________________
८।१२] अतिशयवत्त्वात् ज्ञानस्य सर्वज्ञत्वम्
५४३ युक्तम्-*"सर्वगत आत्मा सव[त्र उपलभ्यमानगुणत्वात्" इति । यदि पुनः अन्यत्र अन्यदा 'सा केनचित् क्रियते; कथं तद्रहितेन तत्करणम् ? अन्यथा गगनादावपि तत् स्यात् । अयोग्यत्वान्नेति चेत् ; किं पुनः आत्मनि तद्योग्यम (ग्यताs)स्ति ? भिन्नं (अस्ति भिन्ना;) तथा चेदनवस्थापरा ततो नित्यव्यापिनी च सा इति किम् आत्मना ? तत एव तत्कार्यसिद्धेः । सैव आत्मा इति चेत् ; अनुबद्धः प्रसङ्गा (ङ्ग:-) ज्ञानोत्पाद-तदर्थग्रहणं "तयैवाऽस्तु इति । यदि पुनः ५ भिन्नं ज्ञानत्व (ज्ञानं न)ग्रहणम् ; तर्हि भिन्ना शक्तिः [न] तज्जननमिति, शक्तरपि अपरा शक्तिः इत्यनवस्था चक्रकं शक्त्यन्तरस्य नित्यत्वसर्वगतत्वे । तन्न आत्मनो भिन्ना शक्तिः ।
ननु यदि सैवार्थस्य ग्राहिका, तर्हि तस्याः सर्वस्य सर्वत्र सर्वदाऽविशेषात् सर्वोऽपि सर्वदर्शी स्यादिति चेत् । न ; तज्ज्ञानस्यापि ततः सर्वत्र सर्वदा सर्वस्योत्पत्तिप्रसङ्गादिति [४२५क] परपक्षेऽपि स एव दोषः। सहकार (रि)वैकल्यान्नेति चेत् ; यथा तर्हि तवैकल्यात् ज्ञानं न जन- १० यति ; तथा आवरण (णा) वैकल्यादर्थं न गृह्णाति । तस्य आवरणेन किं क्रियते ? तद्वैकल्येन किं क्रियते ? न किञ्चिदिति चेत् ; आवरणेनापि न किञ्चित् । अर्थग्राहिका कुतो नेति चेत् ; ज्ञानवत् जनिका कुतो नेति समानम् । अथ तस्या ईदृशः स्वभावो यतस्तद्वैकल्यान्न जनयति अपितु सहकारिसाकल्याज्जनयति; तर्हि ईदृशोऽपि स्वभावोऽस्तु येन आवरणसद्भावे न प्रकाशयति अर्थम् अपि तु तद्वैकल्ये,भावशक्तेः अचिन्त्यत्वात् इति । तत्त्वा (तदा)वरणेना (णेन) न चेत् तत्स्वरूपखण्डन- १५ (नम् ;) किं तेन ? तच्चेत् ; सौगतम॑तमिति चेत् ; सहकारिणा न चेत्तस्याः किश्चित् क्रियते ; नान्यथा (नापेक्षा इति)स एव दोषः। यथा "तत्सान्निध्येन करोति, तथा आवरणसान्निध्ये न ज्ञानस्वभावातिशयकाष्ठाप्सु परोव (काष्ठापि, अपरेण) प्रकारेण अन्यथा कथमयं प्रतिपद्यत । किम् ? इत्याह-न कश्चित् इ (किञ्चित् इत्यादि) । सुगतम् (सुगमम्) । अत्र हेतुमाहविप्रकर्षादिवति (दिति) स्वभावादिव्यवधानात् ।
अनन्तरार्थस्य (थ) *"दशहस्तान्तरं न्योस्तीत्योस्ति (व्योम्नि यो नामोत्प्लुत्य गच्छति।" [तत्त्वसं० पृ० ८२६ पूर्वपक्षे] इत्यादिकं प्रकारान्तरेण निराकत्तुं 'यदि नाम' इत्यधिकां 'दशहस्तान्तरम्' इत्यादिकां कारिकामाह
[यदि नाम दशहस्तान्तरं व्याम्नो नोत्प्लवेरन् भवादृशः ।
योजनानां सहस्र किन्नोत्प्लवेत पक्षिराडिति ॥१२॥ वीर्यान्तरायक्षयातिशयवशात् लङ्घनादिशक्त रतिशयप्रतिपत्तेः आगरुडादनिवारणात् सातिशयपुरुषोपपत्तिः।]
(१) योग्यताशक्तिः । (२) शक्तिरहितेन । (३) द्वितीया । (४) शक्त्यैव । (५) सहकारिवैकल्यात् । (६) आत्मनः । (७) सहकारिवैकल्येन । (८) शक्तः । (९) अनित्यत्वापत्तिरिति । (१०) सहकारिणोऽपेक्षा न स्यात् । (११) सहकारिसान्निध्येन । (१२) कुमारिलमतम् । श्लोकोऽयं कुमारिलोक्तमिति कृत्वा तत्त्वसंग्रहे उद्धृतः । 'न योजनशतं गन्तुं शक्तोऽम्यासशतैरपि' इत्युत्तरार्धम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org