________________
सिद्धिविनिश्चयटीकायाम्
[७ शास्त्रसिद्धिः न्तस्य प्रत्यक्षस्यापह्नवे क न कचित् कस्य न कस्यचित् करणादयः। कुतः ? इत्यत्राहस्वपरेत्यादि । स्वस्य निरंशचित्तस्य [परस्य च सन्तानभेदस्य] अनुपलब्धौ तत्प्रतिबद्धलिङ्गदर्शनात् परत्रापि नानुमानम् इति भावः । कुत एतत् ? इत्यत्राह-सत्त्वभेदाऽभावादिति । सत्त्वगुणाधिकादिप्राणिभेदाऽभावात् ।
ननु 'स्वपर' इत्यादिना गतार्थमेतदिति चेत् ; न ; तेन तत्सन्तानभेदस्य स्वरूपाभाव उक्तः, 'अनेन स्वपरचित्तसन्तानभेदे सत्यपि सत्त्वानां भेदस्य गुणाधिक्यादिविशेषस्य प्रमाणाभावेनाभाव उच्यते । एतदेव दर्शयन्नाह-सन्तावे (सत्यां च इ)त्यादि । सत्यामपि स्वपरामत्त्व (स्वपरसन्तान) व्यवस्थायां न केवलमसत्यां कथमयं सौगतो यथाविषयं सं[त्त्व]गुणाधि
कादिविषयानतिक्रमेण मैत्रादा (मैत्र्यादीन्) भावयेत् । किं कुर्वन् ? इत्याह-अप्रतिपन्न १० कानतः (अप्रतिजानानः) कथञ्चित् केनापि प्रकारेण । कथं कान् ? इत्याह-एवमित्यादि ।
सुगमम् । कुत एतत् ? इत्यत्राह-परेत्यादि । परसन्तानस्य (स्या) प्रत्यक्षत्वे तद्गुणदोषा न प्रत्यक्षीभवन्तीति भावः। कायवाग्व्यवहारविशेषानुमेयाः स्युरिति चेत् ; अत्राह-कार्य(काये) त्यादि । तत एव प्रमाणाभावादित्युच्यते इति । न केवलमेव (लम् एवं) न वेत्यन्यगुणदोषान्
सङ्कर[व्यतिकर]व्यतिरेकेण कथञ्चिदप्रतियन् कथमयं यथाविषयं मैत्र्यादीन् भावयेत् अपि तु तान१५ प्रतिजानानः [३९३ क] सुगतमपि कथं जानीयादिति दर्शयन्नाह-'विप्रलम्भशङ्कानुबन्धात्' __ इत्यधिकां कारिकाम् ।
[विप्रलम्भशङ्कानुबन्धात् चेष्टते चेद्यथाकूतं वीतदोषः सदोषवत् ।
पुरुषातिशयो ज्ञातुं यद्यशक्यः किमिष्यते ॥२३॥ २० वीतरागादयो विचित्राभिसन्धयः कायवाग्व्यवहारान् मिथ्यापि प्रवर्तयेयुः सदोषवत् । सरागादिवत् पुरुषातिशयः सन्नपि ज्ञातुं यद्यशक्यः ; यदि पुरुषातिशयापेक्षि शास्त्र प्रमाणमिष्टं स ज्ञातुं शक्यतेति धर्म की ति वचनं पोप्लूयते । सुगतस्यापि तादृशः संभवात् । हरिहर]
विप्रलम्भो वचनं (वश्चनं) तस्या (तस्य) शङ्का तस्या अनुबन्धात् कारणात्
(१) 'सत्वभेदाभावात्' इत्यनेन । (२) "मैत्र्यद्वेषः करुणा च मुदिता सुमनस्कता । उपेक्षाऽलोभः आकारः सुखिताः वत दुःखिताः। मुदिताः सत्वा वत च । मैत्रीभावनाया आकारः सुखितान् सत्वान् दृष्ट्वा सुखिताः वत सत्वाः, करुणाभावनायाः दुःखिताः वत सत्त्वाः, उपेक्षा माध्यस्थ्यरूपा। मुदितायाः मुदिता वत सत्त्वाः।"-अभिध० टी० ८।३०। “सत्त्वेषु मैत्री गुणिषु प्रमोदं क्लिष्टेषु जीवेषु कृपापरत्वम् । माध्यस्थ्यभावं विपरीतवृत्तौ सदा ममात्मा विदधातु देव ॥"-सामायिकपा० श्लो०१। (३) तुलना-"तथान्यगुणदोषेषु संशयैकान्तवादिनाम् । पुरुषातिशयो ज्ञातुं यद्यशक्यः किमिष्यते ॥"-न्यायवि० श्लो० ३८८ । प्रमाणसं० पृ० ११६ । (१)"पुरुषातिशयापेक्षं यथार्थमपरे विदुः। इष्टोऽयमर्थः प्रत्येतुं शक्यः सोऽतिशयो यदि। अयमेवं नवेत्यन्यदोषा निर्दोषतापि वा । दुर्लभत्वात्प्रमाणानां दुर्बोधेत्यपरे विदुः॥"-प्रवा० १।२२०-२१ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org