________________
१५
५४२
सिद्धिविनिश्चयटीकायाम् [ ८ सर्वज्ञसिद्धिः संग्रह भा ध्ये, आवरणं ज्ञानादिप्रच्छाद[क]कर्म तयोः वियुक्त (विमुक्तेः)सकाशात् कैवल्यसिद्धिः। किंभूता ? इत्याह-स्वभावोपलब्धिरेव ।
स्यान्मत[म् ]सर्वज्ञस्य सर्वज्ञत्वकल्पने [४२४ क] स्वभावातिक्रमो भवेदिति ; तत्राहन पुनः नैव स्वभावस्य किञ्चिज्ज्ञत्वस्य अतिक्रान्तिः 'तत्कल्पने जीवस्य तत्स्वभावात ५ [अभावः स्यात् ।
तत्रे (द) वम् आत्मस्वभावे सर्वज्ञत्वे सिद्धे सति सिद्धं फलं दर्शयन्नाह-तन्न इत्यादि । यत एवं ज्ञानस्यातिशयाद् विभुत्वम् आत्मस्वभावं मलक्षयसाध्यत्वादपुनय(य)त्नसाध्यं तत्तस्मानु (न) लङ्घनादिदृष्टान्तोव्या(न्तोऽपि, आ)दिशब्देन उदकतापपरिग्रहः, ज्ञानस्त(स्व)भावातिशयकाष्ठाव्याप्तिम् उपरुणद्धि निराकरोति, दृष्टान्तेन तया (तस्या)वैषम्यात् । १० स किं (तत् किं) कारणं स्वभावोपलब्धिरेव सिद्धिर्न पुनः अविद्यमानधर्मा वा तमिति (?) चेत् ; अत्राह-नहि इत्यादि ।
[न हि तत्कर्तुमशक्यत्वादक्षलिङ्गादिभिः [स्वयम् । स्वविषयं व्याप्नुयाज्ज्ञानं नान्यथा ॥११॥
न किञ्चित्प्रतिपद्यत विप्रकर्षादयं कथम् ॥३॥] [हि]यतः तस्या[:]कर्तुमशक्यत्वात् अक्षलिङ्गादिभिः आदिशब्दाद् आगमाभ्यासधर्मादिपरिग्रहः,स्वविषयं सहेदासद्वग्रं( सदसद्वर्ग) लक्षणम् व्याप्नुयात् ज्ञानं नान्यथा न स्वतो दोषावरणापाये इति स्यात् । नहि आकाशादीनां बुद्ध्यादिसमवायिकारणत्वशक्तिरहितं (तत्त्वं) स्वतः अन्यतः तत्सहितं क्रियते, पदार्थस्वभावव्यवस्थाभावापत्तेः। अथ आत्मनः सकलविषयग्रहणस्वभावज्ञानजनिका शक्तिः आत्मभूता[न] अन्येन क्रियते; आत्मनोऽपि क्रियाप्रसङ्गात् , २० ज्ञानं तु क्रियते इति चेत् ; उच्यते-'परया शक्त्या स (स्वभाव) भूतया सं ज्ञानं भिन्नम् उपजन
यति', तयैव अर्थस्य ग्राहकोऽस्तु किं भिन्नकल्पनया ? अथ भिन्नज्ञानमन्तरेण तद्ग्रहणं नास्ति ; भिन्नशक्तिमन्तरेण तजननं मा भूत् । तथेति चेत् ; युक्तम् अत्र शक्तरेव[३२४ ख]ज्ञानाभाव (ज्ञानभाव:) सैर्व' तत्समयकारिणम् (तत्समवायिकारणम् ) इत्यकारक आत्मेति तदवस्तुत्वम् ।
समवायनिषेधा[त् ]न सा तत्र समवेता ।सतोऽपि तस्याऽविशेषाद् आकाशादेरपि सा न किम् ? २५ यदि पुनः सम्बन्धस्याविशेषेऽपि सम्बन्धिनोविशेष इष्यते ; स कुतो मतः ? स्वयोगता (योग्यता)
शक्तिः उन्य(च्य)ते,[त]स्या अपि ततो भेदे अनवस्था । अभेदे ; आद्यापि तथैवास्तु किं तद्भेदकल्पनया इति स एव दोषः ।
किंच, शक्तस्ततो भेदे नित्यत्वे व्यापित्वे च, अन्यथा न सर्वत्र सर्वदा ज्ञानोदयः, इति न
(१) स्वभावातिक्रान्तिकल्पने । (२) तत्स्वभावत्वात् । (३) ज्ञानस्वभावातिशयकाष्ठावाप्तेः । (४) सद्वर्गः द्रव्यगुणकर्मरूपः सत्तासामान्यसम्बन्धवान् , असद्वर्गश्च सामान्यविशेषसमवायात्मकः सत्तासम्बन्धरहितः स्वतःसन् इत्यर्थः । (५) द्वितीयया । (६) आत्मा । (७) चेत्। (८) भिन्नज्ञान । (९) अर्थग्रहणम् । (१०) ज्ञानात्मकत्वपरिणतिः । (११) शक्तिः । (१२) समवायस्य । (१३) समानत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org