________________
५३२
सिद्धिविनिश्चयटीकायाम् [ ८ सर्वशसिद्धिः अत्र केचित् चोदयन्ति-सर्वज्ञस्य धर्मिणोऽसिद्धौ आश्रयासिद्धिः । 'सिद्धौ ; प्रतिषेधानुपपत्तिः तग्राहकप्रमाणबाधनात् , असिद्धश्च हेतुः । नहि सिद्धस्य अनुपलब्धिः ; विप्रतिषेधात् । किमर्थमिदम् अनुमानमुपन्यस्तम् ? परमतानुवादमात्रम् इत्येके ; न ; परस्य तदभावा[त्], न
भाव[:]प्रमाणात् तदभावसाधनात् । न च प्रेक्षावता तन्मतम् असम्ब[द्ध]मनूद्यते इति ; तत्रो५ च्यते-अभावप्रमाणमेवमुक्तं नानुमानम् । तथाहि-नास्ति सर्वज्ञः इत्यभावप्रमाणम् । तत्कुतो जायते ? इत्याह-अनुपलब्धः प्रमाणपञ्चकाभावात् । क्षेवित्य-[किं वत् ? इत्यत्राह-खपुष्पवदिति । यदि वा, अर्थापत्तिरियं पक्षधर्मत्वनिरपेक्षा । यदि वा, जैनमतापेक्षया परेणाद (परेणेदम् ) अनुमानमुक्तम् । तस्य हि मतम्-अस्ति सर्वज्ञः सुनिर्णीताऽसंभवबाधकप्रमाणत्वात्
सुखादिवत् [४१६ ख] इति । अत्र पूर्वपक्षे इदमुच्यते यदि साधकप्रमाणनिवृत्तिः सर्ववित्१० साधकस्य प्रमाणस्य निवृत्तिः आत्मा वा तद्रहितः अनुपलब्धिः यथास्वं नैरात्म्यं प्रस
ज्येत । कुतः ? इत्यत्राह-सर्वात्म इत्यादि । तदेव दर्शयन्नाह । नहि असर्वदर्शी तथैव यत्र सर्वात्मविशेषा व्यवस्थिताः तान् साक्षात्कर्तुमर्हति । अनुमानेन प्रत्येति इति चेत् ; अत्राह
नतदेव (तत एव) इत्यादि। यत एव स तान् साक्षात्कर्तुं नार्हति तत एव अनुमान(तु)मशक्यम् , __ भावप्रधानोऽयं निर्देशः असत्यत्र (अशक्यत्व) मिति । केषाम् ? इत्याह-प्रत्यात्म इत्यादि । १५ कुतः ? इत्याह-लिङ्ग इत्यादि ।
ननु परात्मनो (त्मानो) यतोऽनुमानात् प्रतीयते (यन्ते) ततः सामान्यविशेषात्मका एव, तन्न युक्तम्-'अनुमानम् (तुम्) अशक्यत्वं प्रत्यात्मविशेषाणाम्' इति चेत् ; अत्राह-तदविशेषेण इत्यादि । तद् इत्ययं निपातः तस्माद् इत्यस्य अर्थे वर्त्तते । तस्माद् अनुमानात् अनेकान्ता
त्मकवस्तुतत्त्वसाधनात् । केन रूपेण ? इत्याह-अविशेषेण सामान्येन । [न] हि परात्मा नियते२० [न] विशेषेण संयुक्तोऽनुमानात् प्रतीयते, प्रत्यक्षानुमानयोरविशेषप्रसङ्गादनुमान(तु)मशक्यत्वं
प्रत्यात्मविशेषाणाम् इति । ___स्यान्मतम्-त्या (व्या)हारादिविशेषात् क्रोधादिविशेषोऽपि प्रतीयते, तन्नेदमुत्तरमिति ; तत्राह-कुतश्चिद् इ[त्यादि] । कुतश्चित् व्यव(व्या)हारादिविशेषात् तत्प्रतिपत्तौ प्रत्यात्मवि
शेषप्रतिपत्तौ सत्याम् अप्रतिपन्नविशेषाविनाभाविनः। एव (व) मन्यते-व्याव(व्या)हारादिविशे२५ षात् क्रोधादिप्रतिपत्तिरपि अनुमान एव (नमेव)तदपि क्रोधादिकम् [४१७ क]अवान्तरसामान्येन विषयीकरोति न नियतविशेषेण । नहि क्रोधादेः प्रकृति (प्रति)क्षणसूक्ष्मविशेषाः अनुमानमशक्यः (मातुं शक्याः ) । ततस्तेषामनुपलब्धि (ब्धे)रभावः प्रसक्त इति; तन्न; [अप्रतिपन्नविशेष]विना[न] भवति इत्येवंशीलस्य अप्रतिपन्नविशेषाविनाभाविनः प्रतिपन्नस्वभावस्यापि क्रोधादिसा
मान्यस्य तथैव अनात्मकत्वप्रसङ्गात् । तथाहि-प्रतिक्षणक्षंणसूक्ष्मविशेषापेक्षया सामान्यविशेषा ३० आत्मनो भवति (न्ति) तदभावे तेऽपि तस्य न स्युः प्रतीयमाना अपि । न च तद्विविक्त आत्मा उपलभ्यत इति तदभावो भवन् नैरात्म्यम् [स्यात् । तत्र को दोष इति चेत् ? अत्राह-तत
(१) सर्वज्ञस्य । (२) सर्वज्ञाभावात् । (३) जैनस्य । (४) व्याहारो वचनम् । (५) अनुमानम् । (६) 'क्षण' इति द्विलिखितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org