________________
५१५
७।२९ ]
नापौरुषेयो वेदः प्रमाणम् तदाप्यसौ ब्राह्मणः 'तदनुप्रवेशे तु विपरीतः इति चेत् ; ननु किं ब्राह्मणत्वं नष्टम् ? तथा चेत् ; न नित्यं सामान्यमिति कर्कमध्यमध्यासीनो मुण्डो न गौः स्यात् । अथ न नष्टम् ; तदनुप्रवेशेऽपि ब्राह्मण एव । वेदे भक्त्यभावान्नेति चेत् ; किं तद्भक्तिरेव ब्राह्मण्यम् , अन्यद्वा ? प्रथमपक्षे न तत्सामान्यम् ज्ञानविशेषत्वात्तस्याः । तथा च सुप्ताद्यवस्थस्य व्यापादना बधेऽपि (व्यापादनेऽपि) न ब्रह्महत्यादिदोषः । द्वितीयपक्षे तदभावेऽपि तदवस्थं तदिति स एव दोषः । अथ तद्भ-५ क्त्यां स एव ज्ञाप्यते ; न; शूद्रेऽपि तद्भावात्। वेदपाठरहिते" सत्यपि” सा" न ज्ञायत इति [चेत् ;] कुतः तत्र द्विजत्वज्ञानम् ? गोत्रादेरिति चेत् ; इतरत्र समानम् ।
___एतेन तदर्थानुष्ठानं प्रत्युक्तम् । [४०५ ख] । तथाहि-तदेव द्विजत्वम् , अन्यद्वा सामान्यम् ? तदेव चेत् ; तद्रहितः सिसुः(शिशुः)स" न भते (भवेत्) । [तथापि तदा]" तदभ्युपगमे अन्यदापि कुतः तदनुष्ठाना[त् ] स्यात् ? अन्योऽपि स्यात् । तस्य तदभावान्नेति १० [चेत् कुत एतत् ? अद्विजत्वादिति चेत् ; प्रकृतस्यापि त (न)भवेत् । तदनुष्ठानात् स द्विज इति चेत् ; अन्योऽन्यसंश्रयः-द्विजत्वे तदनुष्ठानम् , अतस्तदिति ।।
___ एतेन संस्कारादयोऽपि चिन्तिताः। सामान्यं तद् इति चेत् ; "तदभावेऽपि तत्तदवस्थमिति नासावब्राह्मण[:] । तन्न ब्राह्मणगृहीतोऽर्थः वेदस्य । बहुजनगृहीत इति चेत् ;न; अनेकोऽपि तद्गृहीत एव समानसभक्षेऽपि (श्वमांसभक्षणमपि) बहुजनपरिगृहीतमेव । द्वेषेण तत्क- १५ ल्पितम् अतो नार्थ इति चेत् ; भक्त्या अन्योऽपि” द्विजैः कल्पित इति समानम् । ततः स्थितम्तदनेकार्थ इत्यादि। वेदस्य प्रमाणत्वे परोक्तां युक्तिं दूषयितुं दर्शयन्नाह-वेद इत्यादि ।
[वेदः प्रमाणं नित्यत्वात् कर्तुरस्मरणाद्यदि ।
स्वशास्त्रकर्तुः स्मर्ता अपलप्येत न किं परैः ॥२९॥ शब्दस्य अन्यस्य वा परिणामित्वं सिद्धम् इत्युक्तम् । अपरिणामेऽपि नचाक्षरराशेरपौरुषेयत्वं युक्तं येन वेदः स्वतः प्रमाणं स्यात् , शास्त्रान्तरस्यापि तदनुषङ्गात् विशेषाभावाच्च । कर्तुरस्मरणात् व्यभिचार्ययमपि । तावता प्रमाणत्वे शास्त्रान्तरस्यापि प्रमाणत्वं भवेत् न वा श्रुतेः । वर्णानां पदानां च न क्वचित् प्रामाण्य न भवेत् । सङ्केतात्तदर्थप्रतिपत्तौ प्रकृतवाक्यराशेरितरं प्रति न कश्चिद्विशेषः १ पौरुषेय्या व्यक्त्या च । स्वतः २५ प्रमाणत्वे सङ्केतादर्शिनोऽपि प्रमाणं स्यात् । कर्तु रस्मरणेऽपि प्रबन्धानादित्वं स्यात् । तथापि कथं प्रामाण्यं तद्राशेः म्लेच्छव्यवहारवत् । तन्न अपौरुषेयस्यापि सङ्केतवशात्
(१) सुगतमतानुप्रवेशे । (२) अश्वमध्ये तिष्ठन् मुण्डः । (३) सौगतमतस्वीकारेऽपि । (४) वेदभक्तिरेव । (५) भक्तेः । (६) द्विजस्य मारणेऽपि । (७) वेदभक्त्यभावेऽपि। (८) वेदभक्त्या । (९) वेदभक्तिसद्भावात् । (१०) वेदपाठाधिकाररहिते शूद्रे । (१३) विद्यमानापि । (१२) भक्तिः । (१३) ब्राह्मणे । (१४) वेदार्थानुष्ठानमेव । (१५) द्विजः । (१६) अनुष्ठानरहितत्वेऽपि शिशुकाले ब्राह्मणत्वस्वीकारे । (१७) यौवनाद्यवस्थायाम् । (१८) अद्विजोऽपि वेदार्थानुष्ठानात् द्विजः स्यात् । (१९) द्विजत्वम् । (२०) वेदार्थानुष्ठानाभावेऽपि । (२१) द्विजत्वम् । (२२) सुगतमतानुसारी । (२३) बहुजनगृहीत एव । (२४) यागादिरूपः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org