________________
८४]
___ ५२९
झानस्य सर्वविषयता भावात् । तदविशेषेण अनेकान्तात्मकवस्तुतत्त्वसाधनात् । कुतश्चित्तत्प्रतिपत्तौ अप्रतिपन्नविशेषाविनाभाविनः प्रतिपन्नस्वभावस्यापि तथैवानात्मकत्वप्रसङ्गात् । ततो न कस्याच दुपलब्धिरिति सर्वाभावः । श्रुतस्याप्येवं प्रसङ्गात् । न हि विशिष्टविषयत्वात् पुरुषार्थसिद्धेः । अन्यथाऽनवधेयत्वमेव शास्त्रस्य । तदियं प्रतिपत्रमाणनिवृत्तिः सर्वसम्बन्धिनी प्रतिपत्तुमशक्येति न केवलं सर्वज्ञाभावं साधयति अपि तु सववस्तुव्यतिरेकं च । भावे ५ तहि किं प्रमाणम् ? शास्त्रं ब्रूमः । तत्सद्भावप्रतिपादनात् चतुर्दशगुणस्थानोपवणनाच। कथमस्य प्रामाण्यम् ? चोदनायास्तहिं कथम् ? नित्यत्वात् , तस्यास्तत् । तत एव प्रवचनस्यास्तु । कथं प्रवचनस्य नित्यत्वम् ? यथा चोदनायाः । कथं तर्हि चोदनायाः नित्यत्वम् ? कर्तुरस्मरणादिति ; तत एव परमागमस्य । परमागमस्य तीर्थकराः कर्तारः स्मर्यन्ते इति चेत् । ननु क ण भ क्षा द यो वेदस्य कर्तारं स्मरन्ति । १० क ण भ क्षा दी नां स्मरणस्य अप्रामाण्ये पुनः इतरेषां परमागमकर्तृ विषयस्मृतेः प्रामाण्ये न कश्चिद्विशेषः । तदेतत् प्रवचनमपौरुषेयम् , तीर्थकराः समुत्सन्नं प्रवचनं प्रवर्तयन्तीति सर्वज्ञागमयोः प्रबन्धनित्यत्वेन' नित्यत्वोपगमात् कुतस्तत्र एवमन्योऽन्याश्रयणं स्यात् । तन्नानुमानं सर्वज्ञाभावसाधनं प्रवचनं चेति स्थितम् । न च नानेकान्तशासनं जीवानां नानापरिणामप्रतिपादकम् । न च तत्प्रत्यनीकं प्रमाणमस्ति स्याद्वादेन बाधितविषय- १५ त्वात् पिटकत्रयवदिति । स हि एकान्तो न संभवति निर्विषयं वेति राजपथीकृतमेतदिति । यदि पुनः ते न सर्वज्ञाः वक्तृत्वादिभ्यः [वक्तृत्वात् पुरुषत्वात् रागादिमत्त्वात् ] रथ्यापुरुषवदिति; जैमि निरन्यथा [वेदज्ञः कुतः] ? नहि किश्चित्साधर्म्यात् सर्व तथैवेति प्रतिपत्तु युक्तमतिप्रसङ्गात् । तदिमे वक्तृत्वादयोऽहेतवः अन्यथानुपपत्तिरहितत्वात् विपक्षे बाधकाभावात् । 'सर्वज्ञो नास्त्यनुपलम्भात्' इति व्याप्तिसाधने 'स्वोप- २० लब्धिः [असिद्धा] सर्वप्रामाण्य 'सर्वज्ञानां [स्वपरोपलम्भसंभवात्]
न विद्यते [सहायो] यस्य तदसहायम् [४१४ ख] अतर्क(अक्ष)मिन्द्रियम् तस्माद् एकेन्द्रियादेः आशास्त्रार्थविदः जीवानां प्राणिनां [क्रमात् ] क्रमेण[विज्ञानातिशये न वै विद्वान् विप्रतिपद्यते, यथा परमाणोः परिमाणाद् आरभ्य आगगनात् परिमाणातिशय इति । नन्वयमर्थः *"ज्ञानस्यातिशयात् सिध्येद् विभुत्वम्" [ सिद्धिवि० ८।८] २५ इत्यादिना प्रतिना प्रतिपादयिष्यते, तत्किमर्थमिह उच्यते ? तस्माद् अन्यथा व्याख्यायतेविद्वान् पठितेः (पण्डितः)शास्त्रेषु उक्तानुक्तपर्यालोचनपटुः न[वै] नैव[वि]प्रतिपद्यते अक्ष
(१) तुलना-“एवं यत्केवलज्ञानमनुमानविजृम्भितम् । नते तदागमात् सिध्येत् न च तेन विनागमः ॥ सत्यमर्थबलादेव पुरुषातिशयो मतः। प्रभवः पौरुषेयोऽस्य प्रबन्धोऽनादिरिष्यते ॥"-न्यायवि. ३।४१२-१३ । (२)तुलना-"सर्वज्ञप्रतिषेधे तु सन्दिग्धा वचनादयः।"-न्यायवि० २।३४९। (३) तुलना"सकलज्ञस्य नास्तित्वे स्वसर्वानुपलम्भयोः । आरेकासिद्धते तस्याप्यर्वाग्दर्शनतोऽगतेः॥"-न्यायवि० ३।४०६। "सर्वादृष्टिश्च सन्दिग्धा स्वादृष्टिर्व्यभिचारिणी। विन्ध्याद्रिरन्ध्रदूर्वादेरदृष्टावपि सत्त्वतः ॥"-तत्त्वसं० पृ० ६५ । प्रमाणसं० पृ० १००। त० श्लो० १० १३। आत्मतत्त्ववि० पृ. ९४। (१) प्रतिना' इति द्विलिखितम् ।
६७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org