________________
७।२२]
क्षणिकैकान्ते न मैत्र्यादिः
४९७ सम्बन्धे वा उत्पत्तिरि [ति ?] न च वस्तुव्यतिरेकेण प्रागभावो नासं (नाम) प्रमाणसिद्धोऽस्ति येन तद्वत[:] कार्यत्वम् । कारणसत्तैव प्रागभाव इति चेत् ; न सदेतत् ; यतः कारणस्यैवाऽपरिज्ञानात् । प्रागभावि कारणं न चे (चेत् ) तथाविधं सर्व (सर्व) भवेत् इत्यतिप्रसङ्गः। यस्यान्वयव्यतिरेको कार्यमनुकरोति तत् कारणमिति चेत् ; किमिदम् अन्वयानुकरणम् ? तस्मिन् सति कार्यस्य भवनं चेत् ; अनुबंद्धः प्रसङ्गः-सहोत्पत्तिप्रसङ्गादिति ।।
किं वा व्यतिरेकानुविधानम् ? तदभावेऽभवनं चेत् ; कार[ण] स्याभावे एव भवतः कथं तदनुविधानम् ? स्वकाले तस्य भावः ; इत्यपि वार्तम् ; सर्वस्य तत्काले भावात् । तन्नासतः कार्यत्वम् ।
पर आह-कथं पुनः न कथञ्चित् सतः उत्पत्तेः प्राग् विद्यमानस्य कार्यत्वम् । कुतः ? । इत्यत्राह-[३९२ क] कृतत्वात् कारणव्यापारात् प्रागेव जनितत्वात् कारणवदिति । १०
नन्वपेक्षितपरव्यापारभावत्वं कृत[क]त्वमुच्यते, कृतकत्वात् कारणव्यापारात् प्रागवि (प्रागपि) सत्त्वाद् इत्यर्थात् , करोतेः क्रियासामान्यवाचित्वात् ।।
यदि वा, कृतत्वात् , यद् यत् कार्यत्वं तत् 'कथं पुनः सतः' इति व्याख्येयम् । अथवा कथं पुनः सतः कार्यत्वं कारणवत् ‘सत्त्वात्' इति गम्यते इत्येवं वाक्यम् ।
ननु नासतो जन्यत्वात् कार्यत्वम् अपि तु सतोऽपि व्यङ्ग्यत्वात् घटा]दिवत्तदिति १५ चेत् ; अत्राह-कृतं (कृतत्वात्) कारणवदिति । कृतत्वात् 'परिहारस्य' इत्यध्याहारः । सर्वथा यथैव सतो न जन्यत्वं तथा व्यङ्ग्यत्वमपि इति । सो (स्वो)त्तरमाह-तदेकान्त इत्यादि। 'अत्यन्तं सतः कार्यत्वम्' इत्येकान्तः, तस्याऽनङ्गीकरणाद् अनुकूलमाचरसि कतैरपि (जैनैरपि) तस्य कार्यत्वानभ्युपगमादिति भावः । कथश्चित् सतोऽपि कार्यत्वे दूषणमस्तीति दर्शयन्नाह परः-यथैवेत्यादि । [यथैव] येनैव प्रकारेण तर्हि हेत्ववस्थायां सत्कार्या (यं तथैव) २० तेनैव प्रकारेण नोत्पत्ति(त्त)मर्हति । कुतः ? निष्पन्नत्वात् 'कारणवत्' इति योज्यम् । यथा च येन च प्रकारेण असत् तथा च नोत्पत्तुमर्हति, अत्यन्तमसंभवात् खपुष्पवत् । इति शब्दः पूर्वपक्षसमाप्तौ । तस्योत्तरमाह-तच्चेदं तदपि कृतोत्तरम् इति । किमुत्तरं कृतम् ? इत्याह*"प्रतिक्षणम्" [सिद्धिवि०] इत्यादि । ततो निराकृतमेवतत् (मेतत्)-*"अशक्त सर्वम्" [प्र० वा० २।४] इति, प्रत्यक्षादिप्रबाधनात् ।
२५ यदि विज्ञानमन्यद्वा अनेकान्तात्मकमुभयसिद्ध (द) स्यादेवता नैवमे (देवं न चैवम् ए)कान्तस्य भावादिति चेत् ; अत्राह-न इत्यादि । क्वचिद् बहिरन्तर्वा न एकान्तदर्शन (न) यदेकान्तदर्शनमवलम्ब्य आश्रित्य [३९२] द्रव्येष्वनेकान्तसिद्धिः उँपालभ्येत । केन कृत्वा ? इत्यत्राह-संशय इत्यादि । प्रत्यक्षविषये संशयादेरनवतार इति भावः । एकान्तवदनेकान्तअस्यापि तत्त्वचिद (न्तस्यापि न क्वचिद)र्शनमिति चेत् ; अत्राह-तदित्यादि । तस्याऽनेका- ३०
(१) "तस्मादन्वयव्यतिरेकानुविधायित्वं निबन्धनम् । कार्यकारणभावस्य"-प्र• वार्तिकाल० पृ. .६८ । (२) पूर्ववत् दोषः इत्यर्थः । (३) कारणव्यतिरेकानुविधानम् । (४) दूष्येत ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org