________________
५२४
सिद्धिविनिश्चयटोकायाम् [ ८ सर्वशसिद्धि *"यदि षड्भिः प्रमाणैः स्यात् सर्वज्ञः केन वार्यते।"
मी० श्लो० चोद० श्लो० ११०] इति'; तत्राह-स्वविषय इत्यादि । स्वस्मि[न] त्रिकालरूपे विषयो(ये)वैशद्यमासाद्ययत्तत्र व(सादयन् , तत्र च) 'सकलः' इति न सम्बद्ध्यते उत्तरग्रन्थविरोधात् । स्वग्रहणेन ५ नियतसर्वज्ञत्वनिषेधः । नहि सर्वस्वगोचरे निरावरणं ज्ञान (न) नियतप्रकाशकं युक्तम् भानुमण्डलवत् । तदुक्तम्
* "ज्ञो ज्ञेये कथमज्ञः स्यादिति (स्यादसति ) प्रतिबन्धरि । दाहयोऽ(ोs)ग्निः दाहको न स्याद[स]ति प्रतिवन्धरि ॥"
योगबि० श्लो० ४३१ ] इति । यत्पुनरत्रोक्तं प्रज्ञा क रेण-*"सकलविषयत्वे सति आत्मनो निरावरणत्वे तत्र वैशद्य(घ) सिध्यति तत्सिद्धौ च तद्विषयत्वं सिध्यति इत्यन्योऽन(न्य)समाश्रयः ।" इति ; तत् 'त्रिकालविषयः' इत्यनेन निरस्तम् । न तस्यानुमानमन्तरेण प्रतिभासाद्वैतेऽपि जीवितमस्ति इत्युक्तम् । तच्च व्याप्तिग्रहणमन्तरेण नेत्यपि। विषयग्रहणेन कामशोकभयादिवद् वैशद्यमिति
निषिद्धम् । नहि तद्विषये वैशद्यम् [४११ख] । १५ ननु त्रिकालविषयं मनोज्ञानम् अन्यस्य तददृष्टः। तच्च किमिव तत्र विशदं यथार्थं वा स्यात् , दृष्टान्तयुक्त्या (क्त्य)भावे तदसिद्धः । तदुक्तम्
*"मृष्यमाणो यथाङ्गारः शुक्लतान्नेति जातुचित् ।
मनोज्ञानं तथाभ्यासात् नैव याति सदर्थताम् ॥” इति ;
तत्राह-प्रहीण इत्यादि । प्रहीणं तिमिरम् , उपलक्षणमेतत् रजोनीहारादेः, यस्य २० तत्तथोक्तम् अक्षम् इन्द्रियं यस्य तस्येद्र पलभ्य (तस्य इन्दूपलम्भ) आदिर्यस्य वृक्षोपलम्भादेः
सोऽपि तथोक्तः स इव तद्वदिति । एवं मन्यते-यथा चन्द्रादिज्ञानं स्वविषये अविशदमयथार्थ वा आवरणवशात् न स्वतः तथा मनोविज्ञानम् , यथा च तद् आवरणापाये विशदं तत्र यथार्थं च तथा मनोज्ञानमपीति । एवं हि भवदीयं भवेद् यदि तद् अविशदायथार्थग्रहणस्वभावं नित्यं
वा स्यात् , तच्चायुक्तम् 'अनेकान्ततत्त्व' इति वचनात् , सत्यं स्वप्नावावसत्या (सत्यस्वप्ना२५ दिवत् सत्य) विशदयथार्थग्रहणदर्शनाच्च । तथापि तत्स्वभावं तद् इति वे(चेत् द्वि) चन्द्रादि
ज्ञानमपि तत्स्वभावम् इति न पेरतोऽप्रामाण्यम् । यथा चात्र तिमिरादि तत्कारणमुपलभ्यते तथा मनोज्ञानमनुमीयते । न च मीमांसकस्य अनुमान[म]प्रमाणं वेदनित्यताऽसिद्धिप्रसङ्गात् ।
(1) मीमांसकः । “एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते । नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते ॥"-मी० श्लो० चोदनासू० श्लो० १११। (२) उद्धृतमिम्-जयध० प्र० भा० पृ० ६६ । अष्टस. पृ० ५० । 'असति प्रतिबन्धके "न स्यात्कथमप्रतिबन्धकः'-योगबि०। (३) अनुमानम् । (४) उक्तम् । (५) काल्पनिकं भावनात्मकम् । (६) कामादिभावनाविषये । (७) मनोज्ञानम् । (6) "घृष्यमाणो हि नाङ्गारः शुक्लामेति जातुचित् । निजः स्वभावसम्पर्कः केनचिन्न निवार्यते ॥"-प्र. वार्तिकाल. २१२३४ । (९) दोषात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org