________________
५१५
८।१३]
न वक्तृत्वात् सर्वज्ञाभावः वर्णादेः इति चेत् ; सोऽयं वर्णादिः सर्वत्र समानः 'तथा प्रत्यभिज्ञाना[न्न]वा किञ्चिद् इत्ययुक्तम्-*"असदर्थाभिधानाद्" इति चेत् ; असदर्थविषयं तर्हि वचनं रागादिमत्कार्य [मिति] तत्कर्तुरेव रागादिमत्त्वं नान्यस्य इति सिद्धसाधनम् । यदि पुनः सर्वं वचो वचनं सर्वतत्त्वादे (सर्वज्ञादेः)रागादिमत्कार्यं चेद् यदि चोदना वेदवचांसि कथं प्रमाणम् तत एव तद्वत् तत्कार्यत्वात् ।
ननु सर्वकर्तृकं सर्व (4)तत्कार्यम् उच्यते, चोदना पुनरकर्तृका नित्यत्वेन इति चेत् ; अत्राह-नित्यता इत्यादि। तासां चोदनानां सम्बन्धिनी नित्यता तासामेव कार (वक्तारः)किं करिष्यते ? ते च तस्याः प्रमाणाभावेन निश्चेतुमश [क्यत्वात् । न हि *सा सत्यपि प्रत्यक्षेण निश्चीयते, तन्निश्चेतुः सर्व[ज्ञ]तापत्तेः । तदुक्तमत्रैव-'ज्ञानं निरुपमम्' इत्यादि । केवलं कर्तुः[अ] स्मरणाम (त्)साध्यते ; तदपि जीर्णकूपादिना व्यभिचारी- १० त्यभ्वायतन्न (रीत्यभिधाय तत्) निरस्यति । यदि वा, व्यभिचारिणी प्रवचनादौ भावा[] इत्युक्तम् । यद्वा, अन्यथा विचार्यते-कूटस्थनित्यता, परिणामनित्यता वा हेतुः स्यात् ? प्रथमपक्षोऽयुक्तः; प्रतिषिद्धत्वात् । द्वितीयोऽपि सुवर्णादौ तस्यामपि सुवर्णादौका (सुवर्णका)रादिसाफल्यात् ।
कारिका ख्या (कां व्याख्या)तुमाह-सर्वो वक्तव्ये(वक्त)त्यादि । सर्वो]निरवशेषो वक्ता "तत्वादेवि]रागादिमान "वचनं सर्वलिङ्गम्' इति लिङ्गपरिणामेन सम्बन्धः । तत एव वक्तो १५ (वक्तुः) रागादिमत्त्वादेव[४२६ ख]अप्रमाणमविशेषेण यदि कथं वेदस्य प्रामाण्यम् १ वेदस्य कर्ता नास्तीति चेत् ; अत्राह-वाक्यानाम् इत्यादि । ताल्वादिव्यापारवैफल्यम् , अन्यथा व्यक्तिरयती (रभिव्यक्तिः) क्रियते न वाक्यम् इति किं कृतमेतत् ? निरूपितं चैतत् ।
ननु वैदिकाः शब्दाः स्वत एव अर्थमभिदधति न पुरुषात् ; "ततः कृत्रिमत्वेन अप्रामाण्यं तेषामिति चेत् ; अत्राह-न च इत्यादि । [न च] नैव वैदिकवाक्यानि वक्तृदोषौ ताप- २० (दोपै?पोलिप्येरन् [किन्तु] उपलिप्येरन्नेत्वा (रन्नेव, तत्त्वाऽ) विशेषेऽपि पुरुषपूर्वकत्वाविशेषेऽपि । न केवलं पूर्वोक्तविधिना [यतः] नित्यत्वविशेष (षो) वचनस्य सर्वज्ञत्वंप्रवचम् (सर्वज्ञोक्तं प्रवचनम् ,) इतरस्माद् वेदादविशेषेयत् (वेदात् विशेषयेत् ) प्रमाणत्वेन भिन्नं ततो व्यवस्थापयेत् नान्यथा नप्रकाराण (नान्येन प्रकारेण) ।।
ननु चोक्तम्-'रागादिमत्कार्यं वचः सर्वम्' इच्छाया रागादिविशेषत्वादिति चेत् ; २५ न च वाक्यम् इत्यादि । कुतः ? इत्याह-सुप्तादौ आदिशब्देन अन्यत्रगतचित्तादौ अन्यथापि
समनन्तरेच्छाहितप्रयत्नाभावेऽपि दशनाद्वास्येति (दर्शनात 'वाक्यस्य' इति) किं तत्कारणम् ? इत्याह-बुद्धि इत्यादि। सुप्तादौ बुद्धिव्यवस्थापनात् न व्यभिचारः। अथ सर्वस्य "तत्पूर्वकत्वा
(१) वर्णत्वेन । (२) वचनत्वादेव । (३) रागादिमत्कार्यत्वात् । (४) नित्यता। (५) प्रस्तावे । (६) कर्तुरस्मरणम् । (७) नित्यता । (6) परिणामनित्यतायामपि । (९) कटककुण्डलादिपर्यायोत्पादने । (१०) वक्तृत्वादेव । (११) वचनशब्दः । (१२) यदि पुरुषात् अर्थमभिदधेयुः तदा । (१३) अव्यवहित. पूर्वकालीनेच्छाप्रेरितयत्नाभावेऽपि । (१४) बुद्धिकरणपाटवाभावेऽपि वचनोत्पत्तिलक्षणः । (१५) बुद्धिकरणपाटवपूर्वकत्वेऽपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org