________________
५००
सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धिः प्रवृत्तिकामः प्रेक्षावान् सोपायं हेयोपादेयतत्त्वमन्वेषते न व्यसनेन । तच्चानागतविषयमप्रमाणम् समग्र[कारणत्वेऽपि] प्रतिबन्ध[संभवात् । तदर्थानर्थयोः इदन्तया नेदन्तया वा प्रमातुमशक्यत्वात् कथमर्थे अनर्थे सन्दिग्धे प्रवर्तत निवर्तेत वा ? स्वयम
योनिशो मनस्कारेऽपि भविष्यति प्रमाणाभावात् , तथा दुःखसन्ततेः प्रवृत्तिनिवृत्त्योः, ५ रसात् रूपादिवत् भूतैककालयोः नियमात् । नावश्यं [कारणानि कार्यवन्ति भवन्ति]
तदेतस्मिन्नेकान्ते सौगतैकान्ते इत्यर्थः । कार्यं च न केवलमकार्यम् अपितु कार्यमपि नानुमेयं नानुमानपरिच्छेद्यं चेद् यदि। कुतः ? इत्याह-समग्रादपि न केवलमसमग्रात् कारणात् । 'नावश्यं कारणानि कार्यवन्ति भवन्ति प्रतिबन्धवैकल्यसंभवादिति भावः । अत्र
दूषण[माह]-हेयोपादेयतत्त्वमिति । हेयः संसार उपादेयो मोक्षः तावेव तत्त्वं केन न १० केनचित् प्रमाणेन मीयते । किंभूत (तम्) ? सोपायं संसारस्य कारणमविद्यादृष्टे (तृष्णे)
मोक्षस्य नैरात्म्य (त्म्य) दर्शनं वाशब्दः अपिशब्दार्थः । ___एतदुक्तं भवति-नातीतः संसारो हेयोऽत्र (ऽनु) भूतत्वा[त्] । नापि वर्तमानः ; नुयमानत्वात् (अनुभूयमानत्वात् ) । भावी तु हेयः स्यात् । स च [न] प्रत्यक्षतोऽनुमीयते,
तंत्र तँदप्रवृत्तेः, अन्यथा चार्वाक न(कमतम) खिलं जगत् स्यात् । अथ प्रत्यक्षेऽपि तद्विपर्यय१५ समारोपाददोषोऽयम् ; नैवम् ; सर्वस्य सर्वदर्शित्वापत्तेः। शक्यं हि वक्तुं सर्वस्य सर्वदर्शित्वेऽपि तद्विपर्ययारोपान्नथा (न्न तथा) व्यवहार इति ।
, ननु यदि न भावी [३९४क] संसारः प्रत्यक्ष [:] कथं भाविनि प्रत्यक्षं प्रमाणमुक्त प्रज्ञा क रे ण ? तत उत्पत्तेरिति चेत् ; तदितरत्र समानम् । न हि परस्माद् अन्त्यं वित्त्यन्त
(चित्तं न) जायते अतद्र पंवा, अन्यथा किञ्चिदपि भाविनो न भवेत् । लोकस्य तथा व्यवहारा२० भावात् ततस्तन्नेति चेत् ; अत एव न प्राप्यादृश्ययुक्तिः (?) अन्यत्रापि विजृम्भितैव ।
स्यान्मतम्-नान्य[त् ] प्रत्यक्षं भाविनि संसारे प्रमाणं दृश्यैकत्वाव्य (ध्य)वसायाभावात् , प्राप्ये तु प्रमाण (ण) विपर्ययात् । तंत्र तदव्य (ध्य)वसायस्य किन्निमित्तम् ? हेतुफलभाव इति चेत् ; प्रकृतेऽपि समानम् । 'वासना' इत्यपि नोत्तरम्; अन्यत्र समत्वात् ,
कथमन्यथा सत्त्वदृष्टिः ? भवतु तर्हि तत्र संसारे तत्प्रमाणमिति चेत् ; उक्तमत्र । २५ किञ्च, पित्रादिचेतसोऽपि भावनि (भाविनि) प्रत्यक्षत्वम् , स्पर्शादिवद् एकत्वव्यवसायनिमित्तस्य ऐक्यसामग्र यधीनत्वस्याऽविशेषात् । तन्न हेयः संसारः प्रत्यक्षतो नीयते"। नाप्यनुमानतः ; तत्प्रतिबद्धलिङ्गाभावात् । तेयं (?)चायतनं लिङ्गम् इति चेत् ; तथा हि-शरीर तृ कं (?)
(१) तुलना-"नावश्यं कारणानि कार्यवन्ति भवन्ति प्रतिबन्धवैकल्यसंभवात्" हेतु बि. टी. पृ० २१० । (२) मन्त्रादिना । (३) भाविनि । (४) प्रत्यक्षस्याप्रवृत्तेः। (५) प्रत्यक्षमात्रप्रमाणकं स्यादिति भावः । (६) न चार्वाकमतप्रसङ्गो दोष इति चेत् ; (७) “ततो भाव्यर्थविषयं विषयान्तरगोचरम् । प्रमाणमध्यारोपेण व्यवहारावबोधकृत् ॥"-प्र. वार्तिकाल० पृ० ५।(6) एकत्वाध्यवसायसद्भावात् । (९) प्राप्य । (१०) ज्ञायते इत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org