________________
८३]
ज्ञानस्य सर्वविषयता
५२७ भवतु तत्तदेवेति चेत् ; अत्राह-कथमनागत इत्यादि । अनागतार्थविशेषेषु ग्रहणादिषु भाविषु ज्योतिर्ज्ञान(ना)विसंवादः कथं [न कथं] चित् । कुतः ? इत्यत्राह-तद् इत्यादि , तेषाम् अनागतार्थविशेषाणां ये स्वभावकार्ये तयोः प्रा[गग्रहणात] ग्रहणादेः पूर्वनिर्णयासंभवात् । एवं मन्यते-सुगतेन सह तत्स्वभावस्य निर्णये तेषामनागतार्थातां (तार्थता) कुतः ? तद्रपज्ञानस्य प्रश्नादेर्वा तत्कार्यस्यापि निर्णये स एव दोषः । 'नहि भावि कारणम्' इति निरूपितम् । ५ यदि वा, अनुमानप्रवृत्तिः (त्तेः) [४१३ख] प्राज्ञात (प्राग् व्याप्ति) निर्णयासंभवात् एकद्विप्रमाणनियमवादिनाम् इति द्रष्टव्यम् । तर्हि परोक्षज्ञानम् आगमोऽप्यस्ति ततोऽयमदोष इति; तत्राहश्रतेश्च इत्यादि । श्रुतिजनितं परोक्षार्थज्ञानं श्रतिः तस्याश्च तत्र अनागतनष्टादौ प्रामाण्यानभ्युपगमात् सौगतादिभिः । इदमत्र तात्पर्यम्-यदा अनागतविषयं प्रत्यक्षमनुमानश्चा (नं वा) सुगतस्य अन्यस्य वा न विद्यते, तदा अपौरुषेयी श्रुतिः तत्र प्रमाणयितव्या । न च तत्कृतमिति १० मीमांसकैः तत्प्रामाण्यमिष्यत इति चेत् ; अत्राह-विध्यादीत्यादि । विधिः आदिर्यस्य नियोगभावनादेः स एव विषयः तत्र नियमात ; श्रुतेस्तत्रे प्रामाण्यानभ्युपगमात् मीमांसकैरपि इति । अन्यदेव तत्र प्रमाणमिति चेत् ; अत्राह-प्रमाण इत्यादि । निरूपितात् प्रमाणादन्यस्य [प्रमाणान्तरस्य]तत्राऽभावात् इत्यर्थः। अथ अविशेषेण त्रिकालविषया श्रुतिः इष्यते तदाह-यदि पुनः इत्यादि । तत्रोत्तरमाह-प्राप्तम् इत्यादि ।
अथ वेदः स्वयमेव परोक्षमर्थं प्रतिपादयति इति किं तत्र ज्ञानेन इति चेत् ? अत्राहत्रिकालविषयम् इत्यादि ।
[त्रिकालविषयं तत्त्वं कस्मै वेदो निवेदयेत् ? . अक्षय्यावरणैकान्तान्न चेद्वेत्ति तथा नरः ॥३॥
पुरुषाः कुतश्चनापि तदविद्यावरणविच्छेदानिष्टेः न बोडुमर्हन्ति, तत्प्रकर्षानि-२० वारणात् । वेदो न कस्यचित् स्वतः प्रमाणम् , तदविनिश्चयात् । ]
कस्मै न कस्मैचित् वेदो निष्पादयेत् (निवेदयेत् )तत्वम् । किन्तु (किं तत् ?) त्रिकालविषयम् अचेतनत्वात् इत्यभिप्रायः । चक्षुरादिवत् स्वयोग्य (ग्ये) तत्र ज्ञानं जनयेत् सर्वस्य न वा कस्यचित् तत्र सङ्केतानर्थक्यम् । किमपिसेवेण (किमविशेषेण) न निवेदयेत् ? इत्याह-अक्षय्यावरणे (णे)कान्तात् कारणात् न चेद् यदि वेत्ति त्रिकालविषयं तत्त्वं २५ तथा विशदप्रकारेण नरः तथा [४१४क] तद्वेदने निवेदयेत् सङ्केतकारिणो विशिष्टस्य नरस्य अभावादिति ।
वेदार्थस्य साक्षात् कश्चित् ज्ञाताऽस्तु न तु सर्व इति चेत् ; अत्राह-पुरुषा इत्यादि । तद्विषयदोषावरणविच्छेदाद् बोडुमर्हन्तीति निवेद[य] नाह-कुतश्चनापि इत्यादि । न केवलं
(१) एकप्रमाणवादिनः चार्वाकस्य, द्विप्रमाणवादिनः बौद्धस्य च । (२) वेद । (३) अनागते । (४) प्रमाणं स्वीकृतम् । (५) अनागतादौ । (६) उद्धृतोऽयम्-प्र० मी० पृ० १२। () त्रिकालविषय ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org