________________
७.२९]
नापौरुषेयो वेदः प्रमाणम् हेतुः इति चेत् ; अत्राह-परिणामेऽपि परिणामनित्यत्वेऽप्यङ्गीक्रियमाणे नवाक्ष(न चाक्षर)राशेरपौरुषेयत्वं युक्तम् अपुरुषकर्तृकत्वम् उपपन्नम् येन पुरुषाश्रितदोषाभावात् स्वतः प्रमाणं वेदः स्यात् । कुतस्तन्न युक्तम् ? इत्याह-शास्त्रान्तरस्यापि इत्यादि । तदनुषङ्गाद् अपौरुषेयत्वानुषङ्गात् परिणामनित्यत्वत्य तत्रापि भावात् । न चैवम् , अतो व्यभिचारी हेतुः इति भावः । , अथ 'दुर्भणत्वादिमत्त्वे सति तन्नित्यत्वात्' इति विशिष्टोऽन्यत इति न दोषः; तत्राह- ५ विशेषाभावाच्चेति । तदन्तरपरिहारिण (हारेण) वेदे विशेषस्याभावात् , अशेषविशेषस्य अन्यत्रापि[४०६ख] करणसंभवा[त्] । च इत्यवधारणे। परस्य तत्र नित्यत्वसावका (साधिकां) युक्तिं हन्तुमाह- कर्तुरित्यादि । व्यभिचारी अयमपि हेतुः । दूषणान्तरमाह-तावतेत्यादि । तावता कर्तुरस्मरेण (स्मरणे) नित्यत्वमात्रेण प्रमाणत्वे वेदस्य कस्मिर्ता एननस्मत (कर्तुः स्मर्ता एव न स्मृतः) शास्त्रान्तरस्यापि न केवलं वेदस्य हिरण्यगर्भादिवत् ततः तस्यापि प्रमाणत्वं १० भवेदिति । अनेन उत्तरभागो व्याख्यातः। अथ शास्त्रान्तरस्य तथापि न प्रमाणत्वम् ; तत्राह श्रुतेः इत्यादि । प्रमाणत्वमिति ।
किंच, श्रुतेर्वर्णानां [पदानां वाक्यानां] वा प्रमाणत्वं भवेदिति पक्षाः । तत्रान्य (तत्राद्य) पक्षद्वये दूषणमाह-वर्णानां पदानां च न क्वचित् प्रमाण्यं न भवेत् , अपि तु वेदवयादावपि (वेदवत् वर्णपदादावपि) भवे[त्] प्रतिषेधद्वयेन प्रत्यक्षा (प्रकृता)र्थगतेः । नहि लोके वेदे च १५ वर्णपदःअग्न्यादि(वर्णपदे अग्न्यादिरूपे भिन्ने, उ)भयत्राविशेषात् । तृतीयपक्षे द्वैद्धत (द्वैतम्', कृत)सङ्केतापेक्षाणाम् , अन्यथाभूतानां वा ? प्रथमपक्षे दूषणमाह-सङ्केत इत्यादि । प्रकृतवाक्यराशेः वैदिकवाक्यराशेः इत्यं प्रति (इतरं प्रति) पौरुषेयवाक्यराशिं प्रति न कश्चिद्विशेषः प्रमाणत्वेतरकृतो न भेदः। कस्मिन् सति ? इत्याह-सङ्कतात तदर्थप्रतिपत्ती, रागादिमान् पुरुषः सङ्केतं कुर्यादिति तन्नियतः सङ्केत इति मन्यते । दूषणान्तरमाह-प्रकृतवाक्यराशेः पौरुषेय- २० वाक्यान्तरं प्रति न[क]श्चिद् विशेषः । व्यक्तिः सदा सतः तद्वाक्यराशेः प्रकाशनम् , न तदर्थस्य सङ्कतेत्यादिना उक्तत्वादस्य । पौरुषेयी च सा व्यक्तिः चिति (चिन्तिता)। तया तंद्राशेः ईतरं प्रति न कश्चिद् विशेषः ।
एवं मन्यते-यथा[अ]सतो वाक्यराशेः[४०७क] रागादिमवा(मता) करणे नेति नियतार्थता, तथा प्रकृतवाक्यराशेः सतोऽपि तथाविधपुरुषेण व्यक्तौ तदन्यथा व्यक्तिरिति स २५ एव दोषः ।
ननु यथा व्यङ्ग्यं तेनापि (तेनाभि)व्यक्तिः, घटादौ तथादर्शनादिति चेत् ; न खट्वादौ (खड्गादौ") मुखादेरन्यथापि व्यक्तिदर्शनात् । अथ सर्वत्र प्रसृतस्य तद्वाक्यराशेः न केन
(१) शास्त्रान्तरात् । (२) शास्त्रान्तरपरिहारेण । (३) वाक्यानां प्रमाणत्वमित्यत्र । (४) द्वैतमिति द्वौ विकल्पो वक्ष्यमाणौ इत्यर्थः । (५) वैदिकवाक्यराशेः । (६) पौरुषेयवाक्यराशिं प्रति । (७) वैदिकवाक्यराशेः । (6) रागादिमता। (९) इष्टविपरीता अभिव्यक्तिः स्यात् । (१०) यादृशम् । (११) आयते खड्गे आयतः मुखः दृश्यते । (१२) आयतायाकारतया ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org