________________
५२६
सिद्धिविनिश्चयटीकायाम्
[ 'धीरत्यन्तपरोक्षेऽर्थे न चेत्पुंसां कुतः पुनः । 'ज्योतिर्ज्ञाना विसंवादः श्रुताच्चेत् साधनान्तरम् ॥२॥
परोक्षज्ञानमिष्यत एव कथमनागतार्थविशेषेषु ज्योतिर्ज्ञानाविसंवादः तत्स्वभाव: प्रागग्रहणात् श्रुतेश्च तत्र प्रामाण्यानभ्युपगमात् विध्यादिविषये नियमात्, ५ प्रमाणान्तराभावात् । यदि पुनः त्रिकालविषया श्रुतिरिष्यते, प्राप्तं परोक्षाणां पुरुष
कार्ययोः
,
ज्ञानमिति ।]
[ ८ सर्वज्ञसिद्धिः
धानन्तरोक्तो (धीः अनन्तरोक्ता) बुद्ध्यात्मा वैशद्यमासादयन्त ( यन् न ) चेत् न विद्यते यदि । क्षा (क ? अ) त्यन्तपरोक्षेऽर्थे धर्मादै (धर्मादौ ) । 'स्वत:' इति द्रष्टव्यं लिङ्गादिव्यपोहार्थम् । कुतः प्रमाणान्न कुतश्चित् । पुनः इत्यत्र वीप्सार्थो द्रष्टव्यः - पुनः पुनः अनाद्यनन्त१० काले, ज्योतिर्ज्ञानाविसंवादः ज्योतीषि (ज्योतींषि ) ग्रहनक्षत्रादीनि तेषां ज्ञानं महणापराय (णोपराग) प्रबद्धचारतत्फलतत्कारणाधारधर्मादिप्राणिक्षेत्रादिपरिच्छेदः तस्याविसंवादः तदभावे तदन्यकारणाभावात् । केषाम् ? इत्याहइ- पुंसाम् पृथगतान्यम् (पृथगात्मनाम् ) अस्ति च तदविसंवादः ततोऽस्ति तंत्र धीरिति । यस्तु क्वचिद् विसंवादः समास्तार्थ (सः शास्त्रार्थ) - सम्बन्धापरिज्ञानात् लिङ्गलिङ्गिसम्बन्धाऽज्ञानाद् अनुमेयज्ञानविसंवादवत् । तत्सवम्ब (तत्सम्ब १५ न्ध) परिज्ञाने तदविसंवाददर्शनात् । अपौरुषेयं शास्त्रमस्ति ततः तदविसंवाद इति चेत्; अत्राह - [श्रुतात् ] शास्त्रात् चेत् तदविसंवादः साधनान्तरम् अतिशयरूपात् सर्वज्ञस्यरा (सा) धनादिदं शास्त्ररूपम् अपरं साधनम् | [ अ ]विसंवादाद्वा तैमन्तरेण [ ४१३] तदभावात् ।
कारिकां विवृण्वन्नाह - परोक्षज्ञानमित्यादि । ननु परोक्षस्य अस्मदाद्यपेक्षया देशादिव्यवहितस्य धर्मादेर्ज्ञानं केन अनुमानमेवेष्यते, येनैवमो (वं चो ) द्यते ? न सौगतादिना सर्वज्ञ२० वादिता (ना) ; प्रत्यक्षस्यापि तज्ज्ञानस्य तेनाभ्युपगमात् । नापि मीमांसकेन; आगमस्या तेनाभ्युपगमात् । न च लोकायतिकेन ; नज्ञा (तज्ज्ञा) नस्यानुमानस्य अन्यस्य वा प्रमाणत्वेन तेनानभ्युपगमादिति चेत्; 'सौगतेन' इति ब्रूमः । तथाहि - यस्माद् उत्पन्नं यदाकारानुकारं (रिच) तस्यैव ग्राहक (कं) ज्ञानं' सुगतस्यापीति तदाकाराधायकः परोक्ष [ : ] । स च तदाकारज्ञानव्यतिरेकानु' (कात् ) यथा अस्मदादिभिरनुमीयते तथा सुगतेनापीयितरथा (पि, इतरथा) प्रत्यक्षेण अनुमानेन वा [] दर्थस्य तेनाऽपरिच्छेदात् पृथग्जनादप्यसौ पापीयान् । यदिवा, चा[र्वा ] केणेति शिष्म: । तेनद्य ( तेनापि अ) सर्वज्ञागमजादिना (वादिना ) व्यवहारमिच्छता पर चैतन्यादाविव नष्टादावप्यनुमानमभ्युपगन्तव्यम्, अन्यथा न संपूर्ण व्यवहारसिद्धिः ।
२५
Jain Education International
(१) उद्घृतोऽयम् - "श्रुताच्चेत्” प्र० मी० पृ० १२ । (२) तुलना - " ग्रहादिगतयः सर्वाः सुखदुःखादिहेतवः । येन साक्षात्कृताः तेन किन्न साक्षात्कृतं जगत् ॥ " - न्यायचि० ३ | ४१४ । चन्द्रसूर्योपरागादेः ततः संवाददर्शनात् । अप्रत्यक्षेऽपि पापादौन प्रामाण्यं न युज्यते ॥ - शास्त्रवा० २।३। (३) असर्वज्ञानाम् इत्यर्थः । (४) अत्यन्तपरोक्षेऽर्थे । (५) सर्वज्ञसिद्धिमन्तरेण । (६) शास्त्रेऽविसंवादाभावात् । (७) परोक्षज्ञानस्य । (८) इति नियमात् । ( ९ ) तदाकारज्ञानान्यथानुपपत्तेरित्यर्थः । (१०) सर्वज्ञागमनिराकरणवादिना ।
For Personal & Private Use Only
www.jainelibrary.org