________________
[अष्टमः प्रस्तावः]
[८ सर्वज्ञसिद्धिः] ननु 'सर्वज्ञः' इत्यवाच्यम् । तदभावात् प्रमाणाभावेन इति चेत् ; अत्राह-सिद्धोऽर्थ इत्यादि ।
[सिद्धोऽर्थः सकलः त्रिकालविषयोऽनेकान्ततत्त्वात्मकः, बुद्ध्यात्मा परमार्थतः स्वविषये वैशद्यमासादयन् ।
आवरणातिशयः प्रहीणतिमिराक्षेन्दूपलम्भादिवत् ,
हेतुः कर्मविमोक्षणाय न पुनद्रव्यस्य लोके श्रुतः ॥१॥] [अर्थः] स्वपरप्रकाशको भावः, बुद्धिः सैव आत्मा जीवः न पुनः बुद्धरन्यः तत्प्रतिभासविरहात् । सिद्धो निश्चितो यथोक्तन्यायात् । यदि पुनः ततोऽन्यः स्यात् कुम्भकारस्यापि 'तया सम्बन्धाभावान्नाभावात्(न्धाभावात् )न घटादिकम् उपलब्धिमत्कारण[मि]ति कुतः तद्व
लात्' कस्यचित् चेतनावतः तनुभुवनादिकर्तृत्वम् , यतः तस्य॑ सकलहेतुफलग्रामपरिज्ञानं १० सिध्येत् । अथ तत्कार्यत्वाद् [४१०क] बुद्धिः तस्य इत्युच्यते ; घटादेरपि उच्यताम् , प्रमेय
कार्यत्वेनापि तदभ्युपगमात् । आलम्बनप्रत्ययत्वान्नेति चेत् ; आत्मनः (आत्ममनः)संयोगस्य स्यात् । असमवायिकारणत्वान्नेति चेत् ; कस्य तर्हि ? समवायिकारणस्य इति चेत् ; न ; हेतुफलयोः भेदैकान्तेन समवायीत करणविधिकस्य (तरकारणविभागस्य) कर्तुमशक्यत्वात् ।
अथ यत्र समवेतं चेति (भवति) कार्य तत् समवायिकारणम् ; 'समवेतम्' इति कोऽर्थः ? १५ समवायेन वृत्तम् ; कोऽयं समवायो नाम ? अयुतसिद्धयोराधाराधेयभूतयोः यः सम्बन्ध इहेति
प्रत्ययहेतुः[स]समवाय” इति चेत् ; न ; हेतुफलविशेषयोरेव[]त्प्रत्ययहेतुतोपपत्तेः । ननु हेतौ हेतुरिति बुद्धिः, फले फलमपि न मिति न हेती (फलमिति, न इहेति इ) ति चेत् ; तर्हि समवायेऽपि इहेतिबुद्धिः स्यात् "न पुनः इदं सामान्यम् इदं सामान्यम् इत्यनुगतबुद्धिः,
समवायस्यात्र प्रत्ययहेतुत्वं न पुनः प्रकृतहेतुफलयोः हेतुरिति किंकृत]मेतत् । २० किंच, समवाय [:]समवायिभिरसम्बद्ध्यमान एव योगिनोऽन्यस्य वा यदि 'अयं समवाय
इति तन्तुषु पटः' इति च बुद्धिमुत्पादयति स्वमाहात्म्यात् न आकाशादिः ; तर्हि पटोऽपि तन्तुभिरनभिसम्बद्ध्यमान एव 'अयं पटः' इति[स] च इहेति बुद्धिमुत्पादयेत् तत एव । अयमेव त्रान्यः पक्षः (१)वृत्तेदं (वृक्षे) शाखा इत्यपि प्रतीते, तन्न(तत्र)द्वयोरपि (भि)सम्बन्धः। ततो यथा शाखा
(१) सर्वज्ञाभावात् । (२) भिन्नः । (३) बुद्धभिन्नः । (४) बुद्ध्या । (५) घटदृष्टान्तात् । (६) तनुकरणभुवनादिकर्तुः । (७) ईश्वरस्य । (८) न घटस्य । (९) उत्पद्यते । (१०) "अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः।। -प्रश. भा० पृ० ५। (११) इहे तिप्रत्यय । (१२) अत्र पाठस्त्रुटितः इति । (१३) स्वमाहात्म्यादेव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org