________________
७२४ ]
समग्रं कारणं हेतुः
५०३
भावि वा कारणमपि तथा प्रत्यक्षं किन्न स्यात् ? 'खलविलान्तर्गतमन्यथापि दृश्यते इति चेत् ; कार्यमपि तथा दृश्यत एव । तथाहि शब्दादेर्दृश्यस्य सतोऽनन्तरभाव्यपि [३९६ क] कार्यं . नावश्यं दृश्यम्, तदभावेऽप्युक्तम् । यस्य तु व्यवहितमपि कारणम् तं प्रति सुपरिहारमिदम् ।
किंच, यथा दृष्टान्तस्मरणाभावेऽपि कार्यादेर्गमकत्वं तथा यदि कारणस्यापि, अनर्थकत (कं) चोद्यम् । अथ [त] दपि नेष्यते ; तर्हि निरवकाशमिदम् - * " तद्भावहेतुभावौ हि" [प्र० ५ वा० ३।२६] इत्यादि । अथ तथापि न कारणस्य गमकत्वम् ; न उपादेयतत्त्वाप्रतीतेः । एतेन उपायप्रतीतिरपि चिन्तिता, कार्याऽपरिज्ञाने कारणापरिज्ञानात् ।
;
१
कारिकां विवृण्वन्नाह-प्रवृत्तीत्यादि । प्रवृत्तिकामः । कः ? इत्याह- प्रेक्षावान् । किं कुरुते ? इत्याह-अन्वेषते । किम् ? इत्याह- हेयोपादेयतत्त्वम् । किंभूत [म् ?] इत्याहसोपायं सकारणम् । न प्रवृत्तिकामतदद्वेषते (कामस्तदन्वेषने) अपि तु आयनेन इति नेर, अत्राह-न व्यसनेन, अप्रेक्षावत्ताप्रसङ्गादिति मन्यते । भवत्वेवं को दोष इति चेत् ? अत्राह - नच ( तच्च) इत्यादि । तच्च हेयोपादेयतत्त्वम् । किंभूतम् ? इत्याह- अनागतविषयं भाविकाल - योरम् (योग्यम्) अप्रमाणम् अविद्यमानप्रमाणं भाविनि प्रमाणाभावादिति । एतदपि कुतः ? इत्याह- समग्रेत्यादि । एतदपि कुतः ? इत्याह- प्रतिबन्धेत्यादि । ततः किं जातं परस्य इत्याहतदर्थेत्यादि । तत् तस्माद् उक्तान्न्यायाद् अर्थो मोक्षः तत्कारणं च अनर्थः संसारः तत्कारणं १५ च तयोः इदंतया [अर्थतया नेदंतया अ] नर्थतया वा प्रमातुमशक्यत्वात् कारणात कथमर्थे मोक्षादौ प्रवर्त्तेत परः । किंभूते । इत्याह- सन्दिग्ध (ग्धे ) तिवर्ततेया (निवर्तेत वा अ ) नर्थे संसारादौ सन्दिग्धे सति तस्मादिदमपेक्षम् (क्ष्यम्) ।
स्यान्मतम् - अर्थो मोक्षः साकान्तद्धेतु ( स कामं तद्धेतुश्च) अतीन्द्रियत्वादस्तु [३९६ ख ] सन्दिग्धः, अनर्थः पुनः संसारः तत्कारण व पिपर्ययावत् ( - णं च विपर्ययात्) कुतः सन्दिग्ध २० इति चेत् ? अत्राह - स्वेय (स्वयं) मयोनिसो (शो) मनस्कारेऽपि इत्यादि । अ (यम) भिप्राय:न खलु संसारः कण्टकवद् उद्धर्त्तं शक्यः सति कारणे पुनः प्रवृत्तेः, अपि तु कारणक्षयेण । तच्च कारणमतीतं जातत्वानुशक्यं मासंतेतु ( जातत्वान्न शक्यमपनेतुम् ) । नापि वर्त्तमानम् ; जाये - सातत्वात् । (जायमानत्वात् ) । भविष्यदेव तु प्रतिरुद्धयते, तदन्मयि ( तदन्य) विरुद्धाचरणेन । न च तत्र प्रमाणमिति । स्वयम् आत्मना प्रमाणाभावात् । क ? इत्याह - " अयोनिसो (शो) २५ मनस्कारेऽपि योनिम् - आर्य सत्यवष्म ( वर्त्म ) रूपं न ( - पं तस्मिन्नसति) यो मनस्कारः तस्मिन्नमित् (न्नपि न केवलम् अन्यस्मिन् भविष्यति तृष्णाविद्याचेतसि इत्यर्थः । किंभूते ? इत्याहभविष्यति भाविभवभाविनि इत्यर्थः । तथा दुःखसन्ततेः प्रवृत्तिनिवृत्त्योः प्रमाणाभावात्
(१) खलविलान्तर्गतं बीजाख्यं कारणम् । ( २ ) अङ्कुरानुत्पादकमपि । (३) शब्दस्य कार्यानुत्पादकत्वे अनर्थक्रियाकारित्वेन अवस्तुत्वं स्यात् इति भावः । (४) 'दृष्टान्ते तदवेदिनः । ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ।' इति शेषः । (५) बौद्धस्य । (६) 'अनर्थे' इत्यस्य पञ्चम्यन्तं 'अनर्थात्' इतिरूपमपेक्ष्यम् । (७) यथेच्छम् । (८) इन्द्रियग्राह्यत्वात् । ( ९ ) तत्प्रतिपक्षभूतचारित्रेण । ( १० ) " अयोन्या अन्यायेन क्लेशयोगेन च प्रवृत्तो मनस्कारः । " - अभिध० को० टी० ४।९४ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org