________________
५३४
सिद्धिविनिश्चयटीकायाम् [८ सर्वशसिद्धिः उभयेषां तत्स्मरणमिति नाप्रमाणमिति चेत् ; अत्राह-तदेतद् इत्यादि । तत् सर्वज्ञप्रतिपादकम् एतद् विचार्यमाणं प्रवचनमपौरुषेयं नित्यम् । यद्यपौरुषेयं तीर्थकराः 'तत्र किं कुर्वन्ति येन तत्कल्पनमिति चेत् ? अत्राह-तीर्थकराः प्रवर्त्तयन्ति समुत्सन्तं (नं) समुत्सन्तं (नं) प्रवचनम् व्यञ्जयन्ति इति जैनाः। कुत इति चेत् ? सर्वज्ञागमयोः प्रबन्धनित्यत्वेन नित्यत्वोपगमात् । ५ कथं तस्य तर्हि द्वादशाङ्गस्य समुच्छेदः ? वेदशास्त्रवदिति । तद्वदेता ग (देव आरा)तीयाचार्यैः स्मरणं न का (क) रणम् इति सर्वं सुस्थम् ।
एवं सति यल्लब्धं तदाह-कुतो न कुतश्चित् कारणात् तत्रैव(व) व्यवस्थिते न्याये सत्या न्यो (सति अन्योs)न्याश्रयणं स्यात् यत इदं शोभेत*"नते तदागमात् सिध्येत् न च तेन विनाऽऽगमः ।"
[मी० श्लो० चोदना० श्लो० १४२] इति । परमपि यल्लब्धं तदपि दर्शयन्नाह-तन्न इत्यादि । यत एव शास्त्रं प्रमाणमस्ति तत् तस्मान्नानुमानं किञ्चिदपि सर्वअ(सर्वज्ञा) भावसाधनं शास्त्रविषये तदप्रवृत्तः इति भावः । तदुक्तं कैश्चित्
*"अतीन्द्रियानसंवेद्यान् पश्यन्त्यारेण चक्षुषा । ये भवात्व(भावान्)वचनं तेषां नानुमानेन बाध्यते ॥"
[वाक्यप० १।३८ ] इति । अथ नासौ शास्त्रस्य विषय इति चेत् ; अत्राह-[४१८ख] प्रवचनं च इत्यादि । इत्येवं स्थितं निश्चितमेतत् ।
ननु मा भूदनुमानं तत्साधन (न)शास्त्रान्तरं तु स्यात् समबलत्वादिति चेत् ; अत्राह२० न वेद्याद्य (न चेत्यादि । अयम) भिप्रायः-न तावद् अनेकान्तशासनं न जीवानां नानापरि
णामप्रतिपादकम् । ननु (न तु) यदेव यद्विधात तदेव तस्य निषेध (धू;) विरोधात् । अन्यच्चेत् ; न च नैव तत्प्रत्यनीकं शास्त्रं प्रमाणमस्ति । कुतः ? इत्याह-स्याद्वादेन[बाधितविषयत्वात् ] इत्यादि । निदर्शनमाह-पि ट क त्र य वदिति ।
ननु पि ट क त्र यस्य कथं स्याद्वादेन बाधितविषयत्वं यावता स्याद्वाद एव तेन बाधित२५ विषय द्तरेद (इति चेत् ; अ) त्राह-स हि इत्यादि । स पि ट क त्र ये प्रतिपाद्यमानः हि
यस्माद् एकान्तो न संभवति । कः ? इत्यादि (ह)-निर्विषयम इत्यादि वा इत्येवं । कथं सा (स) न संभवति ? इत्याह-राजपथीकृतमेतद् इति । कृत प्रतिनि (वि) धानताम् अस्य अनेन दर्शयति । तथाहि-निर्विषयं यतः ततो मिथ्याज्ञानम् अनुमान (नं) यदि ; कुतः किं सिध्येत् ? नहि निर्विषयात्] ततः तत्त्वसिद्धिः द्विचन्द्रादिज्ञानवत् ।
(१) प्रवचने । (२) उच्छिन्नम् । (३) जैनस्य । (४) शिष्यभूताचार्यैः । (५) सर्वज्ञः। (६) सर्वज्ञाभावसाधनम् । (७) अपि तु प्रतिपादकमेव । (6) निषेधकम् । (९) सूत्र-विनय-अभिधर्माख्यं पिटकत्रयम् । (१०) अनुमानात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org