________________
५३३
८४]
शास्त्रस्य पौरुषेयत्वम् इत्यादि । ततो नैरात्म्यात् कस्यचिद् उपलब्धेरभावानु (न) कस्यचिदुपलब्धिः इत्युपलम्भनिवृत्तिभावात् सर्वज्ञवत् सर्वाभावः ।
अथ श्रुतात् प्रत्यात्मविशेषाः प्रतीयन्ते इत्यदोषः । तत्राह-श्रुतस्यापि इत्यादि । श्रुतस्यापि न केवलं प्रत्यक्षादेरेवम् उक्तवत् प्रसङ्गात् । कुतः ? इत्याह-नहि इत्यादि । तदपि कुतः ? इत्याह-विशिष्टविषयत्वात् पुरुषार्थसिद्धेरिति । अथ विषयीकरोति शास्त्रम् इति ५ चेत् ; अत्राह-अन्यथा इत्यादि। अनेन (अन्येन) निरवशेषविषयीकरणप्रकारेण अ नाव(अनव)धेयत्वमेव शास्त्रस्य इति ।
____ निगमयन्नाह-तदियम् इत्यादि । यत एवं तत् तस्मात् इयम् अ[न]न्तरवर्णिता प्रतिपतृप्रमाणनिवृत्तिः प्रतिपत्तः मीमांसकस्य सम्बन्धिनी सर्वज्ञविषयप्रत्यक्षादिप्रमाणनिवृत्तिः सर्वसम्बन्धिनी सत्यपि प्रतिप[त्तुम] शक्येति । [४१७ख]प्रतिपतृग्रहणं न केवलं सर्वज्ञाभावं १० साधयति अपि तु किन्तु सर्ववस्तुव्यतिरेकं च सर्वभाववस्तुनोऽभावं च साधयति स्वापमदमूर्छाद्यवस्थायां सर्वत्र तन्निवृत्तेर्भावात् । अन्यैः तदा सर्वस्य दर्शनं नव(न सर्व)स्येति किं कृतमेतत् ? पुनस्तेनैव तस्य दर्शनम् ; जन्मान्तरे तेनैव सर्वज्ञस्य दर्शने किं विभाव्येत ? यदि वा, परोक्षज्ञानैकान्तवादिनः सर्वत्र तन्निवृत्तिरिति ।
यथा च शास्त्रात् प्रतीयमाने धर्मादौ न साधकप्रमाणनिवृत्तिः अनुपलब्धिः , तथा सर्व- १५ मपि इति दर्शयितुम् आत्मानं परेण पर्यनुयोजयन्नाह-भावे सर्वज्ञस्य तहिं किं प्रमाणम् इति ? तत्रोत्तरं शास्त्रं ब्रूमः इति । कुतः ? इत्यत्राह-तदित्यादि । तस्य सर्वज्ञस्य सद्भावप्रतिपादनात् 'चतुर्दशगुणस्थानोपवर्णनात न केवलं लब्धिकथनाच्चेति । कथमस्य तत्सद्भावप्रतिपादकस्य शास्त्रस्य प्रामाण्यमिति चेत् ? इति परमतम् ; अत्रोत्तरम्-चोदनायाः तर्हि कथमिति धर्मादिप्रतिपादकम् वैदिकं वाक्यं चोदना, तस्याः कथं प्रामाण्यम् ? उभयोरप्रामाण्ये धर्मादेरपि लोप २० इति मन्यते ।
पर आह-नित्यत्वात् तस्याः तदिति । सूचिराह (सूरिराह-)तत एव नित्यत्वादेव प्रवचनस्य गुणस्थानप्रतिपादकस्य आगमस्य अस्तु प्रामाण्यम् । कथं प्रवचनस्य इति "परः । तस्योत्तरं यथा इत्यादि । पार्श्ववर्ती पृच्छति-कथं तर्हि चोदनायाः नित्यत्वम् इति ? श्रोत्रियः प्राह-कर्तुस्मरणादिति । आचार्यः प्राह-तत एव इत्यादि । कर्तुरस्मरणादेव २५ परमागमस्य नित्यत्वम् इति । कर्तारः तीर्थकराः परमागमस्य स्मर्यन्त[४१८ क] इति चेदिति परमताशङ्का ; अत्रोत्तरम्-वेदस्य इत्यादि ।
ननु साक्षादयो (क ण भ क्षा द यो )वेदस्य कर्तारं स्मरन्ति । तेषां च स्मरणमप्रमाणमिति चेत् ; अत्राह-कण भ क्ष इत्यादि । पुनः इतरेषां मीमांसकानां या परमागमकर्तृविषया स्मृतिः तस्याश्च प्रामाण्ये न कश्चि[द्वि]शेषो वेदपरमागमयोरिति । ३०
ननु वेदे परवादिनामेव तत्स्मरणं न वादिनाम् ततस्तदप्रमाणम् उपपन्ने प्रवचने तु
(१) मिथ्यात्वसासादनादि अयोगिकेवल्यन्तानि । (२) सर्वज्ञसद्भाव । (३) मीमांसकः । (४) प्रामाण्यम् । (५) मीमांसकः । (६) वैशेषिकबौद्धादयः । (७) कर्तृस्मरणम् । (८) मीमांसकानाम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org