास्ति सर्वज्ञाभावसाधनम् , तत्साधनस्य तेन व्यभिचाराद् इति भावः।।
कारिकां विवृण्वन्नाह-सत्यपि इत्यादि । सत्यपि न केवलम् असति पुरुषत्वादिसा५ मान्ये यथा केचिदेव सर्वज्ञशून्यं जगत् जै मि न्या द यो विदन्ति, कस्य (तस्य) सुगतादे
रागादिमत्त्वं वा परोक्षस्य विदन्ति नेतरे रथ्यापुरुषाः तथैव यदि सर्वज्ञः(ज्ञाः)केचन स्युः किन्नोपपद्यत यतोऽनुपपत्तेः सर्वज्ञ(ज्ञः) नैव न कचित् स्यात् ।।
ननु स्यादयं दोषो यदि प्रत्यक्षेण जगत् तथा विदन्ति केचित्', किन्तु अनुमानेन । तथाहि-सर्वात्मज्ञानाति (नानि) प्रत्यक्षाभिमतानि विवादगोचरतां गतानि, इन्द्रियार्थसन्निकर्षजानि १० नियतविषयाणि ता (वा),तत्त्वात्, अत्रेदानोतद्यक्ष ज्ञानत्वं (दानीन्तनप्रत्यक्षज्ञानवत् )। तथा विषया विवादविषयाः[४३०क]प्रतिनियतार्थेन्द्रियाध्यक्षविषयाः, तत्त्वात् , विवक्षितविषयवत् । तदयुक्तम् (तदप्युक्तम्-)
* 'यजातीयः प्रमाणैस्तु यज्जातीयार्थदर्शनम् । दृष्टं संप्रति लोकस्य तथा कालान्तरेऽप्यभूत् ॥"
मी०श्लो० चोदना० श्लो० ११३] इति चेत् ; न ; सत्यस्वप्नेन अस्य व्यभिचारात् । *"तद्धि सत्यस्वप्नज्ञानम् इन्द्रियासंसृष्टं व्यवहितं चार्थमवैति" इति प्र मा ण सं ग्र हे निरूपितम् ।
तर्हि बाधकवत् साधकस्यापि सर्वज्ञोभा (सर्वज्ञऽभा-)वात् संशय इति चेत् ; एतदेवाहसाधक इत्यादिना । २० [साधकबाधकाभावात् सर्वज्ञ संशयः कचित् ।
बाधकासंभवात् सिद्धं साधकस्यैव संभवात् ॥१७॥ केन तवयस्याभावनिर्णयः ? तत्र बाधकामावनिर्णयात् । तत एव प्रत्यक्षस्यापि प्रामाण्यम् । यथादर्शनं तत्त्वप्रतिपत्तौ अतिप्रसङ्गात् । तन्न साकल्येन बाधकप्रमाणव्या
वृत्तेरन्यत् साधकं नाम, यतस्तस्य साधकबाधकप्रमाणाभावात् सर्वज्ञत्वं संशीतिमवतरेत् । २५ साधकबाधकयोरन्योऽन्यं विधिप्रतिषेधलक्षणत्वात् ।]
अत्र दूषणमाह-बाधकासंभवादि[त्यादि] । कचित् पुरुषविशेषे सर्वज्ञत्वं सिद्ध (द्धम्।) कुतः ? इत्याह-बाधकासंभवात् । अनेनैतत् कथयति-बाधकाभावः परमार्थसत्त्वेन व्याप्तः, सुखादिस्वसंवदेने तथादर्शनात् , परमार्थत (स)त्त्वाभावे च ग्राह्यमरीचिकादिनिराद्याकारो (बाह्यमरीचिकादिनीराद्याकारे)बाधकामावनिवृत्तः । यन्निवृत्त्या यन्नियमेन निवर्त्तते तत्तेन व्याप्तम् , यथा
(७) जैमिन्यादयः। (२) प्रत्यक्षत्वात् । (३) विषयत्वात् । (१) घटादिवत् । (५) "स्वयं प्रभुरलङ्घनाहः स्वार्थालोकपरिस्फुटमवभासते सत्यस्वप्नवत् ।"-प्रमाणसं० पृ० ९९ । (६) “साधकबाधक
प्रमाणाभावात् सर्वज्ञे संशयोऽस्तु इत्ययुक्तम्.."-अष्टस० पृ. ४९ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org