________________
८/१६ ]
सर्वज्ञाभावज्ञानार्थं सर्वज्ञता
५४९
तथैव प्रत्येति इति तत्रास्य [ ४२९क ] दोषा स्याद्भावात् । मयुक्तम् (दोषस्योद्भावनमयुक्तम् । ) एवमन्यदपि परस्य दुश्चेष्टितां (तं) चिन्त्यम् । ननु स्यादयं दोषो यद्यसौ सर्वात्मज्ञानविज्ञेयाज्ञेयतत्त्वं विवेचयेत् यावता नैवमिति चेत्; अत्राह - ह - नो चेत् न यदि धयेत् (भवेत् ) स्वयम् आत्मनैव सर्वज्ञाभाववत् कथं नैव । निरूपितमेतत् । सर्वज्ञ (ज्ञा) भावावेदने च *"धर्मे चोदनैव प्रमाणम्" इत्यन्ययोगव्यवच्छेदेनं चोदनाप्रामाण्यसाधनमसारम् ।
1
"
किंच, तदभावसन्देहे वेदेऽकर्तृत्वं सन्दिग्धं कथं प्रामाण्यं साधयेत् यतः प्रवृत्तिकामोऽपौरुषेयाद् वचनात् ततः प्रवर्त्तेत ? सर्वज्ञस्य अस्मदाद्यदृश्य [स्य ] तत्कर्तुः सद्भावाशङ्काऽनिवृत्तेः । अस्मरणमपि तदभावं न साधयति ; स्मरणं हि अनुभवकार्यं न प्रमेयकार्यम्, अविशेषेण सर्वस्यै ततः तत्प्रसङ्गात्।[न]तदभावात् प्रमेयाभावात् प्रमेयाभावः; अन्यथा ं धूना (धूमा) भावात् सर्वा - भावः स्यात् । किन्तु यदि स्यात् " तत्कारणस्यै अनुभवस्य स्यात् । न च अस्मदाद्यनुभवः १० सर्वप्रमेय कार्यः येन तदभावे" विवक्षितप्रमेयाभावः स्यात् । ततो वेदस्य [ अ ] कर्तृत्वमिच्छता
૪
" तदभावो ज्ञातव्य इति न प्रकृतदोषपरिहारः ।
अथ तदविवेचयन्नेव " तद्भावं वेति (वेत्ति ;) तत्राह - 'यदि' इत्यादि । तस्य सर्वज्ञेयस्य (सर्वज्ञस्य ) ज्ञानं तस्य ज्ञेयं तत्र ज्ञानं तेन वैकल्यात् सुतरां सर्वात्मनाम सर्वज्ञत्वम् स्वयं न बुध्येत सर्वज्ञ इति । क्रम (कुत: ? ) इत्यत्राह - नहि इत्यादि । गतार्थमेतत् । स्यादयं दोषो १५ यदि सर्वात्मनामसर्वज्ञत्वम् अध्यक्षेण प्रतीयेत, न चैवम् [४२९ख ] अनुमानेन तत्प्रतीतेरिति चेत्; अत्राह - पुरुष इत्यादि । पुरुषस्यवि (रुषवि ) शेषस्य (स्या ) पि सुगता देर सर्वज्ञत्वसाधनेऽपि न केवलं प्रकृतसाधने । कुतः ? इत्याह- वक्तृत्वादि इत्यादि । सुगतरध्यापुरुएस्यो (रुषयोः) यद् वक्तृत्वादिसामान्यम् तस्मात् । तत्र किम् ? इत्याह- समानमेतद् अनुमानमिति । " सर्वात्मज्ञानविज्ञेयाज्ञेयावेदने सर्वज्ञो (ज्ञ) विपक्षे वक्तृत्वाद्यभावासिद्धेः । शेषमत्र चच्चिते (चर्चितम् ) २० चारुचक्षुषा स्वयमेवोपेण (मेवोह्यम्) ।
एव (एवं) परस्य सर्वज्ञताप्रतिपादने यत् फलं प्राप्तं तद्दर्शयन्नाह - नर इत्यादि ।
[नरः शरीरी वक्ता वाऽसकलज्ञ जगद्विदन् । सर्वज्ञः स्यात्ततो नास्ति सर्वज्ञाभावसाधनम् ॥ १६॥
५
सत्यपि पुरुषत्वादिसामान्ये यथा केचिदेव सर्वज्ञशून्यं जगत् तद्रागादिमत्त्वं वा २५ विदन्ति नेतरे तथैव यदि केचन सर्वज्ञाः स्युः किन्नोपपद्येत यतः सर्वज्ञो नैष
स्यात् १]
(१) वेदान्यस्मिन् सर्वज्ञे योगस्य - प्रामाण्यसम्बन्धस्य यः व्यवच्छेदोऽभावः तेन रूपेण । (२) सर्वज्ञाभावे संशये सति । (३) कर्त्र भावोऽपि । ( ४ ) वेदस्य । ( ५ ) वेदकर्तुः । ( ६ ) कर्त्र भावम् । ( ७ ) जैनादिकस्यापि । (८) स्मरणाभावात् । ( ९ ) 'प्रमेयाभावात्' इति द्विलिखितम् व्यर्थम् । (१०) अकार्यादपि यदि अकारणस्य अभावः स्यात्तदा । ( ११ ) यदि स्मरणाभावादभावः स्यात् । ( १२ ) स्मरणकारणस्य । (१३) अनुभवाभावे । (१४) सर्वज्ञाभावः । (१५) सर्वज्ञाभावम् । (१६) असवत्वे साध्ये |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org