________________
४९६
सिद्धिविनिश्चयटीकायाम्
एतेन वेदान्तपक्षोऽपि चिन्तितः ।
निगमयन्नाह - तत्रेत्यादि । यत एवं तत् तस्मात् न स्वपरचित्तव्यवस्थेति ।
"
स्यान्मतम् - न चिन्तितं (चित्तं) तदन्तरा (न्तर) वेद्यं नापि परोक्षमेव सच्चेतनादिस्वभावेन स्वयं प्रत्यक्षत्वात् [ इत्यत्राह - विषयेत्यादि] विषयाकारा [र]विवेकः [३९१क] स्थूल५ स्तम्भाद्याकारशून्यत्वम्, यदि वा, विषयः प्रधानं तस्याकारः कर्तृत्वादि तेन विवेकः तस्य । किंभूतस्य ? इत्याह-स्वतोऽचोद्यस्य (वेद्यस्य) परोक्षस्य इत्यर्थः परत्वप्रसङ्गात् सं चित् (संवित्तः) सकाशादमत्त्वे ( दन्यत्वे ) प्राप्ते तत्र तद्व्यवस्थेति तस्य ततोऽन्यत्वे संविद्विषयाकारयोः तादात्म्यप्रसङ्गादिति भावः ।
इदमपरं व्याख्यानम् - विषयो ज्ञानत्वादि ज्ञानवेद्यः ततो भिन्नः ततो विवेकस्येति । शेषं १० पूर्ववद् इति ।
एतेन ब्रह्मणो [S] विद्याविवेकोऽपि व्याख्यातः ।
एतेन *"अविभागोऽपि बुद्ध्यात्मा" [प्र० वा० २।३५४] इत्यादि मतम् ; तन्न; न विषयाकारादन्या संवित्ति [ : ] नीलाद्याकारस्यैव तत्त्वात् । तच्च सहोपलम्भनियमादिभिः इति कश्चित् सौगतः ; तत्राह - परचित्तस्यापीत्यादि । न केवलं विषयाकारस्य अपि तु परचित्तस्यापि १५ स्वस्वभावापत्तेः विवक्षितज्ञानरूपतापत्तेः तत्तद् ( न तद् ) व्यवस्था इति । कै: ? इत्याहसहोपलम्भनियमादिति (दिभिः) | गदि (आदि ) शब्दा [त्] सहोत्पत्त्यादिभिरिति ।
ननु विषयाकारस्य विज्ञानाद ( द ) एकस्यै नानेकत्वमिति चेत्; अयमयतो (मपरो) दोषोऽस्तु । इतश्च न स्वपरचित्तव्यवस्था इति दर्शयन्नानाम् (नाह - चित्तानाम् ) इत्यादि । [चित्तानां] चेतसा (सां) कुत [ : ] सन्ततिः ? कुतो न स्यात् ? इत्याह- कार्येत्यादि । ततः २० किं जातम् ? इत्याह-स्वपरेत्यादि । तदसंभवं दर्शयन्नाह - यस्मिन् सतीत्यादि । कारणात् तत्संभव इति चेत्; अत्राह - नर ( खर) विषाणस्येव इत्यादि । न सति नाप्यसति कारणे तदसंभवः किं तद्यथेति चेत्; अत्राह - न चेत्यादि । गत्यन्तरस्यादृश्यस्यापि तर्कोऽभो (भा) वस्तस्य [ ३९१ख ] देशाद्यपेक्षा [s] योगात् । अनन्त [रं] कारणमिति चेत्; अत्राह - ततो नैरन्तर्यमित्यादि । यतः खरविषाणस्येव असतः कथं हेतुत्वम् ? ततो नैरन्तर्यमयुक्तत (क्तम् ।) [ कुत: ?] २५ इत्यत्राह – कार्येत्यादि । नहि अत्यन्ताऽनन्तरविनष्टयोः कश्चिद्विशेष इति भावः । चिरविनष्टं तु कारणं नित्य[म]विशिष्टमिति न तदनपेक्ष्यते (तदपेक्षा इति ) । तन्नासत्करणात् (त्कारणम्) | कार्यमिति दर्शयन्नाह-तथा च इत्यादि । [तथा च] तेनैव प्रकारेण अत्यन्तमसतो हेत्ववस्थायामविद्यमानस्य कार्यत्व ( त्वं ) प्रतिषिद्धम् वेदितव्यम् 'खरविषाणस्येव' इत्यनुवर्त्तते ।
ननु खरविषाणस्य सर्वदाऽसमा ( Sसतो) मा भूत् कार्यत्वम्, घटादेस्तु प्राग्भाग्भाववतः ३० (प्रागभाववतः) स्यादिति चेत्; अन्योऽन्यसंश्रयैः । उत्पन्नस्य, नानुत्पन्नस्य खरविषाणवत्,
Jain Education International
[ ७ शास्त्रसिद्धिः
(१) चित्तान्तरवेद्यम् । (२) 'ज्ञानत्वादि' इति निरर्थकम् । (३) 'विपार्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ प्र० वा० । ( ४ ) संवित्तिरूपत्वात् । (५) अभिन्नस्य । (६) सिद्धे हि कार्यत्वे तत्प्रागभावसिद्धिः, ततश्च कार्यत्वमिति ।
For Personal & Private Use Only
www.jainelibrary.org