________________
८१ ]
समवायविचारः
५२३
यां वृक्ष इति ततो भवति बुद्धिः तदा तत्र शाखा इत्यपि इति चेत् ; न ' शाखाया वृक्षारभ्यु (रभ्य) त्वप्रसङ्गा[त् । अ ]थ यत् पूर्वं तदारं (तद् आरम्भकम् ; ) शाखाश्च पूर्वा इति; तन्न सारम् ; [४१० ख] पूर्वा (पूर्व) तासामदर्शनात् पटात् पूर्वं तन्तुवत् । अनुमीयन्त इति चेत् ; शाखाभ्यः पूर्वं वृक्षोऽस्तीत्यनुमीयताम् । सूक्ष्म ( क्ष्मात् ) स्थूलवत् स्थूलादपि सूक्ष्मस्य कपालादेर्द - र्शनात् । अथ दृश्यस्य सतोऽदर्शनम् पूर्वबाधकम् ; एतदन्यत्रापि समानमिति न किञ्चिदेतत् । ५ न च कुण्डबदरसम्बद्ध्यमान एव कश्चिद्. 'इह कुण्डे बदराणि ' इति प्रत्ययहेतुः प्रतिपन्नः, यतोऽन्यत्र तथा कल्पना स्यात् । तत्सम्बन्धः समवाय इति चेत् ; 'इह समवायिषु समवायो वर्त्तते' इति बुद्धिर्यदि अन्यसमवायनिबन्धना ; अनवस्था । नो चेत् ; अनयैव व्यभिचारस्तत्साधनस्य ।
स्यान्मतम्-विशेषणीभावः (व) सम्बन्धनिबन्धना तद्बुद्धिरिति ; तन्न सारम् ; समवायवत् " जात्यादयोऽपि द्रव्यादीनां विशेषणम् इति सर्वत्र तदिबन्धत्व ( तन्निबन्धनत्व) प्रसङ्गात् । १० विशेषणीभावेऽपि समवायवत् प्रसङ्गः चिन्त्यः । तन्न समवायो नाम ।
अथ बुद्धिरूपतयात्मनः परिणाम [णामात् ॐ ] स्यास्त समवाय: ; तर्हि सिद्धमिदम् 'बुद्धि: आत्मा' इति । ननु सौगतमतं स्यादिति चेत् ; अत्राह - अनेकान्ते त (न्तेत्यादि) तत्त्वतः सिद्धः तदात्मा इत्यनेकान्तः तत्त्वं स्वरूपं यस्येति । एकस्याऽनेकधर्मात्मकत्वस्य कल्पितत्वाद् अनर्थः स भवेत् इति चेत् ; अत्राह - अर्थः सिद्धो निरूपितनीत्या नियतविषय [:] १५ सिद्धः । ततो न विवादपरिसमाप्तिः इति चेत्; अत्राह - त्रिकालविषय इति । त्रिषु कालेषु व्यवस्थिताः पदार्था अपि त्रिकालशब्देन उच्यन्ते, त्रयः काल (ला) विषयो यस्य इति । 'तदभावे [४११ क] सकलव्याप्तेरसिद्धेर्न किञ्चिदनुमानं भवेत् । चोदना वा कस्मै [त्रि ] कालविषयमर्थं निवेदयेत् ? यतः *" चोदना हि " [शाबरभा० १।१।२] " इत्यादि सुभाषितं भवेत् ।
सर्वज्ञरहितं सर्वं चिन्तयंश्चारुचक्षुषा ।
स चार्वाकरिचरं चित्रवधं नीतोऽनया दिसा (शा) ॥
कश्चिदेव तथा स्यादिति वैशेषिकः ; तत्राह-सकलो निरवशेषः, नहि कश्चिदेवात्मा चेतनः । साकल्येन व्याप्ति [ : ] ज्ञ ेया । तथा चेत्; इतरो तरो " ( इतरोऽपि ), नानुमानो (नं) वा स्यात् । न चानुमानमन्तरेण अजातोऽपि ( चार्वाकोऽपि ) जीवतीति निरूपितम् ।
यदि मतम् - षट्प्रमाणकः तद्विषय:" इति सिद्धसाधनम् ; तदुक्तम्
(१) वृक्षे । तुलना - " पटस्तन्तुष्वित्यादिशब्दा श्चेमे स्वयं कृताः । शृङ्गं गवीति लोके स्यात् शृङ्गे गौरित्य लौकिकम् ॥ " - प्र० वा० १।३५० । “वृक्षे शांखाः शिलाश्वाग इत्येषा लौकिका मंतिः । ताः पुनस्तास्विति ज्ञानं लोकातिक्रान्तमुच्यते ॥" - तत्त्वसं० पृ० २६७। लघी० स्ववृ० पृ० १४ । ( २ ) वृक्षोत्पाद्यत्व | (३) घटात् । ( ४ ) इह तन्तुषु पटः इत्यत्र । ( ५ ) सामान्यादय: । (६) विशेषणी भावोऽपि स्वसम्बन्धिभ्यां सम्बद्धः असम्बद्धो वा इत्यादि । (७) बुद्धेः । (८) आत्मनि । (९) त्रिकालविषयकजीवाभावे । (१०) "चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवञ्जातीयकमर्थं मवगमयितुमल नान्यत्किञ्चनेन्द्रियादिकम् ” - शाबर भा० । ( ११ ) सर्वज्ञोऽपि सिद्धः स्यात् । ( १२ ) त्रिकालविषयः ।
Jain Education International
For Personal & Private Use Only
२०
२५
www.jainelibrary.org