________________
८।१]
शानस्य आवरणाभावे वैशद्यम् । ननु[द्वि]चन्द्रादिज्ञानं यदि तत्स्वभावं कदाचनापि न ततो विशदस्य यथावस्थितस्य वाऽर्थस्य प्रतीतिः स्यादिति चेतिदितितत्र (चेत् ; तदितरत्र)समानम् । अथ सत्यस्वप्ने तस्य अन्यतः सत्यार्थता वैशद्यं च, तत एव चन्द्रादिज्ञाने' ज्ञानेऽपि इति स्वतोऽप्रामाण्यं परतः [४ १२क] प्रामाण्यमिति प्रसक्तम् । अन्यस्यादर्शनमुभयत्र समानम् ।।
___ ननु तदुपलम्भवत् तस्य स्वविषये वैशद्यासादनेको (वैशद्याभावादनेकान्तो) हेतुः इति चेत् ; ५ अत्राह-[अ]तिशयो हेतुः इति । अतिशय उत्कर्षः। कस्य इति चेत् ? उच्यते[आवरणस्य] 'प्रहीणतिमिराक्षेन्दूपलम्भादिवत् स्वविषये वैशद्यमासादयन्तीति(यन्' इति) वदता 'प्रहीणावरणतिमिर' इत्युक्तं भवति । तस्माद् आवरणातिशयो
हेतुर्लिङ्गम् । तथा च प्रयोगः-आवरणप्रहाणं पुरुषेषु कचित् परमकाष्ठानिष्ठम् अतिशयत्वात् तिमिरादिप्रहाणवत् ।
ननु तत्प्रहाणवत् दृष्टिप्राहमव्य (प्रहाणमप्य)तिशयवद् उपलभ्यते ततोऽस्या अपि तद्वद्भावः स्यात् , न चैवमिष्यते, ततो व्यभिचार इति चेत् ; अत्राह-कर्म इत्यादि । कर्मणां ति(वि)मोक्षणम् आत्मनः सकाशाद् अपसारणं तस्मै तदर्थो हेतुः न पुनः तदत्यन्ताभावार्थः। कुतः ? इत्याह-न पुनः नैव द्रव्यस्य जीवस्य पुद्गलस्य अन्यस्यं वा क्षयः अत्यन्ताभावोपल(भावो ल)क्ष्यते यतः सतोऽत्यन्तविनाशाभावात् इति प्रतिपादितमिति न पुनरुच्यते । ततो न १५ यथात्मनःर्मणां तथा तस्यायनात्मना (ततो यथा आत्मनः कर्मणां तथा तस्या अपि न आत्मनः) विमोक्षणसंभवान्न व्यभिचार इति भावः । यदि वा ज्ञानस्य थैसत्यस्य (वैशद्यस्य)वा अतिशयो गृह्यते ।
___ नन्वेवं स्वविषये सद्य (वैशद्य)मासादयन् सिद्धोऽपि किं सुगतोऽन्यो वेति विशेषरूपतया न सिद्धः तत्प्रतिबद्धहेत्वभावादिति चेत् ; अत्राह-श्रुत इत्यादि । श्रुतेः(श्रुतः)श्रवण- २० विषयतामुपनीतो लोके अनन्तरप्रस्तावे. नाः (वा)स्याद्वादः स्यात्कारलाञ्छनो वाक्यराशिः प्रशस्तो वा कर्मफलसम्बन्धादिविशेषः ततः[४१२ख] सिद्धिः (सिद्धः) 'तहिशेषः' इत्यध्याहारः, वचनविशेषाद् वत्कु (क्तृ) विशेषसिद्धे[]प्रतिषेधात् ।
ननु सुगतेनापि कल्पितः स्याद्वाद उक्त इति सोऽपि तंतस्तत्र वैशद्यमासादयन् सिद्धः स्यादिति चेत् ; अत्राह-परमार्थतः।
स्यान्मतम्-ज्ञानस्य वैशद्यम् अक्षव्यापारात् ; अक्षाणां च सन्निहिते वर्तमाने व्यापारः, तत्कथं स तत्र वैशद्यमासादयन् सिद्धोऽपि सर्वज्ञः स्यात् । उक्तं च
*"सन्निहितं वर्तमानं च गृह्यते चक्षुरादिना ।
न तत्स[मुद्भवं ज्ञानं जायतेऽतीतभाविनि ॥" "इति । चेत् ; अत्राह-धीः इत्यादि ।
(१) 'ज्ञाने' इति द्वलिखितम् । (२) आवरणप्रहाणवत् । (३) दृष्टिमा॑नम् । (४) दृष्टेरपि । (५) आवरणवत् । (६) आकाशादेः । (७) दृष्टः । (८) तदविनाभावि । (९) श्रुतात् कल्पितात् । (१०) बुद्ध्यात्मा । (११) “सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना"-मी० श्लो. सू० ४ श्लो० ८४।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org