________________
८४ ]
ज्ञानस्य सर्वविषयतां
५३१
वचनत्वाविशेषेऽपि वेदऐवं (वेदः स्वत एव ) पुरुषनिरपेक्षः स्वार्थं प्रतिपादयति तथा पुरुषत्वाविशेषेऽपि कश्चिदेव अक्षनिरपेक्षः परोक्षार्थ (र्थं) विषयीकरोति इति ।
५
स्यान्मतम् -
नन्वेवं स्वपरपक्षयोरविशेष एव उक्तः स्यात्, न पुनः स्वतः प्रामाण्य (ण्यं) वेदस्य निराकृत (तं) स्यादिति चेत्; अत्राह - संभवत्प्रकर्षेष्विति । संभवदतीन्द्रियार्थदर्शनेषु पुरुषविशेष (षेषु) स्वत एव प्रमाणं वेदो न स्यादिति सम्बन्धः, 'तेभ्य एव तत्प्रमाणत्वभावादिति भावः । - वेदस्य परानपेक्षस्य अर्थप्रतिपादने न किञ्चित् प्रमाणं वायव (बाधक) मस्ति पुरुषस्य तु अक्षानपेक्षस्य अर्थविषयीकरणा [Sसंभव एव ] तद्बाधकमस्ति तत्कथं साम्यमिति चेत् ? अत्राह - प्रमाणमित्यादि । लोके निरवशेषे जागति (जगति) क्वचित् तदभावसाधने सिद्धसाधनम् इति लोकग्रहणम् प्रमाणम् कीदृशं न किञ्चित् प्रमाणमित्यर्थः सर्वज्ञस्याभावसाधकं प्रत्यक्षादेः प्रमाणपञ्चकस्य अभावविषयत्वविरोधाद् अभावप्रमाणवैफल्यापत्तेः अनभ्युपग- १० माच्च । चार्वाकस्य नायं दोष इति चेत्; न; तस्य प्रत्यक्षैकप्रमाणवादिनः सर्वत्र लोके तदभावसाधनमयुक्तम्, स्वयं सर्वज्ञतापत्तेः, अनुमानादेरभावात् । पराभ्युपगमात् तस्य तदिति नोत्तरम् ; त (त) एव अतीन्द्रियज्ञानप्रसङ्गात् । यथैव परस्यै अनुमानमन्तरेण [न] तद्व्यवहारः तथा तदपि न अतीन्द्रियज्ञानमन्तरेण । अविशदं तदस्तु इति चेत्; न; अनुमाने जीवति विशदमपि " तदनिषेधनि (म् इ) त्यास्तां तावदेतत् । अभावः "तत्साधनम् ; तदुक्तम्
*" प्रमाणपञ्चकं यत्र वस्तुरूपे न जीवते ( जायते ) । वस्तुसवावबोधार्थ (र्थं) तत्र ( तत्रा ) भावप्रमाणता || "
;
[ ४१६ क] इति चेत्; न ः । आगमस्य भावादसिद्धः
१६
"तत्र प्रमाणपञ्चकाभाव इति चेत् ; न ; तस्य भावात् । तदाह - तदभावे (तद्भावे) सर्वज्ञाभावे (ज्ञसद्भावे ) शास्त्रम् अस्माकमस्ति ततोऽत्राप्यसिद्धम् अभावाख्यं प्रमाणमिति मन्यते ।
१५
"तत्रावृत्तेः
[मी० श्लो० अभाव० श्लो० १]
93
धर्मादेरपि स " तत्साधनम्, सर्वज्ञवत् प्रत्यक्षादेः
सर्वज्ञेऽपि २०
ननु सर्वज्ञोक्ततया " तत् प्रमाणम्, "तत्प्रमाणतया च [ सर्वज्ञ ] सद्भाव इत्यन्योऽन्यसमाश्रय इति चेत् ; अत्राह - न युक्त्या बा (ह - युक्त्यबा ) धितम् प्रमाणेन यतु ( णेन तु) बाधितं शास्त्रं [त ] दस्ति । न तदुक्तत्वेन "तत्प्रमाणम् अपितु बाधारहितत्वेम (त्वेन) प्रत्यक्षादिवत् इति गम्यते । २५ ननु तत्र शास्त्रं युक्त्या (क्त्य) बाधितम् असिद्धम्, अनुपलम्भस्य तद्बाधकस्य भावात् । एतदेव दर्शयन्नाह - नास्ति इत्यादि ।
(१) अतीन्द्रियज्ञेभ्यः एव । (२) अतीन्द्रियज्ञाभाव । (३) 'सर्वत्र सर्वज्ञो नास्ति' इति प्रत्यक्षं जानतः स्वयं सर्वज्ञता । ( ४ ) पराभ्युपगमादेव । (५) चार्वाकस्य । (६) लोकव्यवहारः । (७) अनुमान - मपि । (८) व्याप्तिज्ञानं विना । ( ९ ) अतीन्द्रियज्ञानम् । (१०) अतीन्द्रियज्ञानम्, न विद्यते निषेधो यस्य तत् अनिषेधम् अशक्य निषेधमित्यर्थः । ( ११ ) सर्वज्ञाभावसाधकम् । (१२) अतीन्द्रियधर्मादेरपि । (१३) अभावः । (१४) अभावसाधकः । (१५) धर्मादौ । (१६) धर्मादौ । ( १७ ) आगमस्य । (१८) शास्त्रम् । (१९) शास्त्रप्रमाणतया । ( २० ) शास्त्रम् । (२१) सर्वज्ञे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org