________________
सिद्धिविनिश्चयटीकायाम्
[ ७ शास्त्रसिद्धिः
किंच, तत्कर्म अचेतनं मूर्त्तमभ्युपगन्तव्यम् । कथमन्यथा देशान्तरस्थद्रव्याकर्षकम्, यतो विशेषादृष्टाकृष्टपरमाण्वारब्धं शरीरं स्यात् ? मूर्त्ता यदहय ( एव ) यस्कान्तादयस्तुयदा (दयोऽयसा) कृष्टितवो दृष्टा नात्मादयः, इतरथा आत्मन एव तत्सिद्धेः किं कर्मकल्पनया ? तद्विशेषोपपत्तेः नाऽविशेषकल्पनापि ।
५०८
;
यदि मतम् - अमूर्तोऽपि मन्त्रः तदाकृष्टिहेतुः अतो व्यभिचार इति ; न ; शब्दस्य मूर्त्त - त्वात् । ध्यानेनानेकान्त इति चेत्; न; तस्य मूर्त्तकर्म वेत्सि (विशिष्टस्य) तत्त्वात्', अन्यथा आत्मैव तद्धेतुः इत्युक्तं स्यात्, तत्र च उक्तो दोषः । प्रयत्नेन इति चेत्; न कर्मविशिष्टात्मप्रदेशत्व (शस्पन्द ) व्यतिरेकेण परं प्रति 'तदसिद्ध: । न च प्रयत्नस्य केवलस्य तद्धेतुत्वम् तदभावेऽपि तद्भावात् । ततो मूर्त्तमेव तदभ्युपगन्तव्यमिति कथं नाभिमतं परस्य न सिध्यति । १० तत्कुयेवा (तत्क्षये चा) नुमानम् दे वा ग मा द वगन्तव्यम् ।
;
ततोऽविसंवादि तत् श्रुतमिति । केष्विव ( ष्विव ? इत्याह-ज्योतिर्ज्ञानादि - वदिति । [ ४०० क ] ज्योतिर्नक्षत्रादिज्ञानम् चिन्ता सुखदुःखादि तदादिर्येषां न (द) दृष्टादीनां तेष्विव तद्वद् इति ।
कारिकां व्याख्यातुमाह- सर्वथैकान्त इत्यादि । सकलस्य कर्मणः क्षयेण नाभ्यास१५ सा[पे]क्षेण विशिष्टादृष्टमात्रेण अनेन (अन्येन ) वा प्रतिलब्धोऽयम् आत्मस्वभावोतन्न (वः स च)ज्ञानादिलक्षणः स एव कैवल्यं तद् भविष्यति [ इति ] एवं सुनिश्चितं नश्चेतः । केन ? इत्याह- सम्यग्दर्शनेत्यादि । तदपि केन ? इत्याह- सर्वथैकान्त इत्यादि । मृष्टार्थमेतदसकृत् ।
स्यान्मतम्-अध्यक्षादिबाधितेयं प्रतिज्ञेयं तत् कैवल्यमस्तु इति ; तत्राह - नहि इत्यादि । २० तदभावे कैवल्याभावे न प्रमाणमस्ति । विचारितमेतत् सर्वज्ञसिद्धौ । पर आह- भाव इत्यादि । तं प्रति उत्तरमाह-श्रुतेत्यादि । न खलु ज्ञानविशेषमन्तरेण अनुपदेशमलिङ्गमविसंवादं श्रुतज्ञानं संभव (वे) दिति । ष (षट्प) दार्थादिश्रुतज्ञानं तद्विपरीते प्रमाणमिति चेत्; अत्राह - तत्प्रत्यनीकेत्यादि । तस्य उक्तकैवल्यस्य प्रत्यनीकं यत् तस्य साधनस्य सिद्धेः स्याद्वादेन निराकृतत्वात् । श्रुतज्ञानस्य वा तद्भावे (सद्भावे) श्रुतज्ञानं ब्रूम इति । [त]त्प्रत्यनीकसा२५ धनस्य तदभावसाधनस्येति कस्मान्न व्याख्यायत इति चेत् ? न ; 'श्रुतज्ञानं ब्रूमः' इत्यनेन तन्निरासात् । नहि तदभावे 'सर्वत्र सर्वका [लं ] सर्वज्ञे (ज्ञो) नास्ति' इति वचनमविसंवादि संभवति। " तत् नापौरुषेयम् ; निषेत्स्यमानत्वात् ।
ननु स्याद्वादाभावात् कथं तेन कस्यचिद्बाधनमिति चेत्; अत्राह - दृश्येत्यादि । सुगतोऽन्यो वाकण च रा दिः स्वयम् आत्मना [४००ख] कथं न कंचन (कथंचन) प्रतिपद्येत । किम् ?
(१) तदाकृष्टिहेतुत्वात् । (२) व्यभिचारः (३) जैनं प्रति । (४) प्रयत्नस्यासि: । (५) अपि तु सिध्यत्येव । (६) " दोषावरणयोर्हानिः निःशेषास्त्यतिशायनात् । क्वचिद् यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः ॥” - आप्तमी० १।४ । (७) आप्तमीमांसायाः अपरनाम देवागमः । (८) वैशेषिकाभिमत । ( ९ ) श्रुतज्ञानाभावे । (१०) श्रुतम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org