________________
८४ ]
शास्त्रस्य पौरुषेयत्वम्
ननु मणिप्रभायां मणिज्ञानामिथ्याज्ञानमिथ्या (मणिज्ञानात् मिथ्या) ज्ञानादपि तत्त्वप्रतिपत्तिः ततो व्यभिचार इति चेत्; न; तस्य साध्यान्तः पातित्वात् । यदि पुनः अनुमानमध्यक्षं चेत ; तर्हि कल्पनापोढेन अभ्रान्तेन तेन भाव्यमिति न तेन व्यभिचारः । व्यवहारेण तत्तथा । यो हि मन्यते - य एव मणिर्दृष्टः स एव प्राप्त इति तं प्रति प्रत्यक्षं तद् इति चेत् ; यस्तर्हि मीमांसकादिः ' स एवायम्' इत्येकं [ ४१९] प्रत्यभिज्ञानम् इन्द्रियजात (जम) विसंवादि मन्यते तं प्रति तदपि ५ प्रत्यक्षमिति न प्रमेयद्वैविध्यात् प्रमाणं द्विविधम् अस्य प्रत्यक्षत्वेऽपि सामान्यविषयत्वात्, "अविकल्पैकान्तव्याघातश्च । कथं चैवंवादिनः प्रत्यक्षसिद्धं (द्धा) क्षणिकता येन यद्यथावभा सते" इत्यादि सूक्तं भवेत् । अस्य 'विचारतोऽप्रत्यक्षत्वे तत एव प्रकृतस्यापि प्रत्यक्षत्वं मा भूत् । एतेन भाविनि प्राप्ये प्रत्यक्षत्व ( त्वं) चिन्तितम् । किंच, यदि भाविनि प्रत्यक्षं प्रमाणम् ; प्रतिबन्धद्वयव्याघत[:] । भावि च कारणं निषिद्धम् । ततो निराकृतमेतत्
"
* ''अभिप्रायाविसंवादादपि भ्रान्तेः प्रमाणता ।
वाति (गति) रप्यन्यथा दृष्टा पक्षश्चायं कृतोत्तरः ||" [ प्र० वा० २।५६ ] इति । स्यान्मतम् - यदि भाविनि न प्रत्यक्षं प्रमाणं तर्हि प्रमाणमेव न भवेत् । यदि वर्त्तमाने स्यात् को दोष: ? न च वर्त्तमाने क्वचिद् व्यभिचारदर्शनात् सर्वत्र स युक्तः, स्वसंवेदनमात्रेऽपि तदनुषङ्गाद् इत्युक्तम् ।
५३५
१५
अपि च, यद्यनुमानमविसंवादं कथं निर्विषयम् ? अवस्तुसामान्यविषयत्वादिति चेत्; प्रत्यक्षमपि तथा स्यादिति [ मणि] प्रभायां मणिज्ञानस्य अनुमानस्य अविसंवादः केन प्रतीयता ( प्रतीयेत ) ? नहि प्राप्यमणिप्रत्यक्षं निरंशपरमाणुग्राहकम् इत्युक्तम् । ततो न किञ्चिदेतदिति । ननु यदुक्तम्- 'तीर्थकराः प्रवचनं प्रवर्तयन्तीति' इति ; तत्सत्यमस्तु, केवलं ते सर्वज्ञा न भवन्ति " वक्तृत्वादिभ्यो रथ्यापुरुषवदिति; तदेव दर्शयन्नाह - यदि पुनः इत्यादि । २० तत्र दूषणमाह - जै मि निरन्यथा इत्यादि । [४९९ख]
ननु पुरुषान्तरे वक्तृत्वादौ सति सर्वज्ञत्वमुपलब्धम्, उपलभ्यते च तीर्थकरेऽपि वक्तृत्वादिकमिति तत्रापि "तदस्तु, अन्यथा नु (न) कृतकत्वादेः अनित्यादिप्रतीः (प्रतीति:) चेत् ; अत्राह-न हि इत्यादि । तीर्थंकरपुरुषान्तरयोः किञ्चित्साधर्म्यात् वक्तृत्वादिसाधर्म्यात् सर्वम् असर्वज्ञत्वादिकं तथैव वक्तृत्वादिप्रकारेण इति प्रतिपत्त (त्तं) न हि युक्तम्, २५ अतिप्रसङ्गात् - वक्ता मूर्खो दृष्ट इति सर्वोऽपि तथा " स्यात् । यदि पुनः पण्डितोऽपि सं कादावि (कदाचित् ) दृश्यते; सर्वज्ञेऽपि (ज्ञोऽपि ) द्रक्ष्यते इति समानम् ।
( १ ) " मणिप्रदीपप्रभयोः मणिबुद्ध्याऽभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ " - प्र० वा० २/५७ । (२) अनुमानम् । (३) " तेनेन्द्रियार्थसम्बन्धात् प्रागूध्वं वापि यत्स्मृतेः । विज्ञानं जायते सर्वं प्रत्यक्षमिति गम्यताम् ॥" - मी० श्लो० ४।२३६ । ( ४ ) प्रत्यभिज्ञानमपि । ( ५ ) प्रत्यभिज्ञानस्य । (६) प्रत्यक्षमविकल्पकमेवेति । ( ७ ) प्रत्यभिज्ञानस्य । (८) विचाररूपत्वात् । ( ९ ) प्रत्यक्षेऽपि हि अन्यद्द्द्दश्यते प्राप्यते चान्यदिति । (१०) वक्तृत्वात् पुरुषत्वात् हस्तपादादिमत्वात् इत्यादिभ्यः । (११) असर्वज्ञत्वमस्तु । (१२) मूर्खः । (१३) वक्ता ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org