________________
८1८]
अतिशयवत्त्वात् ज्ञानस्य सर्वज्ञत्वम् बाधकमिति चेत् ; अत्राह-कस्यचिदनुपलम्भमन्तरेण कस्यचिदपि सर्वज्ञस्य अन्यस्य वा अनुपलम्भमन्तरेण व्यतिरेकाऽसिद्धेः अभाव (वा)सिद्धेः 'अभावप्रमाणवैफल्यापत्तेः ।
माभूदनुपलम्भात् तदभावसिद्धिः प्रत्यक्षात्तु स्यात् । अभावप्रमाणवैफल्यमिति चेत् ; तदिष्यत एव, प्रत्यक्षाविशेषत्वात्तस्य इति परः। तं प्रत्याह-साकल्येन इत्यादि । प्रत्यक्षतः तदभावसाधने द्वैतं भवति कविशा (कचित् , सा)कल्येन वा ? प्रथमपक्षे(क्षोs) भिमतत्वान्न ५ दूषयितुमाशक्कितः सर्वभावसत्त्वस्य सप्रतिपक्षत्वात् । द्वितीयेऽपि पक्षे द्वैतसेद्वैत (द्वैतम्-) सेन्द्रियाद् , अन्यतो वा ? अत्रापि प्रथमपक्षः श्रोत्रियस्य अनभिमतः सन्निहितमात्रे चक्षुरादिव्यापारोपगमनात् नासंकिं (नाशङ्कि)तः। केवलं[४२२ क] द्वैतद्वये त्य (अन्त्य) पक्षद्वयमवशिष्यते । तत्र साकल्येन अनवयवेन स्वयम् आत्मना लिङ्गन्द्रियादिनिरपेक्षस्य मीमांसकादे[:] भावप्रतिपत्तेः सर्वज्ञाभावप्रतिपत्तेः विरोधात तत्प्रतिपत्तेः इति भावः । तथाहि-साकल्येन १० स्वयं तदभावप्रतिपत्तिश्चेत् कस्यचित् ; स एव सर्वज्ञ इति तत्प्रतिपत्तिः । सी चेत् न ; स सर्वज्ञ इति न तत्प्रतिपत्तिरिति । यदि वा, तथा तत्प्रतिपत्तेः सकाशाद् विरोधात् *"सम्प्रयोग" [मी० सू० १।१।५]ईत्यादेः बाधकप्रमाणाभावः सिद्ध एव इति । एवं तावत् परप्रसिद्ध्या धर्मादिवत् सर्वज्ञस्य आगमात् सत्तां प्रसाध्यता (प्रसाधयता) तत्र *"प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।" [मी० श्लो० अभाव० श्लो० १] "इत्यादि निरस्तम् । अधुना अनुमानात् "तां प्रसाध्य "तन्निराकुर्वन्नाह-ज्ञानस्य इत्यादि ।
[ज्ञानस्यातिशयात् सिध्येद्विभुत्वं "परिमाणवत् ।
वैशयं कचित् दोषमलहानेस्तिमिराक्षवत् ॥८॥ यथा 'दोषा [वरणयोः क्षयात् वैशद्यम् मलहानेस्तिमिर ..]
ज्ञानस्य विभुत्वं सकलज्ञेययसाक्षात्करणलक्षणं सिध्येत् । क ? कचित् मलविप- २० क्षभावनापर्यन्तवति पुरुष(षे) । कुतः ? इत्याह-अतिशया वृद्ध [:]ज्ञानस्येति। कस्य वा” ? इत्याह-परिणाम(परिमाण)वद् इति । एतेन तत्र सुगतादेरपि विभुत्वं व्याख्यातम् ।
ननु तस्य भवतु विभुत्वम् , न च सकलव्याप्तिज्ञानस्य वा[s]विशदस्य सकलस्य वा स्यादिति चेत् ; अत्राह-वैशद्यम् इत्यादि । 'ज्ञानस्य' 'अतिशयात्' इति चानुवर्तते । तयोरतिशयात् । अत्र निदर्शननिः(नं मलहाने)तिमिराक्षस्येव तद्वत् ।
२५ (१) अन्यथा। (२) अभावप्रमाणस्य । (३) द्वौ विकल्पौ । (४) प्रतिपक्षसापेक्षत्वात् असत्वसापेक्ष सत्ववत् । (५) “सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना"-मी० श्लो० सू० ४ श्लो० ८४। (६) सर्वज्ञाभाव । (७) सर्वज्ञप्रतिपत्तिः । (८) साकल्येन सर्वज्ञाभावप्रतिपत्तिः यदि न । (९)सर्वज्ञाभावप्रतिपत्तिः । (१०) "सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां यद् बुद्धिजन्म तत्प्रत्यक्षम्"-मी० सू०। (११) 'वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता' इति शेषः । (१२) सर्वज्ञसत्ताम् । (१३) प्रमाणपञ्चकमित्यादि अभावप्रमाणग्रन्थम् । (१४) तुलना-"एतद्धि वर्धमानं यत्र निरतिशयं स सर्वज्ञः । अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात् परिमाणवदिति, यत्र काष्ठाप्राप्तिानस्य स सर्वज्ञः।"-योगभा० १।२५। प्र० मी० पृ० १२ । (१५) 'वा' इवार्थः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org