________________
४९५
१२२] क्षणिकैकान्ते न मैञ्यादिः
४९५ स्वरूपेद (ऽप्य)गृहीते चेद् विभ्रमः स्यात्ततोऽपरः।
तस्यापि सर्वतो वित्तौ दूषणं तदवस्थकम् ॥ ततो यत्किञ्चिदेतत् । सौगतमतं तु *"वित्तेविषयनिर्भासविवेकानुपलम्भत" [सिद्धिवि० १।२०] इत्यादिना चर्चितम् ।।
इतश्च एकान्तपक्षे 'न चैकान्तेन श्च (स्व) संवित्तिश्चित्तस्य' इति दर्शयन्नाह-यथा- ५ दर्शनमित्यादि । दर्शनानतिक्रमेण यथादर्शनम् अनेकान्तात्मकत्वात् यथाकथं (यथाकूतम्) यथापराभिप्रायं तत्त्वस्य चित्तस्वरूपस्य [स्वतः]अप्रतिपत्तेः, कुतः *"स्वरूपस्य स्वतो गतिः [प्र० वा० ११६] ? अनेन
*"यथादर्शनमेवेयं मानमेयफलस्थितिः । क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम् ॥"
[प्र. वा० २।३५७ ] इत्याद्यपि अनेकान्त एव संभवति इति दर्शयति यथाकूतम् इत्यादिना। परस्य धर्माप्य (धर्माद्य)सिद्धेः अनुमानाद्यभावात् कुतश्चिन्तामयी भावने[त्या]दि ?
स्यान्मतम्-न कस्यचिद्विज्ञान[स्य] स्वतः संवित्तिः, आत्मनि क्रियाविरोधात् । [नापि परतः, तस्य अज्ञेयत्वाद् घटादि[वदि]ति; तत्राह-परतश्चेत्यादि । च शब्दः समुच्चये । न १५ केवलं यथाकूतं तत्त्वस्य स्वतः प्रतिपत्तिर्नास्ति किन्तु परतश्च प्रत्यक्षोत्तराद् (प्रत्यक्षादुत्तरात् ) अर्थापत्त्यादेर्वा न (न) संभवत्येवाधिगतिरि[ति] । कुतः ? [३९०ख] इत्याहज्ञानान्तरस्य इत्यादि । विवक्षितज्ञानादन्य[त्] प्रत्यक्षादि तदन्तरं तस्यान्तद्विषय (तस्य अतद्विषय)त्वात निरंशदित्ता (निरंशादितत्त्वा) विषयत्वात् । एतदुक्तं भवति-स्वात्मनि क्रियाविरोधान्न तत्र ज्ञानप्रतिभासः, परत्रापि[न] निरंशस्य प्रतिभास इति कथोच्छेदः । हेत्वन्तर- २० माह-अनन्यवेद्य [इत्या]दि। यमाच्च (यस्माच्च) न विद्यते अन्यद् वेद्यमस्य नान्यस्य वेद्यं तस्य नियमात् । अथवा अन्यचे (अन्यं च) तद्वेद्यं च तस्य नियमो (मः) तदेव गृह्यते ज्ञानेन, पुनरस्य तत्रा (नबाड) भिसम्बन्ध (न्धः) तस्मात् , अनेकान्ते (न्त) स्वरूपस्यापि ग्रहण (णा) विरोधात् । कथमन्यथा घटादिवर्तनार्थ (वत् तेन अर्थ) ग्रहणम् ? प्राणादिवदसैपक्षस्याप्यस्य गमकत्वमुक्तम् ।
निरंशज्ञानसंवित्तौ यज्ज्ञानान्तरकल्पनम् ।
तदनर्थकमे [व] स्यादन्यतः कार्यसिद्धितः ॥ इत्यनेन दर्शयति । यदि वा, अन्यस्य वेद्यं तस्य नियमः-ज्ञानान्तरेणैव ज्ञानं वेद्यते, न स्ववेद्यं नापि परोक्षं यत्वव (अन्यव)त्तेनार्थाग्रहणात् ] । नान्यवेद्यनियमोऽनन्यवेद्यनियमः तस्मात् । प्रथमद्वितीये विषमदोषत्वात , अन्यथा किं द्वितीयकल्पेन ? यद्वा यदुक्तं साङ्ख्येन बुद्धि [:] प्रत्यक्षा परोक्षा परोक्षः पुरुष इति ; तत्राह-अनन्यवेद्यनियमात , वनान्यवेद्योरे (न अन्यवेद्यः अ)-३० नन्यवेद्यः पुरुषः तस्य नियमात् , ततश्च स्वतः परतश्च तस्याग्रहणात् सर्वाग्रहणमेव ।
(१) स्वात्मनि । (२) ज्ञेयभिन्नत्वात् ज्ञानत्वादित्यर्थः । (३) 'अन्यवेद्यनियमात्' इत्यस्य । (४) नसमासे सति, 'अनन्यवेद्यनियमात्' इति सिध्यति । (५) सपक्षरहितस्य । (६) सन्तानान्तरवत् । (७) 'परोक्षा' इति निरर्थकम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org