________________
५२८
सिद्धिविनिश्चयटीकायाम् [ ८ सर्वशसिद्धिः स्वत एव अपि तु कुतश्चन कारणात् सम्यग्दर्शनादेः तत्त्व (तच्च) रागादि अविद्यावरणं च तयोविच्छेदस्य नाशस्य अनिष्टेः न बोडुमर्हन्तीति ।
ननु साकल्येन तदावरणविच्छेदो नास्ति पुरुषाणाम् अनाकमनोविद्यते (?) इति चेत् ; अत्राह-तदित्यादि । तस्य तंद्विच्छेदस्य प्रकर्षस्य अतिशयस्य सर्वज्ञा[ज्ञ]सिद्धरनिवारणात् ५ 'प्राप्तं परोक्षाणां पुरुषज्ञानम्' इति । चर्चितमेतदनन्तरम् ।
ननु सत्यम् , पुरुषा न वेदार्थ बोधुमर्हन्ति, वेदः पुनरपौरुषेय[:] स्वतः स्वार्थं प्रतिवा(पा) दयति । तदाह-वेद इत्यादिना । परः पृच्छति कस्य प्रमाणम् इति चेद् इति । तं प्रत्याहन कस्यचित् सुकथस्येति (स कथयेत्) । कुतः ? इत्यत्राह-तदित्यादि । वेदार्थतत्त्वाऽविनि
श्चयात पुरुषत्वेन रथ्यापुरुषवत् स्वयं तर्हि निश्चयाभावात् , वंदस्य वाऽचेतनत्वेन तत्र विनि१० श्चयानुत्पादनात् इति भावः ।।
किंच, सर्व वचनं[जन्यम् , अर्थप्रतिपादनं च पुरुषापेक्षम् आत्मनि दध ('द्वयं) दृष्टमपि यदि वैदिकं वचनमन्यथा संभाव्येत, तर्हि पुरुषेषु अर्थज्ञानं विशदं अक्षा[द्] दृष्टमपि *तदभावेऽपि स्यात् ।
ननु वेदे कर्तु [र]स्मरणं साधनमस्ति नेह तदिति चेत् ; न ; अत्रापि ज्ञानातिशयोऽस्ति १५ इति दर्शयन्नाह-जीवानाम् इत्यादि ।
[जीवानामसहायाक्षादाशास्त्रार्थविदः क्रमात् । विज्ञानातिशये विद्वान्न वै विप्रतिपद्यते ॥४॥
स्थावरादेः शास्त्रार्थतत्त्वज्ञपर्यन्तस्य जीवराशेः उत्तरोत्तरबुद्धिप्रकर्ष प्रति न कश्चिद् विपत्तिपत्तुमर्हति अन्यत्र विप्रकृष्टसंशीतिवादिनः शौद्धोदनिशिष्यकात् । शास्त्रा२० र्थविदां च तदर्थज्ञानप्रकर्षः स्वभावपाटवाभ्यासतारतम्यात् सर्वथाऽस्त्येव । कथम् ? उपनिबन्ध तथैव कस्यचित् शास्त्रार्थनिरपेक्षं परोक्षज्ञानपाटवं यदि स्यात् किं विरुध्येत ? यतोऽसंभवत्प्रकर्षेषु स्वत एव वेदः प्रमाणं न स्यात् । यथा वचनत्वाविशेषेऽपि वेदः स्वत एव स्वार्थ प्रतिपादयति तथा पुरुषत्वाविशेषेऽपि कश्चिदेव अक्षनिरपेक्षः परोक्षार्थ विषयीकरोति। लोके कीदृशं प्रमाणं सर्वज्ञस्याभावसाधकम्, प्रत्यक्षादेः अभावविषयत्वविरोधाद२५ भावप्रमाणवैफल्यापत्तेरनभ्युपगमाच्च । तद्भावे शास्त्रं युक्त्यवाधितमस्ति ।
'नास्ति सर्वज्ञः अनुपलब्धेः खपुष्पवत्' इत्यत्रोच्यते-यदि साधकप्रमाणनिवृत्तिः आत्मा वा तद्रहितोऽनुपलब्धिः ; यथास्वं नैरात्म्यं प्रसज्येत । न ह्यसर्वदर्शी तथैव सर्वात्मविशेषान् साक्षात्कर्तुमर्हति । तत एव प्रत्यात्मविशेषाणामनुमातुमशक्यं लिङ्गा
(१) आवरणविच्छेदस्य । (२) अर्थानाम् । (३) नास्ति कश्चित् वेदार्थतत्त्वज्ञः पुरुषत्वात् रथ्यापुरुषवत्' इत्यनुमानेन। (४) एतद्वयम् । (५) अपौरुषेयम् नित्यं च । (६) इन्द्रियात् । (७) इन्द्रियाभावेऽपि । (८) अपौरुषेयत्वसाधकम् । (९) उद्धृतोऽयम् -...विज्ञानातिशये 'न्यायवि० वि. द्वि० पृ० २५२।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org