________________
७।२७ ]
स्याद्वादश्रुतमविसंवादि स्वात्मनि प्रत्यक्षस्य अपरत्रानुमानस्य तदनाद्यनन्ततयोश्च प्रमाणान्तरस्य वृत्तेरुक्तत्वात् । कर्मबन्धे' च, तथा नि (तथा हि-) स्वभावशुद्धस्य आत्मनः शरीरे अशुचिनि सरावस्थानं (सदावस्थान) तस्य तत्र स्थापकतत्संबंध (त्सम्बद्ध) पुद्गलविशेषपूर्वकं तत्त्वात् गाढनिगडनिबद्धस्य सावोवि (साधोरिव)। कारागारे अन्यतस्तत्र तस्य प्रवेशो वा तत्पूर्वकः तत एव, मत्रस्याश्च वि (मत्तस्य अशुचि)पूर्णगर्तप्रवेशवत् । व्याप्तिज्ञानं वा साधारणं (सावरणं) स्वविषये[5] स्पष्टत्वार (त्) [३९९ख] ५ रजोती (नी) हाराद्यन्तरिततापि (तर्वादि) ज्ञानवत् । मिथ्यादृशाम् अनेकान्ते नित्याद्यकान्तज्ञानम् आवरणवत् अतस्मिंस्तद्ग्रहात्मकत्वात् मदिराद्युपयोगिनः स्थिरभूते भ्रमणानुभववत् । वासनादिनिषेधात् । तथा आस्रवे; तद्यथा-चेतनस्य जीवस्य सतोऽभिरतिसहितं शरीरादिष्ववस्थानं तदभिलाषाद्युपात्तपुद्गलविशेषपूर्वग (क) तत्त्वात् अङ्गनाङ्गाभिरत्यभिलाषोत्पत्तौ (त्पत्त्युपयुक्तौ) षधविशेषस्य कामुकस्य तदङ्गस्था[न]वत् । तदभिलाषो वा तदवस्थाननिमित्तम् आत्मनि १० पुद्गलमवस्थापयति योषिदङ्गाभिव (भिर)त्यभिलाषवदिति । एवमन्यत्रापि वक्तव्यम् । तदुक्तमत्रैव*"शुभाशुभैर्यथाम्य (स्व)मास्रवैः स्वैः' [सिद्धिवि० ४।९] इत्यादि।
ननु कस्यचित् तदौषधाभावेऽपि तदङ्गे तथावस्थानं दृष्टमिति चेत् ; न ; तस्यापि पक्षीकृतत्वात् न तेन व्यभिचारः। तदपि तथाविधकारणपूर्वकम् , अन्यथा सर्वस्य सर्वत्राङ्गनाङ्गे तत्स्थानं भवेत् । न चैवम् , स्वाङ्गनायामपि कस्यचिद् वैमुख्यदर्शनात् । नु (न तु) रूपादयोऽपि १५ व्यभिचारो नोत्तरं (चारात् । अतः) तस्यां तत्रापि तथाविधं किञ्चित् कारणमिति ।
स्यान्मत (तम्-) तदभिलाष[:] स्वस्य अत्र तु तदवस्थाननिमित्तं पुद्गल (लं) कारणम् , नावश्यं कारणानि कार्यवन्ति भवन्ति । नहि अङ्गनांद्वे (नाङ्गे) तदभिलाषः सर्वोऽपि तदवस्थाननिमित्तं योगमात्मसात्करोति इति; तन्न सारम् ; उक्तत्वात्-*"कार्य च नानुमेयं च" [सिद्धिवि० ७।२४] इत्यादि । किञ्च,
स्वभावानुपलब्धिष्व(श्च) व्यवहारे कथं [भवेत् ] । लिङ्ग सं(सत् ) योग्यताया च (श्च) व्याभिचारो न किं स्वतः ॥ उपलभ्यानुपम्भवत् (श्चेत्) केवलस्तस्य कारणम् । विषयामिषलो (याभिलाषः) कोऽपि भवबीजस्य कारणम् ॥
२५ [३९९ ख] कचित् दृष्टस्य तस्यास्तु विपरीते परत्र तु।
प्रकृतेव्यौषधितस्य (तेऽप्यौषधेस्तस्य) केवलस्यैव हेतुता ॥ ननु तदभिलाषो यावद् अन्यस्य कर्मण[:] कारणं तावन्न तदवस्थानस्यैव इति चेत् ; न ; तस्मिंश्चिरविनष्टे कार्यानुदयप्रसङ्गात् । एतेन योगादेः कर्मत्वं निषिद्धम् । प्रयत्नसधर्मा आत्मविशेषगुण [:] तत्साध्यः कर्म इति चेत् ; न ; प्रयत्नवत् पुद्गलविशेषसम्बन्धेऽपि देवदत्तं ३० प्रति योषिदाद्युपसर्पणदृष्टेः तत्सधर्मताऽसिद्धेः ।
(6) सन्तानान्तरे । (२) अनुमानप्रमाणस्य प्रवृत्तिः। (३) विपरीतत्वादित्यर्थः। (४) प्रमाणान्तरस्य प्रवृत्तिः । (५) अङ्गनाघभिलाषः । (६) ग्रन्थे चतुर्थपरिच्छेदे । (७) तन्निमित्तम् । (८) अष्टम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org