________________
सिद्धिविनिश्चयटीकायाम् [ ८ सर्वशसिद्धिः दशहस्तान्तरं व्योम्नो नोप्लवेरं (रन्) भवादृशाः यदि नाम, योजनानां सहस्र किन्नोत्प्लवेत यत्किरादुत्पप्ल(पक्षिराट् ? उपप्लवे)वेतैव । जात्यन्तरत्वम् [४२५ख] अन्यत्राऽनिवारित (तम्), युक्तं व्य मनुष्य इति स पश्येत मधुना नरैः वालिसिरिति (?) वैनतेयस्यादर्शनात् योजनसहस्रोत्प्लवनम् असिद्धमिति चेत् ; न ; भेरुण्डादीनाम् इतरपक्ष (पक्ष्य) पेक्षया ५ सातिशयोत्प्लवनदर्शनात् वैनतेये तदनिवार्यम् इत्येवमुक्तत्वात् ।
ननु च भेरुण्डस्य तदुत्प्लवनं जातिमात्रभावित्वात् सहजम् , पुरुषस्य तु ज्ञानातिशयो लङ्घनवदभ्यासजः इ[ति]तद्वन्नियतो युक्त इति चेत् ; अत्राह-वीर्यान्तराय इत्यादि । वीर्य सामर्थ्य तस्य अन्तरायः सतोऽप्यावारंभः (प्यनारम्भः) कर्मविशेषः तस्य क्षयातिशयो विश्लेषविवृद्धिः
तस्य वसा (वशात्)लङ्घनादिशक्त रतिशयप्रतिपत्तेः। आकूत (आ कुतः ?) इत्याह-आगरुडाद१० निवारणात् कारणात् सातिशयस्य पुरुषस्य उपपत्तिः सातिशयोपपत्तिः । एवं मन्यते-[न]
गरुडस्य सहज लङ्घनम् , अपि तु तद्विघातिकर्मक्षयजम् , तथा प्रकृतमपि स्यादिति । कर्मादि (कस्मादि) दमवगम्यते ? आत्मनि वीर्य सदेव केनचिद् आहृतं तत्क्षयाद् व्यज्यते, न पुनः जात्यादेः असदेव' भवतीति चेत् ; आत्मविशेषगुणत्वात् ज्ञानवदिति ।।
ननु यदुक्तम्-'दोषावरणविमुक्तः कैवल्यसिद्धिः' इति ; तत (तत्र)दोषविमुक्ते[:] १५ सर्वज्ञऽपि वक्तुर्य (वक्तरि अ) संभवात् क्वचित् , तत्प्रतिज्ञायाः वचनलिङ्गजरा[गा]द्यनुमानेन
बाधनात् । वचनं हि रागादिमत्कार्यमिति चेत् ; अत्राह-वचो रागादिमत्कार्यम् [४२६ क] इति ।
[वचो रागादिमत्कार्यं सर्वं चेचोदना कथम् ।
प्रमाणं नित्यता तासां वक्तारः किं करिष्यते ॥१३॥ २० सर्वो वक्ता तत्त्वादेव रागादिमान् तत एव अविशेषेण यद्यप्रमाणम् ; कथं वेदस्य
प्रामाण्यम् ? वाक्यानां नित्यत्वे]ताल्वादिव्यापारवैफल्यम् अन्यथा अभिव्यक्तिः क्रियते न वाक्यमिति किंकृतमेतत् ? न च वैदिकवाक्यानि तत्त्वाविशेषेऽपि वक्तृदोषैर्नोपलिप्येरन् यतः प्रवचनमितरस्मात् विशेषयेत् , नान्यथा । न च वाक्यम् [इच्छाकार्यम् ] सुप्तादौ
अन्यथापि दर्शनात् । बुद्धि [करणपाटवहेतुकं वाक्यम् ] तच ज्ञानपाटवं स्वकार्य पर२५ स्मात् विशेषयेत् । न तन्नित्यवाक्यं तत्ततः, व्याख्याविप्रतिपत्त्यभावप्रसङ्गात् । वाक्यान्तराणां चैतन्यनान्तरीयकत्वं न वेदवाक्यानामिति स्वभावातिक्रमो माभूत् । तत् ।]
अत्रेदं विचार्यते-सर्वं वचनं रागादिमत्कार्यम् , अथ किञ्चित् ? किञ्चिच्चेत् ; यदा (यद) दृष्टकर्तृकं तत्तथा कुतोऽवगम्यते ? अन (अन्य) दृष्टकर्तृकसाम्यात] चेत् ; कुतः साम्यम् ?
(१) गरुडः पक्षिजातीयः, इतरस्तु मनुष्यजातीय इति भिन्नजातीयत्वम् । (२) वीर्यमुत्पद्यते । (३) दोषविमुक्तिप्रतिज्ञायाः। (४) "अयं च वक्तृत्वाख्यो हेतुः 'यस्य ज्ञेयप्रमेयत्ववस्तुसत्त्वादिलक्षणाः' इत्यत्र आदिपदेन आक्षिप्त एवेति ।"-तत्त्वसं० प० पृ० ८८१ । (५) "ततश्चैतन्यकरणपाटवयोरेव साधकतमत्वमिति ॥"-अष्टस पृ. ७३। (६) रागादिमत्कार्यमिति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org