________________
७२३-२४ ]
ईश्वरकारणतानिरासः पुरुषातिशयः किमिष्यते नेष्टव्य इत्यर्थः । 'तदतिशयो हि यथार्थदर्शनादिगुणलक्षण इष्यते[5] विप्रलम्भार्थः । तदुक्तम्
*"ज्ञानवान् मृग्यते कश्चित्तदुक्तप्रतिपत्तये । अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ॥"
[प्र० वा० १॥३२] इति । *"वीतरागा अपि सरागा इव चेष्टन्ते" इति वचनात् ततोऽपि विप्रलम्भाशङ्कानुवृत्तेः किं तेन इति तदनुबन्धिकारणं दर्शयन्नाह-चेष्टते व्याप्रियते वेद्यादि (चेत् यदि) यथाकूतम्। कः ? इत्याह-चीतदोषो वीतरागः । क इव ? इत्याह-सदोषवदिति । दूषणान्तरमाहपुरुषातिशयः सन्नपि ज्ञातुं यद्यशक्यः किमिष्यते ?
तदशक्यत्वं दर्शयन्नाह-चेष्टते चेदित्यादि । वीतराग आदिर्येषां यथार्थदर्शनादीनां ते १० तथोक्ताः । किंभूतास्ते ? इत्याह-विचित्राभिसंचयभा (भिसन्धयः ना) नाभिप्राया यतः । ततो यदि कायवास्यव (वाग्व्यव) हारान् मिथ्यापि न केवलं सत्यात् (न् ) प्रवर्तयेयुः । के इव ? इत्याह-[स]दोषवदिति । दूषणान्तरमाह-पुरुषातिशयः सन्नपि ज्ञातुं यद्य[शक्यः] सरागादय इवेति । अत्र दूषणमाह-पुरुषेत्यादि । पुरुषस्य अतिशयो यथार्थदर्शनादिरूपः तस्मिन् पेशी (अपेक्षा) यस्य तत्तथोक्तम् । किम् ? इत्याह-शास्त्र प्रमाणमिष्टमभ्युपगतं सौगतैर्यदि १५ स यथार्थदर्शनादिलक्षणोऽतिशयो ज्ञातु शक्येत इत्येवं धर्म की ते वचनं पोप्लुतेन (पोप्लूयते) । कुत एतत् ? इत्यत्राह-सुगतस्यापीत्यादि [३९३ ख] ततः किम् ? इत्याहतादृश इत्यादि । तादृशः संभवद (संभवात् , अ) सत्याभिधान[स्य] । दूषणान्तरं दर्शयन्नाहहरिहरेत्यादि।
___ एवं तावत् *"तायित्वात् प्रमाणो एवं न (भगवान्) चतुरार्यसत्याभिधान- २० लक्षणात् सुगततत्त्व (सुगतत्व)मनुमीयते, ततोऽप्युपायानुष्ठानम्" इत्यादि व्याख्यानं *"प्रमाणभूताय" [प्र० समु० १।१] इत्यादि (दे) निरस्तम् । अधुना *"जगद्धितैषित्वात् शास्तृत्वम् आयाभ्यासलक्षणम् अनुमीयते, ततोऽपि सुगतत्वम्" इति व्याख्यानं निराकुर्वन्नाह-तदेतस्मिन्नेकान्ते इत्यधिकां कार्य वे(चे)त्यादि कारिकाम् ।
[तदेतदस्मिन्नकान्तेकार्यञ्च नानुमेयं चेत्समग्रादपि कारणात् ।
हेयोपादेयतत्त्वं वा सोपायं केन मीयते ॥२४॥ (१) पुरुषातिशयः । (२) अविसंवादार्थम् । (३) पुरुषातिशयस्वीकारेऽपि । (४) यथाभिप्रायम् । (५) स्वदृष्टमार्गोपदेशकत्वात् । “ततः प्रमाणं तायो वा चतुःसत्यप्रकाशनम्"-प्र. वा. १११४७ । "तस्माच्चतुरार्यसत्यप्रकाशनमेव तायः, तस्मात् । चतुःसत्योपदेशलक्षणात् कार्यभूतात् तायाद्धि भगवान् सुगत इति ज्ञायते ।"-प्र. वार्तिकाल० पृ० १६४ । (६) "प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिने । प्रमाणासिद्ध्यै स्वमतात् समुच्चयः करिष्यते विप्रसृतादिहैकतः ॥-प्र० समु० ११ । (७) "उपायाभ्यास एवायं तादाच्छासनं मतम्"-प्र० वा०, वार्तिकाल. ११३९ ।
२५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org