________________
८१६]
बाधकामावादस्ति सर्वशः वक्तुः सर्वज्ञस्यानुपलब्धौ साध्यायाम् इतरेतराश्रयत्वम् । तथाहि-सर्वविदोऽभावे सिद्धे साकल्येन वक्तुः सर्वविदो[s]दर्शनं ततः 'तदभावसिद्धिरिति ।
एतदन्यत्रातिदिशन्नाह[४२० ख] एतेन इत्यादि । एतेन प्रस्तूयमाण प्रस्तारु(मानप्रस्तावेन) रागादिमत्त्वसाधनं प्रत्युक्तम् । केन रूपेण तत्साधनम् ? इत्याह-साकल्येन, रथ्यापुरुषाद् अन्ये सर्वे पुरुषाः रागादिमन्तः वक्तृत्वादिभ्यः तद्वदिति । कथं प्रत्युक्तम् इति ५ चेत् ? उच्यते-तथा तत्साधने जै मि न्या दे रपि साधनांत(नान)वेदाः[प्रमाणमितरत् अन्यथा । विवक्षितपुरुषस्यैव तत्साधने जै मि निः अन्यो वा तद्विपरीत इति तेन हेतूनां व्यभिचारः । शेषमत्रापि समानम् ।
एवं तावंति तत्त्वा (एवं तावत् तत्त्वात)चोदनावचनस्य[अ]प्रामाण्य (ण्य)व्यवस्थाप्य[अ]
धुना
*"तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् ।
अदुष्टकारणारब्ध (ब्ध)प्रमाणं लोकसम्मतम् ॥" इति - परकीयन्यायात् तदेव दर्शयन्नाह-प्रमाण(प्रामाण्य)मक्षबुद्धश्च(श्चेत्) इत्यादि ।
[प्रामाण्यमक्षवुद्धश्चेद्यथाऽयाधाविनिश्चयात् ।
निर्णीतासंभवद्वाधः सर्वज्ञो नेति साहसम् ॥६॥ चक्षुरादिज्ञानस्य अन्यस्य वा अबाधितविषयत्वेन स्वयं यदि प्रामाण्यं ततः तेन प्रवचनस्यापि युक्तम् । अतः अस्ति सर्वज्ञः सुनिश्चितासंभवद्भाधकप्रमाणत्वात् सुखादिनीलादिवत् । तत्र सुनिश्चितासंभवद्धाधकप्रमाणं सिद्धं शास्त्रप्रामाण्यात् ]
__ अक्षवुद्धिग्रहणम् उपलक्षणमिति चोदनादिबुद्धिरपि गृह्य ते, तस्याः तथा(यथा) येन प्रकारेण प्रवृत्ता तेन (प्रवृत्त्या तेन) एव धान(अबाधावि)निश्चयात् प्रामाण्यं चेत् यदि २० निीतासंभवडाधः निर्णीतोऽसंभवत्वात् (वद्वाधो) यस्य स तथोक्तः सर्वज्ञे (ज्ञो)नेति साहसम् इति भावः।
कारिकां व्याख्यातुमाह-चक्षुरादिज्ञानस्य इत्यादि । अन्यस्य चोदनाज्ञानस्य वा स्वयम् आत्मना यदि प्रामाण्यम् । केन ? अवापि(अबाधि)तविषयत्वेन ततः तेन[अ]बाधितविषयत्वे [न] प्रवचनस्यापि सर्वज्ञप्रतिपादिका (पादका) गमस्यापि [४२१क] प्रामाण्यं युक्तम् । २५
___ प्रकृतं निरामयताह (निगमयन्नाह-) अत इत्यादि । अतः प्रवचनप्रामाण्याद् अस्ति सर्वज्ञः । कुतः ? इत्याह-सुष्ठु निश्चितम् असंभवद्भाधकं यस्य तत् तथोक्तं प्रमाणं शास्त्रं यस्य तस्य भावात् तत्त्वात । निदर्शनमाह-सुखादि इत्यादि । बाह्यतरभेदेन दृष्टान्तद्वयोपदर्शनम् । तत्र यथा सुखादिनीलादिषु सुनिश्चितासंभवदाध[क]प्रमाणं प्रत्यक्षादि नैवं सर्वज्ञ,
(१) सर्वविदभावसिद्धिः । (२) अर्हतः । (३) रागादिमत्त्वसाधने । (४) वचनत्वात् चोदनावचनमप्रमाणम् इतरवचनवत् । (५) भाट्ट । उद्धृतोऽयम्-हेतुबि० टी० पृ० ३३ । प्र० परी० पृ० ६३ । त० श्लो० पृ. १७३ । प्रमेयक० पृ० ६११ । सन्मति दी० पृ० ३१८ । नयोप० पृ० ३३ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org