________________
७।३० ]
सर्वशप्रणीतं शास्त्रं प्रमाणम् .. प्रकृतं निगमयन्नाह-तन्न इत्यादि । न[अ]पौरुषेयस्यापि वाक्यराशेः सङ केतवशादर्थप्रतीतौ कथं विश्वासः इदीनीन्त(नीन्तन)स्य रागादिमत्त्वात् ]सङ्केतविधातुः । यदि वा, व्यक्तिवत्' तत्करणमपि अन्यथा संभाव्यते इति चेत् ; अत्राह-पौरुषेयस्य इत्यादि । [४०८ क] [पौरुषेयस्य पुरुषवचनस्य विप्रतिपत्तिनिराकरणोपायः स्यात् । कः ? इत्याह-समुपाया (सम्प्रदाया)विच्छेदोऽपि न केवलं माहात्म्यमेव । सोऽपि कुतः ? इत्याह-तदर्थदर्शिभिः ५ इत्यादि । शास्त्रार्थदर्शिभिः, पुनः पुनः उच्छ(च्छि)न्नस्य उच्छ (च्छि)न्नस्य प्रवर्त्तनात् सम्प्रदायस्य ।
अथ मतम्-अपौरुषेयवत् पौरुषेयमपि शास्त्रम् अर्थे तादात्म्यादिप्रतिबन्धाभावात् प्रमाणं मा भूत् , अत्राह-शास्त्रम् इत्यादि ।
[शास्त्रं शक्यविशेषरूपविषयाशेषं प्रमाणं स्वतः, सर्वज्ञः सह चेतसो विनियतं प्रतिपादकैः स्यात् परम् । कोऽन्यः शंसति वेद्यवेदकवचःशून्यं वचश्चेत्कथम् ,
तत्त्वं वस्तुबलागतं जडधियः शुद्धोदनेः शिष्यकात् ॥३०॥] शास्त्रं प्रमाणम् । कुतः ? इत्याह-स्वतः स्वयोग्यतावशात् न तादात्म्यादिबलात् , कृत्तिकोदयवद् भविष्यति' शकटे । सर्वं स्यादिति चेत् ; अत्राह-विनियतं किञ्चिदेव न सर्वम् । १५ किं तत् ? इत्याहा (ह-)शक्य इत्यादि । शक्यस्वामा (शक्यश्चासौ) विशेषश्च प्रत्यक्षादिरूपः तस्य विषयो गोचरोऽशेषो यस्य तत्तथोक्तं प्रमाणान्तरादि (वि)संवादकम् इति यावत् । अतीतानागतयोरसतोः प्रवर्त्तमान (न) निर्विषयं तदप्रमाणम् ; तत्राह-सर्वज्ञः सह तश्चेतः(चेतसः)प्रमाणम् । एव (वं) मन्यते-यथा सर्वज्ञात्म(सर्वज्ञज्ञानम) तीतादौ प्रवर्त्तमाना अपि (नमपि) स्वतः प्रमाण (णं) परमार्थतः तथा इदमपि इति । ततः 'यदि च सामान्यं २० व्यक्तिर्वा [वा]च्यं शब्दानां भवेद् अतीतानागतं वाच्यं न स्यात्' इति; तन्निरस्तम् ; सर्वज्ञानवक्षा वृतस्यापि तत्रातिधारणात् (सर्वज्ञज्ञानवत् अतीतानागतस्यापि तत्रावधारणात्) । यत्पुनरेतत्
*"अतीतानागतेऽप्यर्थे सामान्य[वि]निवन्धनाः । पिनिविशन्ते (श्रुतयो निविशन्ते सद) सद्धर्मः कथं भवेत् ॥" २५
[प्र०वा० २।३४] इति ; तत्रेदं चिन्त्यते-कुतोऽतीतानागतयोर्न तद्धर्मः ? तयोरसत्त्वात् । कदाऽसत्त्वम् ? स्व
(6) अभिव्यक्तिवत् । (२) भाविनि। (३) "अतीत.नागतं वाच्यं न स्यादर्थेन तत्क्षयात्"-प्र० वा० २।१८ । (४) "अतीतानागतेऽप्यर्थे सामान्यनिबन्धनाः सामान्याश्रयाः श्रुतयो निविशन्ते व्यवतिष्ठन्तेआसीत् घटो भविष्यतीत्यादयः । तथा चासतो घटस्य सामान्यं धर्म इत्युक्तं स्यात् तच्च सामान्यं सत् असतोऽतीतादेर्धर्मः कथं भवेत् ? न हि तैक्षण्यं शशविषाणस्य भवति ।"-प्र. वा. मनोरथ०। .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org