________________
५४८ सिद्धिविनिश्चयटीकायाम्
[८ सर्वज्ञसिद्धिः एतदेव दर्शयन्नाह-सर्वात्मज्ञान इत्यादि ।
[सर्वात्मज्ञान विज्ञेयाज्ञ यतत्त्वं विवेचयन् । नो चेद्भवेत्कथं तस्य सर्वज्ञाभाववित्स्वयम् ॥१५॥
तज्ज्ञयज्ञानवैकल्यात् यदि बुध्येत न स्वयम् ।। ५ नहि'' 'पुरुषविशेषस्यापि वक्तृत्वादिसामान्यादसर्वज्ञत्वसाधनेऽपि समानमेतत् , विपक्षेऽभावासिद्धेः]
सर्वे स्थावरप्रभृतयः सकलजगद्वासिन आत्मानो जीवाः तेषां च यानि[ज्ञानानि यञ्च विज्ञेयं परिच्छेद्यम् अज्ञोयं(अज्ञयम्) अपरिच्छेद्यं तत्त्व (त्त्वं) तद्विवेचयन प्रत्य
क्षेण जानन् , अन्यस्य तत्राव्यापारादिति निरूपयिष्यते[४२८ख मीमांसकः] सर्वज्ञः स्यात् । १० यथैव हि सर्वज्ञस्य ज्ञानं तद्विज्ञेयतृत्वम् (यतत्त्वं) वा जातना (वाऽजानता) 'सर्वज्ञोऽयम' इति
ज्ञातुं न शक्यते, तज्ञातेव (तज्ज्ञाने च) सोऽपि सर्वज्ञः, तथा सर्वात्मना (नां) तज्ज्ञानानांविज्ञेयोयाज्ञेवं (विज्ञेयाज्ञेय) तत्त्वस्य वा[अ]साक्षात्करणे एतेनाम (एतेष्व)नुजानाति प्रवृत्तिम् अन्यत्रते त्यजातेत् (अन्यत्र नेत्यजानन्) कथं साकल्येन सर्वज्ञाभाववित् ? जानन् स एव सर्वज्ञः इति । तथा च *"धर्मे चोदनैव प्रमाणम्" *"नान्यत् किञ्चन इन्द्रियादिकम्" [शाबरभा० १५ १।१।२] इति भाष्यं स्तवते (प्लवते) । सर्वज्ञत्वेन आत्मानं यदि स्वयमेव जानाति अन्योऽपि तथैव स्वं तथा जानाति इति तद्विषयानुपलब्धिसिद्धौ (लब्धिरसिद्धा)। अतः कः ? सर्वज्ञसद्भावश्चाघा(व एव) अनेन ज्ञायते [इति] स एव दोषः । तथा सति *"कल्पनीयाश्च सर्वज्ञाः" [मी० श्लो० चोदना० श्लो० १३५] इत्यादि परपक्षेऽपि समानम् ।
किंच, तस्य ज्ञानं कचित् कदाविद्यादि (कदाचिद् यदि) परिसमाप्तम् ; तावन्मात्रत्वम् २० आत्मनां ज्ञानानां चेति प्राप्तमिति कथम् अनाद्यनन्तता तेषामिति क इदानीं चेदस्य (वेदस्य)
अनाद्यनन्ततां प्रतीयात् ? ततः परं तत्पाठको वा ? यतः सत्त्वं संभाव्येत ? अथ तत्परिसमाप्तावपि न तेषां तावन्मात्रता"; तर्हि तेनापरिच्छिन्नस्वरूपाणामपि भावात् , न वा कालस्य किञ्चिज्ज्ञतासिद्धिः। यदि पुनर्न कचित् तत्परिसमाप्तमिष्यते ; न तर्हि बहुकल्पसहस्रैरपि
'सर्वात्मज्ञानविज्ञेयाज्ञे[य]तत्त्वविवेचनम्' य एव तेन अज्ञातः तत्रैव सर्वज्ञत्वाशङ्का २५ नात् (न)निवर्त्तते ।
यस्यात्मकं(स्यान्मतम्) यथाभावमसौ प्रत्येति तेनाऽयमदोषः ; अन्योऽपि सर्वज्ञः (ज्ञ)
(१) प्रमाणस्य । (२) पुरुषेण । (३) "चोदनालक्षणोऽर्थोः धर्मः"-मी० सू० १।१२। “चौदनैव प्रमाणञ्चेत्येतद् धर्मेऽवधारितम्"-मी० श्लो. चो० सू० श्लो० ४। () "चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवं जातीयकमर्थमवगमयितुमलं नान्यत् किञ्चनेन्द्रियादिकम्" -शाबरभा० १११२ । (५) सर्वज्ञस्य । (६) भवशिष्यत इति सन्बन्धः । (७) वेदस्य । (८) सर्वज्ञज्ञानपरिसमाप्तावपि । (९) आत्मनां ज्ञानानां वा । (१०) अपि तु तेनाज्ञातानामपि सद्भावात् । (११) कालत्वादिति हेतोः वर्तमानकालवत् इति यः सर्वज्ञताऽभावः साध्यते स न इति भावः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org