SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ५०४ सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धिः भविष्यत्योरिति वचनपरिणामेन सम्बन्धः कार्यः । संसारकारणे संसारे तदभावे व (च)भाविनि प्रमाणाभावादिति भावः । कुत एतत् ? इत्यत्राह-रसादित्यादि । भूतश्च एककालश्च तयोनियमात् 'प्रमाणस्य' इत्यध्याहारः । परप्रसिद्ध निदर्शनमाह-रसाद् इत्यादि । ननु दृश्याद् रूपात् प्राप्ये भाविनि रूपादौ रेण (परेण)प्रमाणमिष्यते एव, तत्कथं निदर्श५ नमिति चेत् ? उक्तमत्र । किंच, कथमस्मिन् दर्शने भूतैककालस्य रूपादेः कुतश्चिह (द्र)तिः, अप्रतिबन्धानु (त्) यत इदं सुभाषितम्-*"भूतैककालानां गतिः" इत्यादि । यदतीतं कारणं तदपेक्षमिदमिति चेत् ; [३९७क] यदि तन्न कस्यचित् प्रवृत्तिविषयः किं तेन ? तं वि (तद्वि)षयश्चेत् ; न भातेन (भूतेन) भाव्यम् । अथ भावि भूतं चैककार्यमिष्यते ; न ; भिन्न जाला (काला) नाम् एकत्र सहकारित्वाभावात् , तथा[s]व्यवहारात् चरमक्षणाभावश्चेति १० यत्किञ्चिदेतत् । यदि मतं भविष्यतोऽपि कारणं (णात) गतिरिति चेत् ; तत्राह-नावश्यमित्यादि । भवतां तर्हि कथं नेदं चोद्यम् ? इत्याह-एकलक्षणेत्यादि । कुत एतत् ? इत्यत्राह-यन्नोपपद्यत इत्यादि । [यन्नोपपद्यते यस्मिन्नेष्यति चानुदेष्यति । तल्लिङ्ग लोकतः सिद्धमविनाभावैकलक्षणात् ॥२५॥ कर्मफलसम्बन्धतत्कारणादिकं प्रशस्तपण्डितवेदनीयम् अरिष्टं तथा लक्षणं कृतम् , यथा अहं मरिष्यामि, प्रकृतजनमस्तके शृङ्ग नोदेष्यतीति च, अत्रापि संशीतिरवतरति । प्रवृत्तोऽयं व्यवहारः इतरथा दृष्टेऽपि कुतश्चिदाशङ्कायां न कस्यचित् प्रवृत्तिः स्यात् । यसुनः (यत् पुनः) कारणस्य अन्यस्य वा रूपं नोपपद्यते न घटते यस्मिन् कार्या२० भिमते अन्यस्मिन् वा शकटादौ । कस्मिन् ? इत्याह-एष्यति भविष्यति । किंभूते तस्मिन्नो पपद्यते ? इत्याह-अनुदेष्यति अनुत्पत्स्यमाने । च शब्दोऽवधारणे । तद्र पंलिङ्ग सिद्धम्। कुतः ? इत्याह- लोकत इति । तदपि कुतः ? इत्याह-अविनाभावेत्यादि । ___कारिकार्थं 'न केवलं परस्य हेयोपादेयतत्त्वे सोपाये संशीतिरपि तु लोकव्यवहारेऽपि' इति दर्शयन्नाह-कर्म च फलं च तयोः सम्बन्धश्च ते आदयो यस्य तत्तथोक्तं तत्कारणादि२५ कम् । किंभूतम् ? इत्याह- [प्रशस्त] पण्डितेत्यादि । प्रशस्तपण्डितवेदनीय(य)तत्किम् ? इत्याह-अस्तं विष्टं(अरिष्ट) नु(न तु) मनुष्येणापण्डितरूपेण, तथा लक्षण(ण)रूपं कृतं निश्चितं यथा येन निश्चितलक्षणप्रकारेणाहं मरिष्यामि, अनेन भाविनि मरणेऽरिष्टादेरकार्यस्वभावस्यापि गमकत्वमाह व्याजनमन (प्रकृतजन)मस्तके शृङ्ग नोदेष्यति इति च तेन लक्षणं कृतम् , अनेन च स्वभावानुपलब्ध्यादेरपि भविष्यति शृङ्गोदयाभावे, परस्य अत्रापि न ३० केवलं परलोकादौ संशीतिरवतरति । () द्विवचन । (२) "अतीतैककालानां च गतिर्नानागतानाम्"-प्र. वा. स्व. पृ० ४९ । (३) कृत्तिकोदयस्य हेतोः। (४) शकटोदयादौ साध्ये । (५) दर्शयन् कारिकार्थमाह इति अन्वयः । (६) भाविनि । (७) 'गमकत्वमाह' इति सम्बन्धः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004039
Book TitleSiddhi Vinischay Tika Part 02
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1959
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy