________________
५१८ सिद्धिविनिश्चयटीकायाम्
[७ शास्त्रसिद्धिः चिदन्यथा व्यक्तिः क्रियते, जनापवादभयादनादेयताप्राप्तेश्च, या भ्रान्त्या कस्यचिदना (न्य)थापि तद्व्यक्तिः सोऽव्यतस्तत्यातके स (सापि अभ्यस्तास्तिक)समुदायान्निवर्तते । [अ]त एवेन्द्रोत्सवे सहभूय वेदज्ञाः तत्पाठमद्यापि शोधयन्तीति चेत् ; उच्यते-अनादावतीते काले तथैव सर्वत्राय' प्रकृत (प्रसृत) आसीदिति किमत्र प्रमाणम् ? न तावत् प्रत्यक्षम् ; इदानीन्तनस्य कस्य५ चित् तत्कालाध्यक्षाभावात् । भावे युक्तं (ऽप्युक्तम् ) । तत्कालीन[स्य] स्यादिति चेत् ; कोशपानं विधेयम् । नाप्यनुमानम् ; तदभावात् । तद्वि (नन्वि) दमस्ति-'वेदः तत्काले सर्वत्र प्रकृत (प्रसृत) एव तत्त्वाद् यथेदानीम्' इति चेत् ; कथमेवं भ र ता (भा र ता) दीनां तत्काले प्रकृ (स) तत्वं न स्यात् ? व्या स कृतिबाधनादिति चेत् ; न ; 'हिरण्यव्यक्तिबाधनमत्रापि । अस्य विलोपो (पे)
अन्यत्र कः समाश्वासः ? अथ यथेदानी तथा अन्यदापि वेद आसीदिति प्रसिद्धिः अत्र प्रमा१० णम् ; अन्यदा हिरण्यगर्भादिकृत इत्यपि प्रसिद्धिः अविशिष्टास्ति । नाप्यागमः ; तदभावात् । नहि आत्मनः सर्वदा सर्वत्र प्रसृतत्वप्रतिपादकः परस्य आगमोऽस्ति, कोर्येऽर्थे तदभ्युपगमात् ।
एतेन अनागते काले तत्प्रसृतद्वेदप्रमाणं (तत्वाद्वेदस्य प्रामाण्य) चिन्तितम् । तदेवं सर्वदा तत्प्रसृतत्वसिद्धेः कदाचिदन्यथापि व्यक्तिः संभाव्यत इति ना(न) [४०७ ख] पौरुषेयादस्य विशेषः । १५ ननु यदुक्तम्-'सङकेतवशात्तदर्थप्रतिपत्तौ' इति ; तदयुक्तम् ; "तद्वशात् पदस्यार्थः
प्रतीयते न वाक्यस्य, प्रतिपन्नपदार्थस्यापूर्वस्यापि श्लोकस्यापि श्रवणे तदर्थप्रतीतिदर्शनात् , वाक्यार्थश्च वेदार्थ इति चेत् ; अत्राह-स्वत इत्यादि । स्वतः स्वमाहात्म्यात् तद्वसन्नि (तद्वक्तृनि)रपेक्षत्वात् प्रमाणत्वे स्वार्थप्रतिपादकत्वे प्रकृतवाक्यराशेः सङ केतादर्श (शि) नोऽपि प्रमाणं
स्यादिति । परिज्ञातपदार्थस्य सर्वस्यापि तद्वाक्यराशिश्रवणो द(णेऽपि) परोपदेश (शादेव) तदर्थ२० प्रतीतिः स्यात् , न चैव (वम् ।) [न] च पण्डितोऽपि परकाव्यं "तदुपदेशाद् यथावदवगच्छति ।
स्यान्मतम् , यदुक्तम्-'पौरुषेयव्यक्ता(क्त्या) प्रकृतवाक्यराशेः इतरं प्रति न कश्चिद् विशेषः' इति; तदनुपपन्नम् ; तव्यक्तिरपि नित्यैव पुनः पुनः प्रवर्त्तते न पुनरपूर्वात्() कदाचित् केनचित् कृतात्(कृतेति) । तत्कर्तुरस्मरणादिति ; तत्राह-कर्तुरस्मरणेऽपि इत्यादि ।
संभावनायाम् अपिशब्दः, तद्व्यक्तः यः कर्त्ता तस्यास्मरणेऽपि प्रबन्धानादित्व(त्व) स्याद् २५ व्यक्तः न पुनः नित्यत्वमेव । भवत्ये (त्वे)वम् इति चेत् ; अत्राह-तथापि इत्यादि । [तथापि] तत्प्रबन्धानादित्वप्रकारेणापि कथं प्रामाण्यं तद्राशेः म्लेच्छव्यवहारवत् ।
(१) वेदः । (२) वेदत्वात् । (३) महाभारतरामायणादीनाम् । (४) अतीतकाले । (५) 'महाभारतं व्यासकृतम्' इति प्रसिद्ध्या । (६) 'हिरण्यगर्भेण व्यक्तो वेदः' इति प्रसिद्ध्या । (७) अतीतकालेऽपि । (6) 'हिण्यगर्भः समवर्तताग्रे, यो वै वेदांश्च प्रहिणोति' इत्यादिना हिरण्यगर्भकृतो वेदः इति प्रसिद्धिः वेदेऽपि समानेति भावः। (९) 'कुर्यात्' इति विध्यंशे एव तत्प्रामाण्यस्वीकारात् । (१०) सङ्केतवशात् । (११) परोपदेशादेव । (१२) तुलना-"म्लेच्छादिव्यवहाराणां नास्तिक्यवचसामपि । अनादित्वात्तथाभावः पूर्वसंस्कारसन्ततः॥ तादृशेऽपौरुषेयत्वे कः सिद्धेऽपि गुणो भवेत् ।"-प्र. वा० ३१२४५-४६। अष्टश० अष्टस० पृ. २३८ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org