________________
७२८ ]
न नित्यो वेदोऽर्थप्रतिपादकः
५१३
स्वभक्तत्वात् । पक्षपातिना किं तेन ? परोऽपि तद्भक्तः समुपलभ्यते । अथ तस्यैव आगम एव; तदपि कुतः ? तेन तदर्थानुष्ठानात् ; अन्येनापि दृश्यते । विप्रोपदेशात्; किन्तेन, यदि मन्त्र एव समर्थं (तमर्थं ) कथयति ।
I
एतेन 'तेन पाठात्तस्येति निरस्तम् ।
यदि पुनः द्विजाराधनातः तं प्रत्येव तत्प्रतिपादनसमर्थो जातः; कथं नित्यः ?
किं च, तदाराधनाक्रमो यदि मन्त्रार्थः; सोऽपि ततोऽन्येनापि प्रतीयते । नो चेत ; पुरुषकल्पितो नाभिमतफलदायी स्यात् अन्यथा किं मन्त्रेण ? 'अथ विप्र एव तद्ग्रहणानुष्ठाने योग्यः, न चैतावता मन्त्रोऽनित्यः, नित्यानामपि आत्मादीनां कार्यनियमदर्शनात्' इति; तन्न सारम् ; यतः स्यादेतदेवं यदि परोपदेशादद्विजस्य तदर्थप्रतिपत्तिर्न स्यात्, ra धूमः, न चैवं ततः तद्दर्शनात् । द्विजस्यापि अपरोपदेशिका न तत्प्रतीतिः ।
किंच, न ताव [ त्] मन्त्रो 'द्विजोऽयम्' इति स्वयं ज्ञात्वा तस्मै स्वसमर्थं (स्वस्यार्थ ) नवदेयति अचेतनत्वात्, अन्यथा आत्मज्ञानकल्पनावैक (फ) स्यम् । नापि 'यस्मादहं ब्राह्मणः तस्मादहं मन्त्रार्थं गृह्णाभि' इति द्विजो जानाति ब्राह्मणत्वप्रतिपत्तेः तस्यापि स्वयमसंभवात् । वेत्तितं प्रति (निवेदितं) चैतद् वर्णै (वृत्तौ) स्वयमेव शास्त्रकृता । ततो मन्त्रं नित्यं प्राकृता [ : ] प्रतिपद्य ेरन् इति । ‘कम्' इति प्रश्ने उ [त्त ] रमाह - तदर्थज्ञोऽयं [सम् ] प्रदायाद् वृत्तते ( वर्तते ) मन्त्रार्थज्ञसम्प्रदायो १५ भावप्रकारेण विशेष्यते तदभिद्यत (?) यतः तत्सम्प्रदायमन्तरेण प्राकृतानां तत्प्रतिपत्तेः मन्त्रो नित्य: ने नातू (स्यात्) [ ४०४क] पौरुषेयात्मत्वात् । नहि परोपदेशापेक्षणे तस्य ततो भेदः ।
५
कारिकां विवृण्वन्नाह-नित्यस्य इत्यादि । न तस्माद् नित्याद् वेदात् इति । कथम् ? इत्याहकथ(अर्थ) मित्यादि । अन्यथा अन्येन ततः तस्य तत्प्रति [ प्रत्ति ] प्रकारेण कथं विप्रतिपत्तिः स्यात् प्रतिव्याख्यात्रि(ट)व्याख्याभेदः स्यात् । नहि स्वयमेव नियतं स्वमर्थं निवदेयति वेते (वेदे ) २० fafa Tera | अथवा, प्रतिपत्त्यभावो विप्रतिप्रत्तिः कथं कस्यचित् स्यादिति चेत् ? तदेक एवार्थः ततः प्रतीयत इ [ति ] नास्ति सा इति; तत्राह - अनेक इत्यादि । वेदस्य पुरुषापेक्षया अनेकस्य नियोगादिं रूपस्यार्थस्य संभवात् कथं स्यादिति ? अथ, याना (यावा) नर्थो वेदात् प्रतीयते स सर्वोऽपि तस्यैव, अन्यथा न कोऽपि स्यादिति चेत्; अत्राह - नित्यस्य इत्यादि । स्वर्गोऽर्थः, तस्य काम्यमानत्वात् * " स्वर्गकाम ः "" इति वचना [त ] तस्मै तन्निमित्तं तत्त्वं २५ (तच्च) यागादि तत् (तम्) तस्मात् कथं प्रतिपत्तुर्महति ? कुत: ? इत्याह- -अनेकार्थसंभवाद् वेदस्य अनेकार्थोऽर्थतत्त्वम्, अन्यथा 'सारमेयमांसभक्षणात् स्वर्गः स्यात् ' एकः 'तस्यार्थ चेत ; अत्राह - कथमित्यादि । अनेकार्थसंभवाभावप्रकारेण अन्यथा |
1
(१) द्विजेन । (२) द्विजस्य । (३) व्याख्यातारं व्याख्यातारं प्रति प्रतिव्याख्यातृ । ( ४ ) निवेदनकर्तृ रि सति । (५) विप्रतिपत्तिः । (६) आदिपदेन भावनाविध्यादिपरिग्रहः । (७) 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यादौ । (८) 'अग्निहोत्रं जुहुयात्' इत्यस्य अग्नि हन्तीति अग्निहः श्वा, तस्य उत्रं मासं जुहुयात् खादेत् इत्यर्थः स्यात् । “तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ । खादेत् श्वमांसमित्येष नार्थ इत्यत्र का प्रमा ॥ " - प्र० वा० ३।३१८ |
६५
Jain Education International
१०
For Personal & Private Use Only
www.jainelibrary.org