________________
५३८
सिद्धिविनिश्चयटीकायाम्
[ ८ सर्वशसिद्धिः
-
ततोऽसिद्धो हेतुरिति चेत् ; अत्राह सुनिश्चितेत्यादि । 'सुनिश्चितासंभवद्धाघ [क]प्रमाणं तत्र सर्वज्ञे सिद्धं यत् परेणोक्तं 'प्रत्युक्तम्' इत्यनुवर्त्तते । कुतः ? इत्यत्राह - ' शास्त्रप्रामाण्यात्' उक्तनीत्या तत्प्रतिपादकागमप्रामाण्यात् ।
अँपरे 'शास्त्राप्रामाण्यात्' इति पठन्ति तेषाम् अनन्तरमेव तत्प्रामाण्यमेत्प्रामाण्यं - ५ समर्थनं किं विस्मृतं येन एवं पठन्ति ?
संप्रति
* "स्वतः स्रर्वप्रमाणानां प्रामाण्यमिति गम्यताम् । नहि स्वतोऽसती शक्ति (क्तिः) कर्तुमन्येन शक्यते ॥".
१०
[मी० श्लो० सू० २ श्लो० ४७ ] इति । “अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम्" इति च परकीयं मतद्वयमाश्रित्य तत्प्रवचनस्य [प्रा]माण्यं व्यवस्थापयन्नाह - सर्वज्ञेऽस्ति इत्यादि ।
[सर्वज्ञेऽस्तीति विज्ञानं प्रमाणं स्वत एव तत् । दोषवत्कारणाभावात् बाधकासंभवादपि ॥ ७॥
सर्वज्ञे अस्तीति विज्ञानं नहि [न स्वतः प्रमाणम् । ]न च तत् दोषवत्कारणं तत्प्र१५ तिपादकस्यापि शास्त्रस्य अपौरुषेयत्वात् बाधकप्रमाणाभावः सिद्ध एव । स्वोपलम्भ। कस्यचिदनुपलम्भमन्तरेण व्यतिरेकासिद्धेरभावप्रमाणवैफल्यापत्तेः । साकल्येन स्वयं लिङ्गेन्द्रियादिनिरपेक्षस्य भावप्रतिपत्तेः सर्वज्ञाभावप्रतिपत्ते विरोधात ।]
सर्वज्ञेऽस्ति इत्य (इति) प्रवचनाद् यद्विज्ञानं सर्वज्ञगोचरमुपजायते तत् प्रमाणं स्वत एव नान्यतः कारणात्। हेत्वन्तरमाह-दोषवत्कारणाभावात् । अपि शब्दो भिन्न२० प्रक्रमः, अंस्यानन्तरं द्रष्टव्यः । सोऽपि कुतः ? इत्याह-बाधकस्यासंभवादिति (वादपि ) । कारिकां विवृण्वन्नाह - सर्वज्ञ े ऽस्ति इति विज्ञानम् इत्यादि [ २२१ख ] । कुत एतत् ? इत्यत्राह - नहि इत्यादि । ननु तस्य औत्सर्गिकं यत् स्वतः प्रामाण्यं तदोषवत्कारणजन्यत्वे [ना-] पोद्यते इति चेत् ; अत्राह-न च इत्यादि । न च नैव तत् प्रकृतं विज्ञानं दोषवत्कारणं दोषवत्कारणं यस्येति । कुत: ? इत्याह - तद् इत्यादि । [ तत्प्रतिपादकस्यापि ] सर्वज्ञ प्रतिपादक२५ स्यापि न केवय (वलं) वैदिकस्य शास्त्रस्य अपौरुषेयत्वात् दोषाश्रयपुरुषरहितत्वात् ।
ननु वारमानं (यद् बाध्यमानं) तद्दोषवत्कारणम्, यथा [शुक्ले ] शङ्ख पीतज्ञानम्, बाध्य - मानं च सर्वज्ञेऽस्तीति [विज्ञानमिति ] चेत्; अत्राह - बाधकप्रमाणाभावः सिद्ध एव । अनेन हेतोरसिद्धतामाह । अनुपलम्भो बाधक इति चेत्; अत्राह - स्वोपलम्भ इत्यादि । प्रमाणान्तरं
(१) तुलना - " तदस्ति सुनिश्चितासंभवद्वाधकत्वात् सुखादिवत् " - लघी० स्व० १|४| त० इलो० पृ० १८५| आप्तप० इलो० १०९ । अष्टश० अष्टस० पृ० ४४ प्र० मी० पृ० १४। प्र० नि० पृ० २९| पड्द० बृह० पृ० १४ । (२) व्याख्याकाराः । (३) 'मेवत्प्रामाण्यं' इति व्यर्थमत्र द्विलिखितम् । ( ४ ) आगमप्रामाण्यसमर्थनम् । (५) मीमांसकीयम् । (६) शास्त्रात् । (७) 'दोषवत्कारणाभावात्' इत्यस्यानन्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org