________________
५३०
सिद्धिविनिश्चयटीकायाम् [८ सर्वशसिद्धिः (अनक्ष) विज्ञानातिशये अतीन्द्रियार्थग्रहणयोग्यतायां ज्ञानस्य । कस्य ? इत्याह-[आ] शास्त्रार्थविदः आ समन्तात् सकलान् (सकलस्य) शास्त्रस्य वेदस्य द्योतिः (ज्योतिः) शास्त्रस्य वा अर्थम् अतीन्द्रियं वेत्तीति तदर्थवित् सर्वज्ञः तस्य । कुतस्तदतिशयः ? इत्याह-अक्षकृत् सहाक्षा (असहायाक्षात् अक्षा) भावात् । अथ अक्षाभावे कुतः स इति चेत् ? ५ अत्राह-क्रमादिति आम्नायाद् आगताद् दर्शनादेः। जीवानाम् इति निर्धारणे षष्ठी । यो हि विद्वान् स्वयं शास्त्रानुक्रम (माद)र्थमभ्यूह्य जानाति स कथमन्यत्र असहा[या]क्षार्थस्य ज्ञातरि विप्रतिपद्ये ते]ति भावः।
ननु तदतिशये यद्यपि वद्धांत (विद्वान्न) विप्रतिपद्यते, संसते (संशेते) अत्यन्तादृश्ये 'अनक्षज्ञाने गत्यन्तराभावात् । तदुक्तम्
*"अनिश्चा (श्व) यकरं प्रोक्तम् ईदृक्षानुपलम्भनम् । तन्नैरा (वा) तीन्द्रियार्थानां सदसत्तादिविनिश्चयो॥"
[प्र. वा० २।९४ ] इति सौगतः, तत्राह-स्थावरादेः इत्यादि । स्थावरोवृक्षादिः आदिर्यस्य शास्त्रार्थतत्त्वज्ञः पर्यन्तो यस्य तस्य। कस्य ? इत्याह-जीवराशेः अनेन 'जीवानाम्'इति [४१५क]व्याख्यातम्। १५ उत्तरस्योत्तरः अधिकस्यापि अधिको बुद्धिप्रकर्षो यस्य स तथोक्तः तं प्रति न कश्चित् विप्रति
पत्तुमर्हति वक्ष्यमाणम् इति अन्यत्र शौद्धोदनिशिष्यकात् । किंभूतात् ? इत्याह-अविप्रकृष्ट विप्रकष्टसंशीतिवादिनः] इत्यादि । स एव विप्रतिपत्तुमर्हति संशीतेविप्रतिपत्तिनिबन्धनत्वात्। अन्यः कस्मान्न विप्रतिपत्तुमर्हति इति चेत् ? अत्राह-शास्त्रार्थविदां च इत्यादि । च शब्दः
अप्यर्थः, शास्त्रेण अर्थ विदन्तीति तदर्थविदः तेषामपि न केवलमन्येषां विवादगोचराणाम् तदर्थ२० ज्ञानप्रकर्षः शास्त्रार्थज्ञानाधिक्यम् सर्वथा सर्वप्रकारेण अस्त्येव । स कुतः ? इत्यत्राह-स्वभाव इत्यादि । स्वभावेन पाटवं च अभ्यासश्च तौ आदी यस्य औषधादिसेनादेः (सेवनादेः) तस्य तारग्यात् (तारतम्यात) । 'कथम्' इति प्रश्ने तस्य उत्तरम् उपनिबन्ध इत्यादि । को हि नाम स्वयं शास्त्रार्थ (2) प्रतिपद्यमानः अन्यत्रापि (त्र वि) प्रतिपद्यते ? अनेन 'विद्वान्' इति प्रतिपादितम् । तथैव तेनैव स्वभावपाटवाभ्यासादितारस्य (तारतम्य)प्रकारेण कस्यचित् पुरुष२५ विशेषस्य शास्त्रार्थनिरपेक्षं परोक्षज्ञानपाटवं यदि स्यात् किंचिरुप्येत (किं विरुध्येत ?) न किश्चित् । एतेन शेषं निवृत्तम् ।
___ तदनभ्युपगमे दूषणमाह-तथा इत्यादि । यतो जै मि न्या देः प्राकृताद् वि (ताऽवि)शेषात् स्वत एव पुरुषनिरपेक्ष एव प्रमाणं वेदो न स्यात् स्यादेव । ततः स्थितम्- यथा
(१) अतीन्द्रियज्ञाने । (२) 'अनिश्चयकरं प्रोक्तं ईदृक्क्वानुपलम्भनम् । तन्नात्यन्तपरोक्षेषु सदसत्ताविनिश्चयौ ॥-किन्तु ईदृगतीन्द्रियार्थविषयमनुपलम्भनमनिश्चयकरं प्रोक्तम् , सत्यप्यर्थे सम्भवात् । तत् तस्मात् अत्यन्तपरोक्षेषु सदसत्तानिश्चयौ न स्तः, सत्यपि प्रमाणावृत्तः। प्रमाणनिवृत्तावपि अर्थाभावासिद्धेः ।"-प्र० वा० मनोरथ० २।९४ । (३) "विप्रकृष्टविषया पुनरनुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा संशयहेतुः ।"-न्यायबि० २।४७ । (४) बौद्धः । (५) शेषः श्लोकांशः व्याख्यात इत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org