________________
७१२७]
स्याद्वादश्रुतमविसंवादि इत्याह-ज्योतिर्ज्ञानादिकम् । किंभूतम् ? इत्याह-अपरोपदेशम् अविद्यमानपरोपदेशे (शं) साक्षादसौ 'तत्प्रतिपद्यत । अपि तु अन्यतः तत्साक्षात्कारिण इति भावः । ज्योतिर्ज्ञानादिप्रति[पत्ति]यतः तस्य तत्प्रतिपत्तेः स्याद्वादमन्तरेणाप्पुपपद्यत । यत इति वाऽऽक्षेपे न चेति । किंकुर्वन्नसौ कथं तत् प्रतिपद्यत ? इत्यत्राह-अलक्षयन् अनवधारयन् । क ? बहिः । किम् ? इत्याहअर्वाग्भाग इत्यादि । अर्वाग्भागादीनां द्वन्द्वः पुनः तेषाम् आदिशब्देन बहुव्रीहिः विवर्ना ५ (विवर्ता) स्तदर्थाः तेष्वेकम् अभिन्नं यद् द्रव्यं तदिति । पुनरपि किंभूतम् ? इत्याह-दृश्यत्यादि । दृश्यादिरेकं प्रधानं रूपं स्वभावो यस्य तत्तथोक्तम् । पुनरपि क किमि[ति] लक्षयन् ? इत्याह-अन्तश्चेत्यादि । किंभूतम् ? इत्याह-व्यावहारिकम् इति । दूषणान्तरं दर्शयन्नाहन च इत्यादि । न च नैव एकान्तवादिनां वैशेषिकादीनां अत्र भाविनि जाति (ज्योतिा)नादौ प्रमाणमस्ति । कथमिति चेत् ? उच्यते-अत्र न तावत्प्रत्यक्षमैन्द्रियम् ; तेन इन्द्रियसंसर्गा- १० भावात् । नहि असता भाविना इन्द्रियसंसर्गः, अतिप्रसङ्गात् । तत्संसर्ग च (र्गाच्च) परस्य 'तत्प्रत्यक्षम् *"आत्मा मनसा युज्यते तद् इन्द्रियेण तदप्यर्थेन" [न्यायम० पृ० ७४] इति वचनात् । एतन्मानसमपि तदत्र निरस्तम् ; तदपि आत्ममनःसंयोगसहचारिणाऽर्थेन जन्यते । न च पूर्वतत्संयोगकाले सोऽस्ति ; भा[वित्व]विरोधादिति । एवत (एव) तन्मनसापि भावि भविष्यति सः, न तदा संसर्गः प्रा (प्र)कृतस्याप्यस्ति । परम्परासत्यत्वेऽप्यसता कीदृशः १ १५ सत्त्वात् ] कथं [४०१ क सर्वस्य तत्र ज्ञानं न जनयेत् ]घटः ? तदग्रहणात्मकत्वात् । कुत एतत् ? अबुद्धित्वादिति चेत् ; एतदपि कुतः ? अर्थग्रहणात्मकत्वात् ; अन्योऽन्यसंश्रयः, तथाहि-घटादेरबुद्धित्वे तदग्रहणात्मकत्वम् , अतोऽबुद्धित्वमिति । अथ घटग्राहिणा प्रत्यक्षेण स तद्ग्रहणविमुखः प्रतीयते ततोऽयमदोषः ; किं पुनर्नित्येश्वरज्ञानं तद्ग्रहणाभिमुखं प्रतीयते ? न चेत् ; कस्तस्य घटाद् विशेषः ? प्रतीयत इति चेत् ; न स्वयम् , अस्वसंवेदनात्मक- २० त्वात् अन्यथा परमतसिद्धिः । "तस्यैव "तत्तथेति [चे]त् ; किमेतद् ईश्वरचेष्टितम् ? तत्र यथा नित्यज्ञानं "तस्यैव नेतरस्य, तथा स्वसंवेदनमपि कुतोऽयं विभागो लभ्यते ? नोकधर्म (मेण)वैलक्षण्ये सर्वैरवि (पि) तथा भवति, अन्यथा तयोर्ज्ञानत्वादिनाऽपि वैलक्षण्यं भवेत् । अथ तेन' "तयोर्न विरोधः ; स्वसंवेदनेनापि न विरोधः ।
अथ इतरज्ञानस्य स्वसंवेदनप्रतिज्ञा अनुमानेन बाध्यत इति विपध (विरोधः) तथाहि- २५ 'अनीश्वरज्ञानं ततो भिन्नेनैव ज्ञानेन वेद्यते ज्ञेयत्वात् पटादिवत्' इति चेत् ; ईश्वरज्ञानेन हेतोर्व्यभिचारः" । यदि पुनः 'अनीश्वरज्ञानज्ञ यत्वात्' इति विशिष्य उच्यते ; तथाप्यगमक
(१) ज्योतिर्ज्ञानादिकम् । (२) इन्द्रियसंसर्गात्। (३) नैयायिकस्य । (४) इन्द्रियप्रत्यक्षम् । (५) "तच्चेदं प्रत्यक्षं चतुष्टयत्रयद्वयसन्निकर्षात् प्रवर्तते । तत्र बाह्ये रूपादौ विषये चतुष्टयसन्निकर्षाज्ज्ञानमुत्पद्यतेआत्मा मनसा युज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति । सुखादौ तु त्रयसन्निकर्षात् ज्ञानमुत्पद्यते, तत्र चक्षुरादिव्यापाराभावात्..."-न्यायम० । “उक्तं च-आत्मा सहैति मनसा मन इन्द्रियेण ..."-बृहत्सं० ७४।३ । (४) मानसप्रत्यक्षम् । (७) घटः । (6) अर्थग्रहण । (९) ईश्वरज्ञानस्य स्वसंवेदनात्मकत्वे । (१०) ईश्वरस्यैव । (११) ज्ञानं स्वसंवेदि । (१२) ईश्वरस्यैव । (१३) ज्ञानत्वादिना । (१४) ईश्वरज्ञानअस्मदादिज्ञानयोः। (१५) तदपि ज्ञेयं न च ज्ञानान्तरवेद्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org