________________
५१०
सिद्धिविनिश्चयटीकायाम्
[ ७ शास्त्रसिद्धिः
त्वं व्यतिरेकाऽसिद्धेः । नहि विशेषणमात्रेण तत्सिद्धिः ; अतिप्रसङ्गात् । कथम् ? यदीश्वरस्य स्वपरग्राहिज्ञानं तावतैव सकलप्रयोजनसिद्धिः किमीश्वरेणा वारमलरेण (णाऽवान्तरेण ) ? कथमवस्थानं 'तस्येति चेत्; कुत एतत् ? गुणत्वाद् रूपादिवदिति चेत्; अत एव अस्मदादिज्ञानवत् अस्वसंवेद्नमस्तु । ततो यथा ज्ञानत्वाऽविशेषेऽपि तदेव स्वसंवेदनं [ ४०१ख ] ततो (तथा) ५ "निराधारमप्यत्र ब्रूमहे । क [थ ] मेवं सति तस्य गुणत्वम् ? युगपत् स्वपर ग्रहणस्वभावद्वयवत् क्रमेणाप्यनेकस्वभावसंभवे प्रध्यत्वात् (वोऽस्तु अध्यक्षसिद्धत्वात् ) । अथैकस्वभावेन यथा कारणम् अनेककार्यं तत् तथेदं स्वपर ग्राहकमिति चेत्; न; परं प्रति दृष्टान्तासिद्धेः ।
;
एतेन इदमपि निरस्तम्- ' अनेकस्य परस्येव स्वपरयोरपि तदेकमेव ग्राहकम्' इति तदितरवत् तदपि नात्मवेदनमिति न घटाद्विशेषः ।
१०
स्यान्मतम्-ईश्वरः स्वज्ञानस्य अर्थग्रहणात्मकत्वं प्रत्येति ; तदपि चिन्त्यते - गृहीतस्य, इतरस्य वा ? न तावदितरस्य ' ; इदंतया नेदन्तया वा तस्य व्यवस्थापित्तमश न्तो (स्थापयितुमशक्तः) ज्ञानकल्पनावैफल्यापत्तेः । गृहीतस्य इति चेत्; द्वितीयज्ञानाभावान्न युक्तमेवतत् ( मेतत् ) । भावे वा नित्यमेकत्राकम्, अनवस्थान (नं) च विज्ञानं प्रसज्येत ।
स्यान्मतम्–“तस्य ज्ञानद्वयमस्ति - एकं स्वतोऽन्यस्य " सर्वस्य" वेदकम्, "अपरं तस्येति; १५ तन्न ; यस्मादेकत्र यावदो (यावद्) द्रव्यभाविनः सजातीयस्य युगपद् गुणद्वयस्याऽयोगात् अन्यथा घटादौ यद्वयं (रूपद्वयं) तथा भवेत् । " अन्योऽन्यसंश्रयश्चात्रोक्तः । अथ महेश्वरः तज्ज्ञान ( नं) स्वयमेव तथा प्रत्येति ; बहिरर्थमति (मपि ) तथेति व्यर्थं सर्वत्र ज्ञानकल्पनम् । तथा प्रतिपद्यमानमात्मानं न चेदीशः प्रतिपद्यते ; कुतस्तेन तत्परिच्छेद [ : ] ? तदास्ति (तदस्ति) त्वं वा [ स्वयं ] प्रतिपद्यते चेत्; एकस्य स्वपरा [व] भासित्वम् । अ [त]श्चेत्; अनवस्थानम् । तन्नेश्वरज्ञानं २० घटाद्विशिष्यत [ ४०२क ] इति न ज्योतिर्ज्ञानादौ प्रमाणम् ।
[वैशेषि] कस्यापि चिन्तितम् - तस्य अचेतना बुद्धिः परोक्षः पुमानिति ।
सुगतज्ञानं तत्र प्रमाणमिति चेत्; यदि तत् सकलभेपानकारि ( भेदानुकारि ;) कथं क्वचिदप्येकान्तसंभवः ? तत एवोच्यते - न वै ( चै ) कान्तवादिनामिति । प्रत्याकारं भेदे ; नैकः सुगतः ? तदाकारयितुः तेनादर्शनात् नापि सर्वज्ञः । कथत्या ( कथमयं ) स्वमेकमनेकाकारं स्वयं २५ प्रतिपद्यमानः “परं निसंक्षणिकंधुवं (निरंशं क्षणिकं ब्रुवन् ) स्वस्थः ? निराकारं चेत्; तथैतत् " सर्वस्येति न युक्तम्
*“अर्थेन घटयत्येनां“ नहि भज्ञ ( नहि मुक्त्वाऽ) र्थरूपताम् ।" [प्र०वा० २।३०५] "इत्यादि ।
(१) मध्यवर्तिना । (२) ज्ञानस्य । ( ३ ) ईश्वरज्ञानमेव । ( ४ ) ईश्वरं विनापि तज्ज्ञानं निराश्रयमेव भवतु । (५) द्रव्याश्रयिणः एव गुणत्वं भवति न तु निराधारस्य । ( ६ ) करोति । (७) जैनेन तस्यापि अनेकस्वभावस्वीकारात् । (८) ईश्वरज्ञानमपि । (९) अगृहीतस्य । (१०) ईश्वरस्य । (११) स्वभिन्नस्य । (१२) अर्थजातस्य । (१३) द्वितीयं ज्ञानम् अर्थग्राहिज्ञानं वेत्ति । (१४) द्वितीयेन ज्ञातं सत् प्रथमज्ञानमात्मसतां ख्यापयेत्, ख्यापितात्मसत्ताकञ्च प्रथमं द्वितीयेन ज्ञायेत इति । ( १५ ) बौद्धः । (१६) बाह्यार्थम् । (१७) निराकारत्वम् 1 (१८) बुद्धिम् । (१९) “ तस्मात् प्रमेयाधिगतेः साधनं मेयरूपता ।" इत्युत्तरार्धः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org