________________
१०]
सर्वज्ञत्वाभावे न सर्वज्ञाभावसिद्धिः
५४१
लानीति (निति) । यदि वा लोकान् पुरुषान् सर्वज्ञविकलान् इति द्रष्टव्यम् ? वेदानकृत्रिमाननादिनिधनान् कुतो वेद ? नहि तथाविधज्ञानमन्तरेण तद्वेद [न] संभवः इन्द्रियज्ञानस्य तत्रासामर्थ्यात, अनुमानाभावात् ।
ननु 'इदमस्ति - विवादगोचरौ [ दे] शकालौ सर्वज्ञविकक्तो (लौ) तत्रादा ('तत्वात् आ) सन्नदेशकालवदिति चेत्; न; उक्तमत्र - अन्यथानुपपत्तिरहितत्वादहेतव इति, अन्यथा कंचिदेश ५ (शं) कालं वा पण्डितपुरुषरहितं स्वमातृविवाह रहितस्योपलंभस्य (रहितं वोपलभ्य) सर्वे (सर्वान् ) तथा किन्न साधयेतु (तू) ? पर्यायेण नरान्तरेण वा तस्य दर्शनं [न] सर्वज्ञस्येति किंकृतमेतत् ? आगमस्य " तदभावे अप्रमाणत्वात्, विद्या (ध्या) दिविषयत्वाच्च । उपमानन्तु भूतं (त) देशकालं (ल) नरसाक्षात्करणमन्तरेण दूरोत्सारितमेव, सर्वोपमानोपमेये तद्योगात् । अर्थापत्तिः पुनः सर्वज्ञ (ज्ञा ) - भावमन्तरेण कस्यचिदनुपजायमानस्य अर्थस्य उ अभावात् अयुक्त वा (क्तैव) ।
१०
एतेन वेदानादित्वमपि चिन्तितम् । नहि तत्रानुमानम् ; लिङ्गाभावात् । कर्तुरस्मरणादयः कृतोत्तराः । आगमात्र (मात्तद) कृत्रिमत्वसिद्धिरिति चेत्; कुतः तस्य प्रामाण्यम् ? तत एव इति चेत् ; अन्योऽन्यसंश्रयः- सिद्धे तदकृत्रिमत्वे ततः प्रामाण्यम्, अतश्च तत्सिद्धिरिति । न चापरं वाक्यं तथाविधमस्ति न तत्सादृश्याद् वेदस्य तत्सिद्धि [ : ] स्यात् । नापि तदन्तरेण किञ्चित् 'प्रतिपन्नमनुपपन्नमस्ति [४२२ ख] येन अर्थापत्त्या [ अ ] कृत्रिमत्वप्रतिपत्तिः स्यात् । केवले (लं) १५ प्रत्यक्षमवशिष्यते । तच्चेद् (दं) अनाद्यनन्तकालविषयीकरणेऽसमर्थं चेत्; तत्ततः कुतः तत्प्रतिपत्ति [रिति ] ?
'ज्ञानं निरुपमं सर्वगतमस्ति' इत्येतद् व्याख्यातुमाह- कृतमेतद् इत्यादि । कृतं निश्चितमेतत् । किम् ? इत्याह-उत्पाद इत्यादि । निगमयन्नाह - अत इत्यादि । अतो न्यायात् ज्ञानं कर्तृ व्याप्नोति एव विषयीकरोत्येव । किम् ? द्रव्यम् । किंभूतम् ? इत्याह-स्वभाव २० इत्यादि । 'सर्वस्याविशेषात् तत्तद् व्याप्नुयादिति चेत्; अत्राह - स्वविषय (ये) लोकालोकरूपे तद्विपर्ययः तस्य ज्ञानस्य अप्रवृत्ति - अवैद्य - मिध्यात्वलक्षणो विपर्ययः 'जायते' इत्यध्याहारः । · कुतः ? इत्याह- परतः कर्मणः । 'तिमिरादेः' इत्यादि अत्र निदर्शन (नम् ) । कुतः तत्परिक्षयलक्षणा सिद्धिः ? इत्याह- प्रतिपक्ष इत्यादि । दोषावरणयोः प्रतिपक्षः सम्यग्दर्शनादिः तस्मिन् सति रागाद्यपकर्षदर्शनात् 'अदृष्टपूर्वार्थदर्शनाद् उपनिबन्धादे: अनन्यकर्तृकस्य प्रवर्त- २५ नात् । न चावरणविगमाभावे स्वविषयोन्मुखता ज्ञानस्य, तिमिरोपहतलोचनस्य तथा [s] दर्शनात् । " तस्य प्रयोगः समग्रता तस्यातिसएवसात् ( तियवशात् ) दोषो रागादिः व्याख्यातः प्रमाण
(१) “अतीतोऽपि कालः सर्वज्ञशून्यः कालत्वात् इदानीन्तन कालवत् ॥" - मी० श्लो० ता० पृ० ७५ । (२) देशत्वात् कालत्वाद्वा । (३) पारसीकदेशान् स्वमातृविवाहशून्यान्, कालांश्च पण्डितरहितान् । ( ४ ) क्रमशः, कालान्तरे कश्चिदपण्डितोऽपि पण्डितो भवति । (५) सर्वज्ञाभावे । (६) घेदागमस्य कार्येऽर्थे प्रामाण्यात् न तु स्वरूपे । ( ७ ) अकृत्रिममत्वादेव । (८) प्रमाणसिद्धुं वस्तु । ( ९ ) सर्वात्मनां स्वभावसद्भावात् । (१०) सर्वथा नूतनपदार्थ दर्शनात् । ( ११ ) प्रतिपक्षस्य सम्यग्दर्शनादेः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org