________________
निरंशचित्ते न उपादेयेतरस्थितिः
;
स्यान्मतम्–कस्य [३९७ ख ] चिद्रसायनादेः सेनावनाभो ( सेवनतः) देवतानुग्रहाद्वा तस्य मरणं न भविष्यति शृङ्गं रो (वो) देष्यतीति संभावना यदा तदा संशीति [रिति ] चेत् अत्राह - प्रवृत्ये [त्तोऽ] यमित्यादि । विशिष्टाऽरिष्टदर्शने मरणं तदि (भविष्यति न तत्र कुश्चित् प्रतिबन्धः संभवति इत्ययं व्यवहारः प्रसिद्ध:, अन्यथा सर्वत्राऽनुमानविलोपः । तथा प्रा (प्र) कृतपुरुषमस्तके शृङ्गे ( ) न भविष्यती व (तीति च ) प्रवृत्तोऽयं व्यवहारः, इतरथा ५ दृष्टे उदनावपि (ओदनादावपि ) कुतश्चित् कण्टकादु (बु) देष्यतीत्याशङ्कायां न कस्यचित् प्रवृत्तिः स्यात् नेदानीं प्रवर्त्यत इति ।
नुं प्रतिभासाद्वैतस्य स्वसंवेदनाध्यक्ष सिद्धस्य भावान्न हेयोपादेयतत्त्वं तदुपायो वा, नापि तत्र संशीतिः निर्णीतिर्वा ततोऽयमदोष इति चेत्; अत्राह - प्रत्यक्षेत्यादि ।
७।२६ ]
[प्रत्यक्षैकान्तचित्तानां कोपादेयेतरस्थितिः ।
संविदां विभ्रमः सिध्येत् स्याद्वादेन विना कथम् ||२६||
५०५
कथञ्चित् संविदां विभ्रमेऽपि आत्मसंवेदनं प्रत्यक्षमभ्रान्तमिच्छन् स्याद्वादमनुवर्तेत । सर्वथा मोक्षः संसारं नातिशेते । कथञ्च तद्भावनापरिनिष्पत्तौ दुःखसंवेदनं परिस्फुटमुपादेयम् ? सर्वथा विभ्रमविवेकनिर्मलत्वे न किञ्चित् क्वचिदिदमपरिस्फुटं ज्ञानं यत् परिस्फुटं स्यात् । न च रागादिक्लेशनिवृत्तिः दुःखसंवेदनस्य स्फुटतैव काम] १५ एकोऽन्तो धर्मो यस्य तच्च तच्जिन्नं ( तच्चित्तं ) च निरंशचित्तमित्यर्थः । प्रत्यक्षं स्वसंवेदनवेद्यम् एकान्तचित्तं येषां सौगतानां तेषां कोपादेयेतरस्थितिः ? उपादेयः प्रतिभासाद्वैतलक्षणो मोक्षः तस्य परेण मोक्षत्वोपगमात्, तदुक्तम्
१०
"
*“यद्यद्वैतेन तोषोऽस्ति मुक्त एवासि सर्वथा ।" [प्र० वार्तिकाल० पृ० ५७ ] इति । २० इतरो हेयो भेदः तयोः स्थितिर्व्यवस्था का ? न काचित्, तन्निबन्धनप्रमाणाभावात् । न हि निरंशचित्तम् अन्यद्वा अनुभूयते, स्थूलनीलादिवेदनात् यद (यत ) स्तदुपादेयम् । (नापि ) भेदबाधक (कं) येन सं हेयः प्रथ ( थे ) त । देवान्वयं ( नन्वयं) भ्रान्त्या तथा न भासते; तत्राह - विभ्रम इत्यादि । विभ्रमो भ्रान्तिः स्थूलादिप्रतिभासरूपः संविदाम् ऐत्त्यावार्थ (ऐक्याभावार्थं) बहुवचनम्, सिध्येत् स्याद्वादेन विना कथं सर्वथा विभ्रमे [३९८क] २५ तद्योगात् । नहि विभ्रमादेव विभ्रमसिद्धिः बहिरर्थवत् कथञ्चिदेकान्तसिद्धिः ।
Jain Education International
कारिका (कां) व्याख्यातुमाह- कथञ्चिदित्यादि । कथञ्चित् स्थूलग्राह्याकारेण न स्वसंवेदन (ना) कारेण विभ्रमेऽप्यङ्गीक्रियमाणे संविदां न केवल [म] विभ्रमे स्याद्वादमतीष्ठ - (मनिष्ट) मनुवर्त्तित ( वर्तेत ) । कः ? इत्यत्राह - आत्मसंवेदनं प्रत्यक्षमभ्रान्तम् इच्छेत् ( इच्छन् ) सौगतः इत्यर्थः । ततः स्वसंवेदनपरिहारेण स्थूलाकार एव विभ्रममभ्युपगच्छन्त ३० (च्छन्) सत् (तत्) संख्यादिकं निराकरोति इति कथं स्वस्थः ?
(१) प्रतिभासाद्वैतवादी प्राह । (२) अनुभूयते । (३) भेदः ।
६४
For Personal & Private Use Only
www.jainelibrary.org