________________
५०६
सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धि ननु निरंशमेव सु (सं) विदां स्वरूपमाभाति न क (त)दाकार इति चेत् ; अत्राहसर्वथेत्यादि । मोक्षः संसारं नातिशेते मोक्षसंसारयोरविशेष इति यावत् । *"ग्राह्यं न तस्य" इत्यादिवचनात् आत्मसंवेदन (ने) नैकान्तिकं मोक्षः, तच्च संसारेऽविशिष्टमिति भावः ।
अन्येषां दर्शन (नम्-) न संसारो नामास्ति अनुनु (?) कल्पनायाम् इति; तेषां ५ चित्रैकसंवेदने तंदने (?) तदप्रतिषेधः, इतरथा सकलशून्यतेति न मोक्षो नाम इत्युक्तम् । अस्मिन् दर्शने परमपि दोष परस्य दर्शयन्नाह-कथं च इत्यादि । च शब्दो दूषणान्तरद (रं दत्त)मिति प्रदर्शने । कथमुपादेयं न कथञ्चित् । किम् ? इत्याह-दुःखसंवेदनं दुःखं संसारिणः स्कन्धाः, तेषां संवेदनं ग्रहणम् । किंभूतम् ? परिस्फुटं विशदम् । किन्निमित्तम् ? इत्याह-तद्भावनाप
रिनिष्पत्तौ दुःखभावनासमाप्तिनिमित्तम् , निमित्तलक्षणेयं सप्तमी । कथन्नोपादेयमिति चेत् ? १० उच्यते-सर्वथा विभ्रमविवेकनिर्मलत्वं (त्वे) सर्वचेतसां न [३९८ख] किञ्चित् क्वचिदिदं (दम)परिस्फुटं ज्ञानं यद् भावनापरिनिष्पत्तौ परिस्फुटं स्यात् । न चात्मसंवेदनैकान्ते दुःखसंवेदनं नामेति । यतः तदुपादेयत्वा[त् ] चित्तमेव परिस्फुटं भावतः स्यात् , नैव भवेत्।
[स्या]न्मतम्-रागाहि (दि) क्लेशविनिर्मुक्तिः भवान्तः, सा च दुःखसंवेदनस्फुटतेति वे (चेत् ; इ)त्याह-न चेत्यादि । न च नैव रागादिक्लेशनिवृत्तिः स्फुटतैव दुःखसंवेदनस्य । १५ अत्र निदर्शनमाह-क्कोमे (कामे) त्यादि । अत्र स्पष्टतायामपि विभ्रमक्लेशभावादिति भावः ।
ननु कामशोकादिषु स्विष्ट (स्पष्ट)ता विकल्पे (ल्प)मात्रभावना[तः] उद्भवति (न्ती) भ्रान्तायुक्ता, न दुःखसंवेदनस्य स्पष्टता अर्थसम्बन्धानुमानमूलत्वादिति वेश (चेत् ; अ)नुमानाभ्यासे तद्विषये एव सामान्ये स्पष्टता न स्वलक्षण इत्यनिवृत्तेः । नहि चित्राभ्यासे धनुषि
कर्मणः स्पष्टाद् (स्पष्टता; इत्याह-) आस्रवसंवरनिर्जरादिषु श्रुतं प्रमाणं स्यात्कार२० लाञ्छनमविसंवादि ।
[प्रमाणमविसंवादि श्रुतं स्यात्कारलाञ्छनम् ।
ज्योतिर्ज्ञानादिचिन्तासुखदुःखाद्यदृष्टवत् ॥२७॥ सर्वथैकान्तविश्लेषात् सम्यग्दर्शनादिना सकलकर्मक्षयेण प्रतिलब्धात्मस्वभाव एव कैवल्यं भविष्यतीति सुनिश्चितं नश्चेतः । न हि तदभावे प्रमाणमस्ति । भावे किम् ? २५ अनुपदेशमलिङ्गमविसंवादं श्रुतज्ञानं ब्रूम इति। तत्प्रत्यनीकसाधनस्य स्याद्वादेन निराक
तत्वात् । स्वयं बहिरन्तश्च अर्वाग्भागमध्यपरभागादिविवतैकद्रव्यं दृश्याघेकरूपं व्यावहारिकमलक्षयन् ज्योतिर्ज्ञानादिकमपरोपदेशं कथं प्रतिपद्येत ? न चैकान्तवादिनामत्र प्रमाणमस्ति । श्रुतेरतद्विषयत्वात् ।]
स्यान्मतम्-अविसंवादस्तत्र प्रमाणान्तरवृत्तिः, न च सा जीवादावस्ति इति; तन्न युक्तम् ;
(१) 'तदने' इति ब्यर्थम् । (२)"दुःखं संसारिणः स्कन्धाः"-प्र०वा० १।१४९ । रूपवेदनाविज्ञानसंज्ञासंस्काराख्याः पञ्च स्कन्धाः । (३) भ्रान्ता । (४) अत्र पाठस्त्रुटितो भाति । (५) प्रमाणान्तरप्रवृत्तिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org